________________
१६३
कण्डिका ]
प्रथमकाण्डम् ।
....जाय
प्रयच्छति कुमारायेत्यर्थः । अत्र द्विवचनोपदेशादिमर्थं स्तनमित्येव द्वितीया । 'उदपात्र थेति' तत उदपात्रं सजलं शरावं शिरस्तः सूतिकायाः शिरः प्रदेशे खड्डाधस्तान्निदधाति आपोदेवेविति मन्त्रेण । तच्चोत्थानपर्यन्तं तत्रैव तिष्ठति । मन्त्रार्थः । हे आपः जीवनहेतवः यूयं देवेषु देवकार्यनिमित्तं जाय तत्साधनत्वेन तिष्ठथ । अतो यथा देवेषु जाग्रथ एवं तथाऽस्यां सूतिकायां सूतिकाया हिते जाग्रथ जाग्रतेत्यर्थः । पुरुषव्यत्ययच्छान्दसः । किम्भूतायां पुत्रादिसहितायाम् । ' द्वारदेशे ......दितःस्वाहेति ' सूतिकागृहस्य द्वारदेशे पश्च भूसंस्कारान् कृत्वा तत्र सूतिकाऽग्निमुपसमाधाय स्थापयित्वोत्थानात् माउत्थानात् उत्थानं यावत् संधिवेलयोः सायंप्रातः फलीकरणैः तण्डुलकणैर्मिश्रान् युक्तान् सर्षपान् तस्मिन्नन्नौ आवपति प्रक्षिपति शण्डामर्का इति द्वाभ्यां मन्त्राभ्याम् | सूतिकाग्नेर्ग्रहणम् आवसथ्यानिनिवृत्त्यर्थमिति भर्तृयज्ञः । अत्र आवपनोपदेशाद्धोमेतिकर्तव्यता न भवति । अत्राग्नेर्देवतात्वं जयरामाचार्या वदन्ति । तथा कारिकायाम् अनयोर्देवतान्निः स्यान्मन्त्रोक्ताः कैश्चिदीरिता इति । एतच्च स्वकाले एव भवति नियतकालत्वात् । मन्त्रार्थः । शण्डाः शण्ड: मर्काः मर्कः तत्र शृणोतीति शण्डो बालग्रहः स्वस्थानात् नश्यतात् अपगच्छतु अयं च वाक्यार्थ उत्तरत्रापि योज्यः । मारयतीति मर्कः । उपघाते वीरः समर्थ उपवीरः विन्नकुशलः शौण्डिकेयः । आश्रितपातक उलूखलः । अप्रतिकार्यो मलिम्लुच: अतिमलिनाशय इत्यर्थः । दीर्घनासो द्रोणासः च्यावयत्यङ्गानीति च्यवनः । एते सर्वे मत्कृतावपनोपद्रुताः भीताश्चापसर्पन्त्वित्यर्थः । एवमा समन्ततो भावेन लिखन् भक्षयन् आस्ते स आलिखन् । पराभवितुमन्यवच्छिन्नदृष्टिरनिमिषः । उप समीपे श्रुत्वा अपकर्ता उपश्रुतिः । हर्यक्षः पिङ्गलनयनः । कुम्भयति स्तम्भयतीत्येवंशीलः कुम्भी । शातयतीति शत्रुः । पात्रहस्तः पात्रपाणिः नृन्मिनोति हिनस्तीति नृमणिः । हन्त्री हिंसा हननं मुखे यस्यासौ हन्त्रीमुखः । सर्षपवद्रुण उम्रो धूसरो वा सर्षपारुणः । च्यवत्यनेनेति च्यवनः । येनोपद्रुतचवति प्रकृतेः परिभ्रश्यतीत्यर्थः । इतः स्थानान्नश्यतादिति सर्वपदानामेवमेवान्वयः । गणमभिप्रेत्याहकिंवदन्त इति । एते सर्वे किंवदन्तः किंत्रद्द्गुणोऽयमित्यर्थः । 'यदि कुमार " "मृशामसीति' कुमारशब्देन बालमहोऽभिधीयते । स यदि एनं वालमुपद्रवेद्विघ्नयेत् तदा एनं वालकं पिता जालेन प्रच्छाधाच्छादयित्वा स्त्रोत्तरयेण वा प्रच्छाद्या उत्सङ्गे निधाय कुर्कुर इति मन्त्रत्रयं जपति । जपान्ते एनं पिताऽभिमृशति ननामयतीतिमन्त्रेण । मन्त्रार्थः कूर्कुरो भषणाख्यो वालग्रहः । तथा सुकुर्कुरश्वातिभषणः । बालान्बघ्नातीति वालबन्धनः । कूर्कुराख्यो बालग्रहः । सीसरोऽङ्गसारकः । हे शुनक तद्गणमुख्य लपेत लापनरोधकेति यावत् । अपह्वर गात्रापहारक । हृ कौटिल्ये । ते तुभ्यं नमोऽस्तु । ततस्तुष्टश्चैनं कुमारं सृज मुञ्च । किंकुर्वन् चेचेच्छुछुः शब्दं कुर्वन् ॥ १ ॥ हे शुनक तत्सत्यं यत्ते तुभ्यं देवदूताय देवा वरमददुः दत्तवन्तः । स च त्वं हिसाविहारः कुमारमेव वा वृणीथा: वृतवानसीति | शेषमुक्तार्थम् ॥ २ ॥ हे शुनक तत्सत्यं यत्ते तव सरमा देवशुनी माता सीसरो देवश्वा पिता । श्यामशवलौ च तव भ्रातराविति । शेषमुक्तार्थम् ॥ ३ ॥ न नामयतीत्यस्यार्थः । यत्रास्मिन्कुमारे वयं वदामो ब्रूमः साकाङ्क्षत्वान्मन्त्रम् । यत्र च अभिमृशामसि अभितः स्पर्शनं कुर्मः स कुमारो न नामयत्वङ्गानि शेषं स्पष्टम् । इति षोडशी कण्डिका ॥ १६ ॥
I
अथ पदार्थक्रमः । सोष्यन्तीमद्भिरभ्युक्षत्येजतु दशमास्य इति । ततोऽवरावपतनमन्त्रजप: अबैतु पृश्निरिति । ततो जातमात्रे पुत्रे पिता तस्य मुखं निरीक्ष्य नद्यादावुदङ्मुखः स्नात्वा असंभवे दिवाहताभिः शीताभिरद्भिः सुवर्णयुता भिर्गृह एव स्नात्वाऽऽचम्य सितचन्दनमाल्यादिभिरलंकृतो नालच्छेदात्पूर्वं सूतिकादिव्यतिरिक्तैरस्पृष्टमकृतस्तनपानं प्रक्षालितमलं कुमारं मातुरुत्सङ्गे प्राङ्मुखमवस्थाप्य ब्राह्मणैः सह पुण्याहवाचनं कृत्वा देशकालौ स्मृत्वा ममास्य कुमारस्य गर्भाम्बुपानजनितसकलदोषनि