________________
कण्डिका
प्रथमकाण्डम् । जाते न नाडी छिद्यते नृप । चन्द्रसूर्योपरागेण तमाहुः समयं समम् ॥ विष्णुधर्मोत्तरे-अच्छिन्ननाड्यां यदत्तं पुत्रे जाते द्विजोत्तमाः। संस्कारेषु च पुत्रस्य तदक्षय्यं प्रकीर्तितम् । प्रतिग्रहश्च नाभिवर्धनात्पूर्व तद्हर्वेति मदनपारिजाते । तथाच शङ्खः-कुमारप्रसवे नाड्यामच्छिन्नायां गुडतिलहिरण्यवस्नगोधान्यप्रतिग्रहेष्वदोषस्तदहस्त्वेके कुर्वत इति । एतच्च जननाशौचे मरणाशौचे च कार्यमित्याह प्रजापतिः । आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुध्यतीति ।। मदनपारिजातेऽप्येवम् । केचित्त-मृताशौचस्य मध्ये तु पुत्रजन्म यदा भवेत् । आशौचापगमे कार्य जातकर्म यथाविधीति स्मृतिसंग्रहोत्राशौचान्ते कार्यमित्याहुः । स्मृत्यर्थसारेऽपि विकल्प उक्तः । कारिकायाम्-जाते पुत्रे सचैलं स्यात्स्नानं नैमित्तिकं पितुः । तच्च शीतेन रात्रावप्येवं जावालिरब्रवीत् ।। दिवाहृतेन तोयेन स्वर्णयुक्तेन सापयेत् । इति सांख्यायनः प्राह रानावनलसन्निधौ ॥ अच्छिन्ननाड्यां कर्तव्यं श्राद्धं स्नानादनन्तरम् । आमद्रव्येण तत्कार्य वचनात्तु प्रजापतेः ॥ हिरण्येन भवेच्छाद्धमामद्रव्यं गृहे न चेत् । इति व्यासवचःप्रोक्तं पक्कानं स निषेधति ॥ अत्रामं द्विगुणं भोज्यं हिरण्यं तु स्तुर्गुणमिति । व्यास:-पुत्रजन्मनि यात्रायां शर्वयों दत्तमक्षयमिति । मेधाजननमाह ' अनामिकया... "दधामीति' सुवर्णेनान्तर्हितया सुवर्णेनाच्छादितयाऽनाभिकयाऽङ्गुल्या मधु च घृतं च मधुघृते एकीकृते कुमारं प्राशयति घृतं वा केवलम् , अत्र भूस्त्वयि धामीत्यादि सर्वं त्वयि दधामीत्यन्तेन मन्त्रेण । प्रतिवाक्यं प्राशयतीति केचित् । माध्यंदिनश्रुतौ विशेपः-जातेऽग्निमुपसमाधायाङ्क आवाय कसे पृषदाज्यमानीय पृषदाज्यस्योपघातं जुहोतीत्युपक्रम्य अथास्यायुष्यं करोति दक्षिणं कर्णमभिनिधाय वाग्बागिति त्रिरथास्य नामधेयं करोति । वेदोऽसीति तदस्यैतद्गुह्यमेव नाम स्यादथ दृधिमधुघृत: सह-सृज्यानन्तर्हितन जातरूपेण प्राशयतीत्युक्तः । जातरूपेण हिरण्येन प्राशयत्येमन्त्रैः प्रत्येकमिति वासुदेवप्रकाशिकायाम् । यदि च मेधाजननं स्वकाले दैवान्मानुषापराधाद्वा न जातं तदा कालान्तरे न भवति निय तकालत्वात् । तथा च श्रूयते-तस्मात्कुमारं जातं घृतं वै वा प्रतिलेहयन्ति स्वनं वाऽनुधापयन्तीति । अयमर्थः श्रुतेः-तस्मात्कुमारं वालं जातं घृतं चैव त्रैवर्णिका जातकर्मणि जातरूपसहितं प्रतिलेहयन्ति प्राशयन्ति स्तनं वा अनुधापन्ति पश्चात्पाययन्तीति । अपीतस्तनस्यैतदिति गम्यते । आयुष्यकरणमाह 'अथास्यायुष्य ... 'करोमीति त्रि. अथ मेधाजननोत्तरम् अस्य शिशोरायुष्यनामकं कर्म आयुपे हितम् आयुष्यं कर्म करोति । नाभ्यामिति अधिकरणसप्तम्यभावात्समीपसप्तमीयं यथा गङ्गायां घोषः तेन पिता वालकनाभः कर्णस्य वा समीपे स्थित्वा अग्निरायुष्मानित्यष्टौ मन्त्रान् त्रिर्जपति । मन्त्रार्थः । अग्निः कारणात्मना आयुष्मानस्ति । स च वनस्पतीभिरिध्मसमिद्भिरिष्ट आयुप्मत्वहेतुर्भवति-वनस्पतिभिः कृत्वा वा । तेन अग्न्यायुषा त्वा त्वाम् आयुष्मन्तं निर्दुष्प्रदीर्घायुषं करोमीति वाक्यार्थ उत्तरत्रापि संवध्यते । एवं सोमोऽपि व्याख्येयः । स च ओषधीभिः संधिरापः २। ब्रह्म वेदः ब्राह्मणैरव्येतृभिः ३ । देवा अमृतेन सुधया ४ । ऋषयो व्रतैः कृच्छ्रादिभिः ५। पितरः स्वधाभिः पितृदेयं स्वधोच्यते ६। यज्ञो दक्षिणाभिः परिक्रयद्रव्यैः ७ । समुद्रः सवन्तीभिर्नदीभिरित्येतावान्विशेषः ८ । 'त्र्यायुषमिति च ' व्यायुवं जमदग्नेरिति मन्त्रं चकारात् निर्जपेत् नाभ्यां दक्षिणे वा करें। यदि दैवान्मानुपाद्वाऽपचारान्मेधाजननं स्त्रकाले न कृतं तथाप्यायुष्यकरणं कालान्तरे भवत्येव । ' स यदि..... 'मभिमृशेत् । संस्कारकर्ता यदि कामयेत अयं सर्व संपूर्ण शतवर्षमायुर्जीवितमियात्याप्नुयात्तदा वात्सप्रेणैनं कुमारमभिमृशेत् । वात्सप्रभेदात्संशयः किं दिवस्परीत्येतेन वात्सप्रेण किमुपप्रयन्तो अध्वरमित्येतेनेति संशयनिवृत्यर्थमाह ' दिवस्प..."शिनष्टि : दिवपरि प्रथमं जज्ञे इत्येतस्यानुवाकस्योत्तमामृचम् अस्ताव्यग्निरित्येतां परिशेषयित्वा वर्जयित्वाऽवशिष्टं