________________
पारस्करगृह्यसूत्रम्।
[पोडशी द्रवीमि ते ॥ ॥ अथ जन्मनि दुष्टकालाः । तत्र मूलफलम् । लल्ला-अभुक्तमूलसंभवं परित्यजेत्तु वालकम् । समाष्टकं पिताऽथ वा न तन्मुखं विलोकयेत् । तदाद्यपादके पिता विपद्यते जनन्यथ । तृयीयके धनक्षयश्चतुर्थके शुभावहम् । प्रतीपमन्त्यपादतः फलं तदेव सार्पभे । अभुक्तमूलं त्वाह बृहद्वसिष्ठः । ज्येष्ठाऽन्ते घटिका चैका मूलादौ घटिकाद्वयम् । अमुक्तमूलमित्याहुर्जातं तत्र विवर्जयेत्। केचिज्ज्येष्ठान्त्यं मूलाधं च पादमभुक्तमूलमित्याहुः। कश्यपेन वन्यथोक्तम्-मूलाद्यपादजो हन्ति पितरं तु द्वितीयजः । मातरं खां तृतीयोऽर्थान्सुह्रदं तु तुरीयजः । फलं तदेव सार्पः प्रतीपं त्वन्त्यपादतः । अथ मूलवृक्षफलं जयार्णवे-मूलं स्तम्भस्त्वचा शाखा पत्रं पुष्पं फलं शिखा । वेदा ४ श्व मुनयश्चैव ७ दिश १० श्च वसव ८ स्तथा । नन्दा ९ वाण ५ रसा ६ रुद्रा ११ मूलभेदाः प्रकीर्तिताः । मूलं मूलविनाशय स्तम्मे हानिर्धनक्षयः । त्वचि भ्रातृविनाशाय शाखा मातुर्विनाशकृत् । पत्रे सपरिवारः स्यात्पुष्पेषु नृपवल्लभः । फलेषु लभते राज्यं शिखायामल्पजीवितम् । अन्यत्र त्वन्यथोतम्-मूले सप्तघटीपु मूलहवनं स्तम्भेऽष्टसु स्वक्षयं त्वग्दिग्वन्धुविनाशनं च विटपे रुदैर्हतो मातुलः । पत्रेऽकैः सुकृती तु वाणकुसुमे मन्त्री फले सागर राजा वह्निशिखाल्पमायुरिति संमूलाछिपे स्यात्फलम् । भूपालवल्लभ:-वृपालिसिंहेपु घटे च मूलं दिवि स्थितं युग्मतुलाइनान्त्ये । पातालगं मेपधनुःकुलीरनकेषु मत्येष्विति संस्मरन्ति । स्वर्ग मूलं भवेद्राज्यं पाताले च धनागमम् । मृत्युलोके यदा भूतं तदा शून्यं समादिशेत् । प्रयोगपारिजाते-मूलजा श्वशुरं हन्ति व्यालजा च तदङ्गनाम् । माहेन्द्रजाऽग्रज हन्ति देवरं तु द्विदैवजा । नृसिंहप्रसादे-धवाग्रजां हन्ति सुरेन्द्रजाता तथैव पल्या भगिनीं पुमांश्च । द्विदैवजा देवरमाशु हन्यादानुजामाशु हि हन्ति सूनुः । पत्न्यग्रजामग्रज वा हन्ति ज्येष्ठङ्क्षजः पुमान् । तथा भार्या स्वसारं वा शालकं वा द्विदैवजः । कन्यका देवरं हन्ति विशाखाऽन्त्यसमुद्भवा । आद्यपादत्रयेनैव आद्यमे तु पुमान् भवेत् । न हन्याद्देवरं कन्या तुलामिअद्विदैवजा । तदृक्षान्त्योद्भवा वा दुष्ठा वृश्चिकपुच्छवत् । चित्राद्याधैं पुष्यमध्ये द्विपादे पूर्वाषाढाधिष्ण्यपादे तृतीये । जातः पुत्रश्चोत्तराऽऽये विधत्ते मातापित्रोतरं वालनाशम् । द्विमासं चोत्तरादोषः पुष्ये चैव त्रिमासिकः । पूर्वाषाढाष्टमे मासि चित्रा पाण्मासिकं फलम् । नवमासं तथाऽश्लेषा मूले चाष्टकवर्षकम् । ज्येष्ठा पञ्चदशे मासि पुत्रदर्शनवर्जिता । वशिष्ठः-ज्यतीपातेऽङ्गहानिः स्यात्परिधै मृत्युमादिशेत् । वैधृतौ पितहानिः स्यानष्टेन्दावन्धतां ब्रजेत् । मूले समूलनाशः स्यात्कुलनाशो यतो भवेत् । विकृताले च हीने च सध्ययोरुभयोरपि । पर्वण्यपि प्रसूतौ च सर्वारिष्टभयप्रदा । तद्वत्सदन्तजातश्च पादजातस्तथैव च । तस्माच्छान्तिं प्रकुर्वीत ग्रहाणां करचेतसाम् । गर्ग:-कृष्णां चतुर्दशी पोढा कुर्यादादौ शुभं स्मृतम् । द्वितीये पितरं हन्ति तृतीये हन्ति मातरम् । चतुर्थे मातुलं हन्ति पञ्चमे वंशनाशनम् । षष्ठे तु धननाशः स्यादात्मनो वंशनाशनम् । देवकीर्तिःयद्येकस्मिन धिष्ण्ये जायन्ते दुहितरोऽथ वा पुत्राः । पितुरन्तकरा ह्येते यद्यपरे प्रीतिरतुला स्यात् । गर्ग:-एकस्मिन्नेव नक्षत्रे भ्रानोर्वा पितृपुत्रयोः । प्रसूतिश्च तयोर्मृत्युभवेदेकरय निश्चितम् । शौनकःग्रणे चन्द्रसूर्यस्य प्रसूतिर्यदि जायते । व्याधिपीडा तदा स्त्रीणामादौ तु ऋतुदर्शनात् । इत्थं संजायते यस्य तस्य मृत्युर्न संशयः । अथ गण्डान्तः ज्योतिर्निबन्धे-पूर्णानन्दाख्ययोस्तिथ्योः सन्धिःडीद्वयं तथा । गण्डान्तं मृत्युदं जन्म यात्रोद्वाहवतादिपु । कुलीरसिंहयोः कीटचापयोर्मीनमेषयोः। गण्डान्तमन्तरं कालं घटिकाधै मृतिप्रदम् । कुलीरः कर्कटः । कीटो वृश्चिकः । चापं धनुः । सार्पेन्द्रपौष्णमेष्वन्त्यषोडशांशेन सन्धयः । तदअभेष्वाद्यपादा भानां गण्डान्तसंज्ञकाः । सार्पमाश्लेषा। ऐन्द्र ज्येष्ठा । पोष्णं रेवती । पौष्णाश्विन्योः सार्पपित्रःयोश्च यच्च ज्येष्ठामूलयोरन्तरालम् । तद्गुण्डान्तं स्याचतुर्नाडिकं हि यात्राजन्मोद्वाहकालेष्वनिष्ठम् । रत्नसङ्घहे--सर्वेषां गण्डजातानां परित्यागो