________________
१६८ पारस्करगृह्यसूत्रम् ।
[पोडगी कर्तव्यं तथा ब्राह्मणभोजनम् । अष्टमेऽहनि विप्राणां तथा देयाऽत्र दक्षिणा । काञ्चनं रजतं गाश्च भुवं वा धनमेव च । दन्तानामष्टमे मासि पप्ठे मासि ततः पुनः । दन्ता यस्य च जायन्ते माता वा नियते पिता । चालको म्रियते तत्र स्वयमेव न संशयः । दधिनाद्रघृताक्तानामश्वत्यसमियां ततः । जुहुयादष्टशतं तत्र समन्त्रेण तु मन्त्रवित् । धेनुं च दद्याद्गुरवे ततः संपद्यते शुभम् । ज्योतिर्निबन्ध तु अष्टमादिषु दन्तोत्थानं शुभावहमित्युक्तम् । रुद्रयामले-प्रथमं दन्तनिर्मुक्तिरू वालस्य चेद्भवेत् । केशाय मातुलस्येह तदा प्रोक्ता महर्षिभिः । सौवर्ण राजतं वापि तानं कांस्यमयं तु वा । दथ्योदनेन संपूर्त पात्रं दद्याच्छिशोः करे । समन्त्रं भाजनं दत्त्वा स पश्येन्मातुलः शिशुम् । सालंकारं सवस्त्रं च शिशुमालिङ्गय सादरः । तत्र मन्त्रः-रक्ष मां भागिनेय त्वं रक्ष मे सकलं कुलम् । गृहीत्वा भाजनं सान्नं प्रसन्नो भव मे सदा । निर्विघ्नं कुरु कल्याणं निर्विनां च स्वमातरम् । मय्यात्मानमधिष्ठाप्य चिरं जीव मया सहेति । ततोऽभिनन्दयेद्विद्वान् भगिनी भगिनीपतिम् । होम कृत्वा तिलाज्येन ब्राह्मणानपि पूजयेत् । एवं कृते विवाने तु विनः कोऽपि न जायते ॥ ॥ अथ त्रिकशान्तिः । गर्गसंहितायाम्-सुतत्रये सुता चस्यात्ततये वा सुतो यदि । मातापित्रो. कुलस्यापि तदानिष्ट महद्भवेत् । ज्येष्ठनाशो धने हानिर्दुःखं चैपु महद्भवेत् । तत्र शान्ति प्रकुर्वीत वित्तशाठ्यविवर्जितः । जातस्यैकादशाहे वा द्वादशाहे शुभे दिने । आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरःसरम् । ब्रह्मविष्णुमहेशन्द्रप्रतिमाः स्वर्णतः कृताः । पूजयेद्धान्यराशिस्थकलगोपरि शक्तितः । पञ्चमे कलो रुद्रं पूजयेद्रुद्रसंख्यया । रुद्रसूक्तानि चत्वारि शान्तिसूतानि सर्वगः । आचायों जुहुयात्तत्र समिदान्यतिलाश्चरम् । अष्टोत्तरसहस्रं तु पट्शतं त्रिशतं तु वा । देवताभ्यश्चतुर्वकादिभ्यो ग्रहपुरःसरम् । ब्रह्मादिमन्त्ररिन्द्रस्य यत इन्द्र भजामहे । ततः विष्टकृत हुत्वा वलि पूर्णाहुतिं ततः । अभिपेकं कुटुम्बस्य कृत्वाऽऽचार्य प्रपूजयेत् । हिरण्यं धेनुरेका च ऋत्विजां दक्षिणा ततः । आज्यस्य वीक्षणं कृत्वा शान्तिपाठं तु कारयेत् । ब्राह्मणान् भोजयेच्छत्तया दीनानाथांश्च तर्पयेत् । कृत्वैवं विधिना शान्ति सर्वारिष्ट्राद्विमुच्यते । अथ दत्तकपुत्रपरिग्रहविधिः । पारिजाते शौनक:-अपुत्रो मृतपुत्रो वा पुत्रार्थ समुपोप्य च । वाससी कुण्डले दत्त्वा उष्णीपं चाङ्गुलीयकम् ॥ बन्धूनन्नेन संभोज्य ब्राह्मणाँश्च विशेषतः । अन्धाधानादि यत्तन्त्रं कृत्वाऽऽज्योत्पवनान्तकम् ॥ दातुः समक्षं गत्वा तु पुत्रं देहीति याचयेत् । दाने समर्थों दाताऽस्मै ये यज्ञेनेति पञ्चभिः ।। देवस्यत्वेति मन्त्रेण हस्ताभ्यां परिगृह्य च । अङ्गादलेत्यूचं जप्त्वा आघाय शिशुमूर्द्धनि । गृहमध्ये तमाधाय च हुत्वा विधानतः । यस्त्वाहदेत्यूचा चैव तुभ्यमवरचैकया । सोमोदददित्येताभिः प्रत्यूचं पञ्चभिस्तथा । स्विष्टकृदादिहोमं च कृत्वा शेपं समापयेत् ।। ब्राह्मणानां सपिण्डेपु कर्तव्यः पुत्रसद्धहः । तदभावेऽसपिण्डो वा अन्यत्र तु न कारयेत् ॥ मिताक्षरादौ तु व्याहृतिभिराज्येन होम उक्तः । तत्रैव वसिष्ठः-न वेकं पुत्रं दद्यात्प्रतिगृहीयाद्वा न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानातुरिति । यत्तु समन्त्रकहोमस्य पुत्रप्रतिग्रहाङ्गत्वात् व्याहत्यादिमन्त्रपाठे च स्त्रीशूद्रयोरनधिकारात्तयोर्दत्तकः पुत्रो न भवत्येवेति शुद्धिविवेके । तन्नेत्यन्ये । भर्तुरनुज्ञया स्त्रिया अपि प्रतिग्रहोक्तः । यद्यपि मेवातिथिना भार्यात्ववददृष्टरूपं दत्तकत्वं होमसाध्यमुक्तं स्त्रियाश्च होमासंभवस्तथापि व्रतादिवद्विपद्वारा होमादि कारयेदिति हरिनाथादयः । संघन्धतत्त्वेऽप्येवम् । शूद्रस्यापि चैवम् । स्त्रीशूद्राश्च सधर्माण इति स्मृतेः ।। अतएव पराशरेण शूद्रकर्तृको होमो विप्रद्वारैवोक्तः । दत्तके विशेषः कालिकापुराणे-पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते । आचूडान्वं न पुत्रः स पुत्रतां याति चान्यतः ॥ चूडोपायनसंस्कारा निजगोत्रेण वै कृताः । दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते ॥ उर्ध्व तु पञ्चमाद्वर्षान्न दत्ताद्याः सुता नृप । गृहीत्वा पञ्चववर्षीय पुत्रेष्टिं प्रथम चरेदिति।। अथ सूतिकास्नानम् । ज्योतिषे करेन्द्रभाग्यानिलवासवान्त्यमैत्रैन्दवा