________________
१६२ पारस्करगृह्यसूत्रम् ।
[षोडशी वात्सप्रमुच्यते । यत एकादशसु नक्षु वात्सप्रशब्दः प्रसिद्धः । अथ वात्सप्रेणोपतिष्ठत इति प्रकृत्य भवति वाक्यशेषोऽथ यत्रिष्टुप् यदेकादश तेनेति वा । वात्सप्रद्वयसद्भावेऽपि अग्निप्रकरणस्थवात्सप्रग्रहणं वाक्यशेषात् । तस्माद्यं जातं कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमशेदिति । 'प्रतिदिशति ब्रूयात् । ततः संस्कारकर्ता कुमारस्य प्रतिदिशं प्राच्यादिपु चतसृप दिक्षु मध्ये च एवं पञ्च ब्राह्मणानवस्थाप्य स्थापयित्वा तान्प्रति इममनुप्राणितेति प्रेषं ब्रूयात् । ततस्ते प्रेषिताः पूर्वादिक्रमण कुमारं लक्षीकृत्य प्राणेति पूर्वो ब्रूयात् । व्यानेति दक्षिणः । अपानेति पश्चिमः । उदानेत्युत्तरः । समानेति पञ्चम उपरिष्टाद्वालकमवेक्षमाणो ब्रूयात् । तस्मात्पुत्रं जातमकृत्तनाभिं पञ्च ब्राह्मणान्
यादित्येनमनुप्राणितेति श्रुतत्वात् । मन्त्रार्थः-इमं कुमारमनुलक्षीकृत्य भो ब्राह्मणाः प्राणित यूयं सर्वे प्राणादिपञ्चवायुयुक्तं कृत्वा दीर्घायुष्टेनायुष्मन्तं कुरुत । कोष्टस्थितो वायुमुखनासिकाभ्यां निःसरन् प्राणः पुनस्तेनैव मार्गेणान्तः प्रविशन्नपानः । प्राणों रेचकः । अपानः पूरकः । तयोर्वा अधः संधिः संधानं व्यानः कुम्भकरूपः । उत्क्रमणादिरूप्रगतिरुदानः । देहस्थितस्याशितपीतस्यान्नरसस्य सर्वाङ्गेषु समनयनात्समानः । 'स्वयं वा..."मानेषु' अविद्यमानेषु ब्राह्मणेषु स्वयमेव पिताअनुप्राणनं कुर्यादनुपरिकामं पूर्वादिकां दिशं परिक्रम्य परिक्रम्य । या तान्न विन्देदपि स्वयमेवानुपरिक्राममनुप्राण्यादिति श्रुतत्वात्। अस्मिन्पक्षे इममनुप्राणितेति प्रेषनिवृत्तिः । स्वात्मनि स्वकर्तृकप्रेरणासंभवात् । स यस्मिन् ".."शतमिति स बोलो, यस्मिन्प्रदेशे भूभागे जातो भवति उत्पन्नो भवति तं देशमभिमन्त्रयते वेदतेभूमिहृदयमिति मन्त्रेण हस्तेन स्पृशति । मन्त्रार्थः-हे भूमे कुमारजन्मप्रदेश ते तव हृदयमन्तःकरणं भूमिर्वेद यत्र विद्यते गुप्तम् । विसर्गाभावश्छान्दसः । किंभूतं दिवि धुलोके वर्तमाने चन्द्रमसि श्रितं कृष्णीभावेन देवयज्ञरूपस्थानमसुरजयाथै गोपितं तत्प्रदेशोपलक्षितं, तदेतचन्द्रमसि कृष्णमिति श्रुतेः । तत्कर्मभूतमहं वेद जानामि । तत्कर्तृभूतम् एवं पुनरुपकर्तु मां विद्याज्जानातु । अतस्त्वदत्तपुत्रेण सह वयं पश्येमेत्यायुक्तार्थम् । ' अथैन"""""शतमिति । अथैनं कुमारं पिता अभिमृशति हस्तेन स्पृशत्यश्मा भवेति मन्त्रेण । हृदि स्पृशतीति जयरामः । मस्तके इति कारिकायाम् । सर्वशरीरे इति हरिहरः । श्रुतिः । ' अथैन".."भवेति' । वात्सप्राद्येतदभिमर्शनान्तं कालातिक्रमेऽपि कर्म भवति संस्कारत्वात् । मन्त्रार्थः । हे कुमार वं अश्मा पाषाण इव दृढः स्थिरश्च । परशुरिव वन इवापकर्तृनाशको भव । किश्च । अस्रुतमनभिभूतमप्रच्युतस्वरूपमिति यावत् । हिरण्यं हिरण्यवत्तेजोयुक्तश्च ग्रहणीयश्च भव । यथा धात्वन्तरामिश्रित सुवर्ण शुद्धं भवति तथा त्वमपि रोगाशुपद्रवेण हीनो भवेत्यर्थः । यतस्त्वं पुत्रनामा आत्माऽसि देहः सन् वै निश्चये पुत्रेतिसंज्ञामात्रेण भिन्नोऽसि न तु स्वरूपेण स त्वं शतं शरदो जीव । । अथास्य मात'ऽकरदिति' अथास्य कुमारस्य मातरं जननीमभिमुखो भूत्वा मन्त्रयते । मन्त्रश्रावणेन संस्करोति इडासीति मन्त्रेण । अथास्य मातरमभिमन्त्रयते इडाऽसि मैत्रावरुणीतिश्रुतेः । मन्त्रार्थः । हे वीरे वीरवति पुत्रवतीति यावत् । त्वम् इडा मानवी यज्ञपात्री तद्गतद्रव्यं वाऽसि । मैत्रावरुणी मित्रावरुणयोरंशोत्पन्ना । यथेडायां पुरूरवा उत्पन्नः यथा च यज्ञपाच्यां तद्गतद्रव्ये वा पुरोडाशो भवति तथा त्वय्यपि तादृशाः स्वर्गादिसाधनपराः पुत्राः सन्त्विस्यभिप्रायः । यतस्त्वं वीरं पुत्रमजीजनथाः असौपीः । अतः सा त्रं वीरवती पतिपुत्रवती भव । या त्वमस्मान्वीरवतः पुत्रवतः पुत्रयुक्तान् अकरत् अकरोः कृतवत्यसि । 'अथास्यै....स्तनमिति' अथास्यै अस्या मातुर्दक्षिणं स्तनं प्रक्षाल्य उदकेन क्षालयित्वा पिता कुमाराय पानाय प्रयच्छति ददाति इम स्तनमिति मन्त्रेण । अथैनं मात्रे प्रदाय स्तनं प्रयच्छतीति श्रवणात् । स्तनसमर्पणं चापीतस्तनस्य भवति । 'यस्ते स्तन इत्युत्तरमेताभ्याम् । ततः पिता उत्तरं वामं स्तनं इमस्तनं यस्तेस्तनइत्येताभ्यामृग्भ्या