________________
कण्डिका] प्रथमकाण्डम्।
१७१ कृतं कुर्यात् । कृदितिप्रत्ययसंज्ञा तदन्तं कुर्यात् । अपरे पितामहादिकृतं वर्णयन्ति । न तद्धितम् । तद्धितप्रत्ययान्तस्थापवादोऽयम् । अयुजाक्षरमाकारान्त स्त्रियै तद्धितम् । अयुग्मैरक्षरैराकारान्तं च त्रिय तद्धितान्तं कर्तव्यम् । शर्म ब्राह्मणस्य । शर्मशब्दः सुखवाचकः सुखनीयं ब्राह्मणस्य कर्तव्यम् । यथा शुभङ्करः प्रियंकरः इति । वर्म क्षत्रियस्य । वर्मशब्दश्च शौर्यवचनः शौर्ययुक्तम् क्षत्रियस्य कर्तन्यम् । नरवर्मा । शशिवर्मा । गुप्तेति वैशस्य । गुप्तशब्दश्चान्यवचनः । आत्यत्वाभिधायि वैश्यस्य मणिभद्रः । 'चतुर्थे मासि निष्क्रमणिका' कुमारस्य कार्या । तत्र 'सूर्यमुदीक्षयति तचक्षुरिति' अनेन मन्त्रेण ॥ १७ ॥*॥
(जयरामः )-दशम्यां राज्यामतीतायामेकादशेऽह्नि इत्यर्थः । ब्राह्मणान् श्राद्धव्यतिरिक्तान् त्रिप्रभृतीन पितेति ग्रहणादन्यत्रापि संस्कारे पितुरेव कर्तृत्वनियमोऽवगम्यते तच्च व्यक्षरं चतुरक्षरं वा । घोषवदक्षरम् वर्गाणां प्रथमद्वितीयाः शपसाश्चाघोषा: अन्ये घोपवन्त इति त आदौ यस्य तत्कुर्यात् अन्तमध्ये अन्तस्था यरलवा यस्य तत् दीर्घाभिनिष्ठानं दीर्घ द्विमात्रममिनिष्टानं निष्ठा समाप्तिर्यस्य तत् । कृतं कृत्प्रत्ययान्तम् पितामहादीनां कृतमित्यपरे । न तद्धितमिति तद्धितापवादोऽयम् । अयुजाक्षरमित्यादि तु स्त्रिया एव अयुजैरयुग्मैरक्षरैराकारान्तम् । तद्धितप्रत्ययान्तं च स्त्रियै कन्यायाः कुर्यात् । शर्म सुखवाचकम् । वर्म शौर्यवाचकम् । गुप्तशब्दश्चात्यवचनः । चतुर्थे मासि निष्कमणं कार्यम् । तत्र सूर्यमुदीक्षयति दर्शयति पिता तच्चक्षुरितिमन्त्रेण ॥ १७ ॥ * ॥
(हरिहरः)- दशम्या "करोति । प्रसवदिनमारभ्य दशम्यां तिथौ सूतिकां सूतिकागृ हादुत्थाप्य नामकरणागतया ब्राह्मणान् श्रीन् भोजयित्वा भोजनं कारयित्वा पिता अपत्यस्य नामधेयं करोति । अत्र दशम्यामिति सूतकान्तोपलक्षणम् । ततश्च यस्य यावन्ति दिनानि सूतकं तदन्तदिने सूतिकोत्थापनमित्यर्थः । अपरदिने च नामकरणम् । तथाच गोभिलसूत्रम्-दशरात्रे व्युष्टे नामकरणमिति । याज्ञवल्क्यवचनं च-अहन्येकादशे नामेति नाम करोतीत्युक्तम् । तत्कीदृशमित्यपेक्षायामाह ' ब्यक्षरं तद्धितम् । द्वे अक्षरे अस्य तत् व्यक्षरं, चत्वार्यक्षराणि यस्य तचतुरक्षरम् । अनयोर्विकल्पः । किंच घोषवदादि घोषवदक्षरं आदौ यस्य नाम्नः तत् घोपवदादि । घोषवन्ति चाक्षराणि गघङ जान डढण धन वभम यरलव ह इत्येतानि । अन्तरन्तस्थं अन्तमध्ये अन्तस्था यस्य तदन्तरन्तस्थम् अन्तस्था यरलवाः । दीर्घाभिनिष्ठानं दीर्घमहस्वमभिनिष्ठानमवसानं यस्य तत् दीर्घाभिनिष्ठानम् । कृतं कृत्प्रत्ययान्तं कुमारस्य नामधेयं कुर्यात् । पक्षान्तरे ‘कृतम् । पितामहादिनाम तत्कुर्यात् । न तद्धितं तद्धितप्रत्ययान्तं न कुर्यात् । स्त्रिया नाम्नि विशेषमाह ' अयुजाक्षरं ' अयुजानि विपमाणि त्र्यादीन्यक्षराणि यस्मिन्नानि तदयुजाक्षरम् । आकारान्तमाकारः अन्ते यस्य तदाकारान्तम् । तद्धितं तद्धितप्रत्ययान्तं स्त्रियै स्त्रिया नाम कुर्यादित्यनुषङ्गः । अपिच 'शर्म "वैश्यस्य ' ब्राह्मणस्य विप्रस्य पूर्वोक्तलक्षणनामान्ते शर्मेति क्षत्रियस्य पूर्वोक्तलक्षणनामान्ते वर्मेति वैश्यस्य पूर्वोक्तनामान्ते गुप्तेति पदं कुर्यात् । अथवा ब्राह्मणस्य नाम शर्म मङ्गलप्रतिपादकं कुर्यात् । क्षत्रियस्य वर्म शौर्यरक्षावत्ताप्रतिपादकम् , वैश्यस्य गुप्तेति धनवत्ताप्रतिपादकम् , शुद्रस्य प्रेष्यत्वप्रतिपादकमिति बोद्धव्यम् । अथ नामकरणप्रयोगः। सूतकान्तद्वितीयदिने नामकरणनिमित्तं मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं विधाय अन्यब्राह्मणत्रयं भोजयित्वा पिता कुमारस्य व्यक्षरमित्यादिनोक्तलक्षणं नाम करोति यथाशिष्टाचार देवराजशर्मा इत्यादि। 'चतुर्थे. "णिका' ।कुमारस्य जन्मचतुर्थे मासि निष्क्रमणिका गृहाद्वहिनिष्क्रमणं करोति पिता । 'सूर्य' 'चक्षुरिति । अथ तच्चक्षुर्देवहितमित्यादिना भूयश्च शरदः शतादित्यन्तेन मन्त्रेण श्रीसूर्य भगवन्तं रश्मिमालिनमुदीक्षयति कुमार प्रदर्शयति पिता ॥ ॥ अथ निष्क्रमणप्रयोगः । जन्मदिने जन्मनक्षने वा प्राणानायम्य देशकालौ स्मृत्वा अस्य कुमारस्य गृहान्निष्क्रमणं