________________
कण्डिका ]
प्रथमकाण्डम् ।
१६७
विधीयते । वर्जयेद्दर्शनं श्राद्धं तच्च पाण्मासिकं भवेत् । तिथ्यर्क्षगण्डे पितृमातृनाशी लग्ने तु संधा तनयस्य नाशः । सर्वेषु नो जीवति हन्ति वन्धून जीवन्पुनः स्याद्बहुवारणश्च । अथैषां दानम् - तिथि गण्डे वनडाहं नक्षत्रे धेनुरुच्यते । काञ्चनं लग्नगण्डे तु गण्डदोपो विनश्यति । उत्तरे तिलपात्रं स्यात्पुष्ये गोदानमुच्यते । अजाप्रदानं त्वाष्ट्रे स्यात्पूर्वाषाढे च काञ्चनम् । उत्तरातिष्यचित्रासु पूर्वापाढोद्भवस्य च । कुर्याच्छान्ति प्रयत्नेन नक्षत्राकरजां बुधः । अथ आश्लेशाफलम् । मूर्द्धास्यनेत्रगलकांयुगं च बाहुहृज्जानुगुह्यपदमित्यहिदेहभागः । वाणा ५ द्रि ७ नेत्र २ हुतभुक् ३ श्रुति ४ नाग ८ रुद्र ११ पणू ६ नन्द ९ पञ्च ५ शिरसः क्रमशस्तु नाड्यः । राज्यं च पितृनाशः स्यात्तथा कामक्रिया रतिः । पितृभक्तो वली स्वन्नस्त्यागी भोगी धनी क्रमात् । ज्येष्ठाफलमुक्तं ब्रह्मयामले ज्येष्ठादौ जननीभाता द्वितीये जननीपिता । तृतीये जननीभ्राता स्वयंमाता चतुर्थके । आत्मानं पञ्चमे हन्ति षष्ठे गोत्रक्षयो भवेत् । सप्तमे चोभयकुलं ज्येष्ठभ्रातरमष्टमे । नवमे श्वशुरं हन्ति सर्व हन्ति दशां - शक इति ॥ ॥ अथ मूलशान्तिः । तत्र याज्ञिकाः पठन्ति - अथातो मूलविधिं व्याख्यास्यामो मूलांशे प्रथमे पितुर्नेष्ट द्वितीये मातुस्तृतीये धनधान्ययोश्चतुर्थे कुलशोकावहः स्वयं पुण्यभागी स्यान्मूलनक्षत्रे मूलविधानं कुर्यात्सर्वौषष्या सर्वगन्धैश्च संयुक्तं तत्रोदकुम्भं कृत्वा वस्त्रगन्धपुष्परत्नसहितं श्वेतसिद्धार्थकुसुमयुक्तं कुर्यात् तस्मिन् रुद्रान् जपित्वाऽप्रतिरथं रक्षोघ्नं च सूक्तं द्वितीयोदकुम्भं कृत्वा चतुःप्रस्रवणसंयुक्तं तस्मिन्नुपरिष्टान्मूलानि धारयेद्वेशपात्रे कृत्वा वस्त्रे वद्धा तस्मिन्प्रधानानि मूलानि वक्ष्यामि हिरण्यमूलं सप्तधान्यानि प्रथमा कार्या सहदेव्यपराजिता वालापाठाऽधोपुष्पी शङ्खपुष्पी मधुयष्टिका चक्राङ्किता मयूरशिखा काकजङ्घा कुमारीद्वयं जीवन्त्यपामार्गा भृङ्गराजकलक्ष्मणा जाती व्याघ्रपत्रश्चक्रमर्दकः सिद्धेश्वरोश्वत्थौदुम्बरपलाशलक्षवटार्क दूर्वा रौहितकशमीशतावरीत्येवमादिमूलशतं पूरयित्वा तस्मिन्निषिद्धानि मूलानि वक्ष्यामि वैल्वधवनिम्बकदम्वराजवृक्षोक्षशालाप्रयालुदधिकपित्थकोविदारश्लेष्मातकविभीतकशाल्मलीररलुसर्वकण्टकिवर्ज तत्राभिषेकं कुर्यात्पितुः शिशोजनन्या देवस्यत्वेत्यैौदुम्बर्यासन्दीमुद्गप्रामास्तृणाति तत्रासीनान् संपातेनैकेनाभिपिध्वति शिरसोऽभ्यनुलोम-शिरो मे श्रीर्यश इति यथालिङ्गमङ्गानि संमृशति स्नानादूर्ध्वं नैर्ऋतं पायस श्रपयित्वा काश्मर्यमयर्थं स्रुकुस्रुर्व प्रतप्य संसृज्यान्वारस्य आघारावाज्यभागौ हुत्वाऽसुन्वन्तमिति चतस्रः स्थालीपाकेन जुहुयात्पश्ञ्चदशाज्याहुतीर्जुहोति कृणुष्वपाज इति पञ्च मानस्तोक इति द्वे यातेरुद्र शिवातनूरितिपडग्निरक्षार्थं सिसेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्य इति त्वन्नः सोमविश्वतोरक्षाराजंनद्यायतोनरिष्येत्वावतः सखेति स्विष्टकृदादि । प्राशनान्ते कृष्णा गौः कृष्णाञ्च तिलाः हिरण्मयमूलध्-सप्तधान्यसंयुक्तमाचार्याय दद्यात्कृष्णोऽनङ्घान्त्रह्मणे दद्यान्नक्षत्रसूचकेभ्यो वा दद्यादन्येभ्यो ब्राह्मणेभ्यः सुवर्ण दद्यात्कृसरपायसेन ब्राह्मणान्भोजयेत्सापदैवते गण्डजात एप एव विधिः कात्यायनेनोक्तः । स्मृत्यन्तरोक्ता शान्तिस्तु रजस्वलाशान्तावुक्ता । मात्स्ये विशेषः -- अकालप्रसवा नार्यः कालातीतप्रजास्तथा । विकृतप्रसवाञ्चैव युग्मप्रसवकास्तथा । अमानुषा अमुण्डाय अजातव्यञ्जनास्तथा । हीनाङ्गा अधिकाङ्गाय जायन्ते यदि वा स्त्रियः । पशवः पक्षिणश्चैव तथैव च सरीसृपाः । विनाशं तस्य देशस्य कुलस्य च विनिर्दिशेत् । निर्वासयेत्तां नगराततः शान्तिं समाचरेत् । पाद्मेउपरि प्रथमं यस्य जायन्ते च शिशोर्द्विजाः । दन्तैर्वा सह यस्य स्याज्जन्म भार्गवसत्तम । द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा । यदा दन्ताश्च जायन्ते मासे चैव महद्भयम् । मातरं पितरं चास्य खादेदात्मानमेव च । अथोर्ध्वदन्तजननशान्तिः । गजपृष्ठगतं वालं नौस्थं वा स्थापयेत् द्विज । तद्भावे तु धर्मज्ञ काञ्चने तु वरासने । सर्वोपवैः सर्वगन्धैर्वजैः पुष्पैः फलैस्तया । पञ्चगव्येन रनैश्च मृत्तिकाभिश्च भार्गव । स्नापयेदित्यन्वयः । स्थालीपाकेन धातारं पूजयेत्तदनन्तरम् । सप्ताहं चात्र
1