________________
१७० पारस्करगृह्यसूत्रम् ।
[सप्तदशी वीरे वीरमजीजनथाः । सा त्वं वीरवती भव यास्मान्वीरवतोऽकरदिति । चतु:सूत्री निगदव्याख्याता। ब्रह्मणान् कुमाराभिमुखान् । ब्राह्मणाभावे स्वस्य कर्तृत्वे अतिक्रमणा प्रैपाभावश्चेति अन्यत्सुगमम् ।
अथास्यै दक्षिण स्तनं प्रक्षाल्य प्रयच्छतीमर स्तनमिति यस्ते स्तन इत्युत्तरमेताभ्यां । कुमाराभिमन्त्रणानन्तरमस्यै अस्याः मातुः दक्षिणं स्तनं क्षालयित्वा कुमाराय ददाति कुमारस्य मुखे प्रवेशयति इमस्तनमिति, यस्तेस्तन इम स्तनमित्येताभ्यामृग्भ्याम् । 'उदपात्र शिरस्तो निदधाति । जलपूर्ण पात्रमतिखटं कुमारशिरःप्रदेशाधस्ताद्भूमौ निदधाति । तत्र मन्त्रमाह 'आपो देवेषु जाप्रथ यथा देवेपु जाग्रथ । एवमस्या सूतिकाया५ सपुत्रिकायां जाप्रथेति' अनेन मन्त्रेण । द्वारदेशे सूतिकाग्निमुपसमाधायोत्थानासंधिवेलयोः फलीकरणमिश्रान्सर्षपानग्नावावपति । सूतिकागृहस्य द्वारोपलक्षितेबहिःप्रदेशे दक्षिणत उपलिप्त उद्धतावोक्षिते सूतिकाग्निमुपसमाधाय तथाच तत्र स्थापितस्याग्नेः सूतिकाग्निरिति नामधेयं तस्मिन्नग्नौ तण्डुलकणोपरक्तान् सिद्धार्थानावपति । अवधिमाह-आउत्थानात् उत्थानं सूतकान्तं यावत् । कदेत्यत आह-सन्धिवेलयोः सायंप्रातरित्यर्थः । अनेनेतरहोमेतिकर्तव्यतानिरासः ॥ 'शण्डामर्का उपवीरः शौरिकेय उलूखलः । मलिम्लुचो द्रोणासश्च्यवनो नश्यतादितः स्वाहा । आलिखन्ननिमिपः किवदन्त उपश्रुतिहयक्षः कुम्भी शत्रुः पात्रपाणिमणिहन्त्रीमुखः सर्पपारुणश्च्यवनो नश्यतादितः स्वाहेति' द्वाभ्यामाभ्यां मन्त्राभ्यां द्वे आहुती अग्नौ प्रक्षिपतीत्यर्थः । इदमनय इति त्यागः ॥ ॥'यदि कुमार उपद्रवेज्जालेन प्रच्छाद्योत्तरीयेण वा पिताङ्क आधाय जपति । यदि कुमारस्य स्कंदनादिभ्यः ग्रहोपद्रवो भवेत् ततः पिता अङ्के कुमारमाधाय उत्तरीयजालाभ्यामन्यतरेणाच्छाद्य वक्ष्यमाणं मन्त्रं जपति। कितदित्यतऽआह–'कुर्कुरः सुकूधैरः कूकुरो वालवन्धनः । चेवेच्छनक स्मृज नमस्ते अस्तु सीसरोलपेतापह्वर तत्सत्यं यत्ते देवा वरमदुः स त्वं कुमारमेव वावृणीथाः । चेञ्चेच्छनक सूज नमस्ते अस्तु सीसरो लपेतापहर तत्सत्यम् । यत्ते सरमा माता सीसरः पिता श्यामशबलौ भ्रातरौ । चेवेच्छनक सृज नमस्ते असु सीसरो लपेतापहरेति' इतिशब्दो मन्त्रसमाप्तिद्योतकः । 'अभिमृशति, न नामयति नरुदति न हृष्यति न ग्लापति यत्र वयं वदामो यत्र/चाभिमृशामसीति' पूर्वमंत्रं जपित्वा जनामयतीत्यादिनाऽभिमृशामसीत्यन्तेन कुमारं स्पृशईदा । ततः कुमारमात्रे कुमारं दत्वा स्पर्शनिमित्तं पितुः स्नानम् । इति जातकर्म ।। इति पोडशी कण्डिक. ।। १६॥
__ दशम्यामुत्थाप्य ब्राह्मणान्भोजयित्वा पिता नाम करोति ॥ १ ॥ घ्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानं कृतं कुर्यान्न तद्धितम् ॥ २ ॥ अयुजाक्षरमाकारान्त स्त्रियै तद्धितम् ॥ ३ ॥ शर्म ब्राह्मणस्य वर्म क्षत्रियस्य गुप्तेति वैश्यस्य ॥ ४ ॥ चतुर्थे मासि निष्क्रमणिका ॥ ५ ॥ सूर्यमुदीक्षयति तच्चक्षुरिति ॥ ६ ॥ १७ ॥ ॐ ॥
(कर्कः)-'दशम्यामुत्थाप्य ब्राह्मणान्भोजयित्वा पिता नाम करोति ब्यक्षरं चतुरक्षरं वा । दशम्यां राज्यामतीतायामेकादशेऽहनि श्राद्धव्यतिरेकेण ब्राह्मणान्भोजयित्वा पिता नाम करोति कुमारस्य । अन्यस्मिन्नपि संस्कारे पितुरेवोत्सर्गात्कर्तृत्वम् । इह पितृप्रणादन्यत्रापि नियमोऽवगम्यते । तच घ्यक्षरं चतुरक्षरं वा कर्तव्यम् । घोषवदादि । घोषवदक्षरमादौ कृत्वा भवति । वर्गाणां प्रथमद्वितीयाः शषसाश्चाघोपाः । अन्ये घोपवन्तः । तदादि कर्तव्यम् । अन्तरन्तस्थम् । अन्तस्था यरलवास्त नान्नोऽन्तमध्ये कर्तव्याः । दीर्घाभिनिष्टानम् । निष्टानं समाप्तिरुच्यते सा दीर्घा कर्तव्या ।