________________
कण्डिका] प्रथमकाण्डम् ।
१६९ श्विध्रुवभेऽह्नि पुंसाम् । तिथावरिक्ते शुभमामनन्ति प्रसूतिकास्नानविधि मुनीन्द्राः॥ हस्तज्येष्ठापूर्वाफल्गुनीस्वातीधनिष्ठारेवत्यनुराधामृगशीपाश्विनीरोहिणीपु त्रिपूत्तरासु च सूतिकास्नानमित्यर्थः । पुंसामह्नि रविभौमगुरुवारेषु । इति जातकर्मविधिः ॥ १६ ॥ * ॥
(विश्व०)-'सोष्यन्ती"ग्यस्यैत इति । सोष्यन्तीं प्रसवशूलवती जलेन । मन्त्रमाह 'एजतु दशमास्य इति ' परादिना पूर्वान्त इति परिभापाया अप्रवृत्तेराह प्राग्यस्यैत इति जरायुणा सहेत्य. न्तेनेत्यर्थः । 'अथावरापतनं गर्भनिर्गमक्रियाहेत्वर्थस्मारकं मन्त्रं पठतीत्यर्थः । तमेव सूत्रयति मन्त्रम् 'अवैतु पृश्नि शैवल शुने जरायवत्तवे नैव मा ५सेन पीवरी न कस्मिंश्च नायतमवजरायुपद्यतामिति । 'जातस्य कुमारस्याच्छिन्नायां नाड्यां मेधाजननायुष्ये करोति' तत उत्पन्नस्य पुत्रस्य अच्छिन्ने नाले मङ्गलोदकेन स्नात्वा अहते वाससी परिधाय वैश्वदेववर्षे वसोर्धारामातृपूजनसहितं नान्दीमुखं हिरण्यश्राद्धं कृत्वा मेधाजननं च आयुष्यं च ते करोतीत्यर्थः । तत्रादौ कुमारदक्षिणे अवणे वागिति त्रि: पठित्वा वेदोऽसीति गुह्यं नाम कृत्वा मेधाजननायुष्ययोराधे मेधाजननं करोति । सूत्रयति च सूत्रकृत-'अनामिकया'' 'दधामीति' सुवर्णान्वितोपकनिष्टया मधुघृते मिश्रिते केवलं धृतं वा भूस्त्वयि धामीत्यादिभिश्चतुभिर्मन्त्रैः प्रतिमन्त्रं कुमारं प्राशयति कुमारस्य जिह्वायां निमाष्टिं । यत्तु इतिशब्देन मन्त्रावसानज्ञप्तेश्चतुर्णामप्येकमन्त्रतेति । तन्न । पृथिव्यारत्वा नाभौ सादयामीत्यदित्या उपस्थ इत्यादावनेकेतिकारैरनेकमन्त्रतापत्तेः । मित्रविन्दासूत्रे चाग्निरन्नाद इत्यादिमन्त्रेष्वितिशब्दाभावान्मन्क्यापत्तेः । नच स्वाहाकार एवात्र मंत्रान्तं वोधयतीति वाच्यम् । अग्निरायुष्मानित्याद्यायुव्यकरणमन्त्राणामैक्यापत्तेश्वेति न किंचिदेतत् । 'अथास्यायुष्यं करोति नाभ्यां दक्षिणे वा कर्णे जपति' आयुषो हितमायुष्यम् । मेधाजननानन्तरमस्य कुमारस्य करोति । कथमित्यत आह 'नाभ्यामिति' सप्तम्यर्थो विषयत्वं नाभिविषयकमालम्भं कृत्वा जपतीत्यन्वयः । ' दक्षिणे वा कर्णे दक्षिणकर्णशष्कुल्यवच्छिन्ननभसि समवेतां मन्त्ररूपशब्दानां क्रमेणाभिव्यक्तिं करोतीत्यर्थः । आयुष्यहेत्वर्थस्मृतिहेतून्सूत्रयति सूत्रकृन्मन्त्रान् । अग्निरायुष्मान्स वनस्पतिभिरायुष्मांस्तेन त्वायुपायुष्मन्तं करोमि, सोम आयुष्मान्सौषधीभिरायुष्मांस्तेन त्वायुपायुप्मन्तं नरोमि, ब्रह्मायुष्मत्तद्राह्मणैरायुप्पत्तेन त्वायुषायुष्मन्तं करोमि, देवा आयुष्मन्तस्तेऽमृतेनायुष्मन्तस्ते त्वायुषायुष्मन्तं करोमि, ऋषय आयुष्मन्तस्ते ब्रतैरायुष्मन्तस्तेन त्वायुषायुष्मन्तं करोमि, पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तरतेन त्वायुपायुष्मन्तं करोमि, यज्ञ आयुष्मान्सदक्षिणाभिरायुष्मांस्तेन वायुपायुष्मन्तं करोमि, समुद्र आयुष्मांन्स सवन्तीभिरायुष्मास्तेन त्वायुपायुधमन्तं करोमीति त्रिः । पूर्वोक्तानष्ठौ मन्त्रान् कुमारस्य दक्षिणे कणे जपेत् वारत्रयम् । 'व्यायुषमिति च । व्यायु जमदग्न इत्यमुमपि मन्त्रं निर्जपति । पूर्वसूत्रस्थत्रिःपदानुकर्पकश्चकारः ॥ ॥ स यदि कामयेत सर्वमायुरियादिति वात्सप्रेणैनममिमृशेत् । स यदि पिता इच्छेत् अयं कुमारः समग्र सुखजीवनं लभतां तदा भालन्दनेन वात्सप्रेण दृष्टानुवाकेन तं कुमारं स्पृशेत् । पूर्वोक्तमनुवाकमेवाह 'दिवस्परीति' एतस्यानुवाकस्योत्तमामृचं परिशिनष्टि । अयं चानुवाको द्वादशः । तस्योत्तमामृचमन्त्यामस्ताव्यग्निरितिनानी परिशिनष्टि व्युदस्यति । तां व्युदस्यैकादशभिरभिशेदित्यर्थः ॥ 'प्रतिढ़िां पञ्च ब्राह्मणानवस्था'य व्यादिममनु प्राणितेति । पूर्वो ब्रूयात्प्राणेति, व्यानेति दक्षिणोऽपानेत्यपर उदानेत्युत्तरः, समानेति पञ्चम उपरिष्टादवेक्षमाणो ब्रूयात्स्वयं वा कुसुदनुपरिक्राममविद्यमानेषु । स यस्मिन्दशे जातो भवति तममिमन्त्रयते वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शत५ शृणुयाम शरदः शतमित्यथैनममिमृशत्यश्मा भव परशुर्भव हिरण्यमस्रुतं भव । आत्मा वै पुत्रनामासि स जीव शरदः शतमित्यथास्य मातरमभिमन्त्रययत इडासि मैत्रावरुणी