________________
१६०
पारस्करगृह्यसूत्रम् ।
[पोडशी काया सपुत्रिकायां जाग्रयेत्यनेन तदुदपानं प्रागुत्थानात्स्थापितमेव तिष्ठति । ततः सूतिकागृहस्य द्वारदेशे पञ्च भूसंस्कारान्कृत्वा सूतिकाग्निं स्थापयित्वा सायंप्रातः संध्याद्वये फलीकरणमियान् तण्डुलकणयुतान् सर्पपांस्तस्मिन्ननौ हस्तेन जुहोति यावत्सूतिकोत्थानम् । कथं शण्डामर्का उपवीर. शौण्डिकेय उलूखलः मलिम्लुचो द्रोणासउच्यवनो नग्यतादितः स्वाहा इत्यनेन मन्त्रेणेकामाहुतिम् । आलिखन्ननिमिप: किंवदन्त उपश्रुतिहर्यक्षः कुम्भी शत्रुः पात्रपाणिनुमणिर्हन्त्रीमुखः सर्पपारुणश्च्यवनो नश्यतादितः स्वाहा इत्यनेन द्वितीयाम् । इदमग्नये इत्युभयत्र त्यागः । यदि कुमारग्रहो वालमुपद्रवेतदा तं वालं जालेन उत्तरीयेण वा वस्त्रेण प्रच्छाद्य अङ्के गृहीत्वा पिता जपति । कुकुरः सुकूधैरः कूकूरो वालबन्धनः चेवेच्छनक सृज नमस्ते अस्तु सीसरो लपेतापहर तत्सत्यम् । यत्ते देवा वरमगुः स त्वं कुमारमेव वा वृणीयाः । चेवेच्छनक सृज नमस्ते अस्तु सीसरो लपेतापह्वर तत्सत्यम् । यत्ते सरमा माता सीसरः पिता श्यामशवलौ भ्रातरौ चेञ्चेच्छुनकसूज नमस्ते अस्तु सीसरो लपेतापव्हरेत्यन्तं मन्त्रं, न नामयति न रुदति न हृष्यति न ग्लायति यत्र वयं वदामो यत्र चाभिमृशामसीत्यनेन मन्त्रेण पिता कुमारमभिमृशति ॥ ॥ * ॥
(गदाधरः)-'सोप्यन्ती'... 'स्यैत इति । पूड् प्राणिगर्भविमोचने । गर्भ विमुञ्चन्तीं विननयन्तीं प्रसवकाले शूलादिप्रसववेदनान्वितां. स्त्रियं भर्ता एजतु दशमास्य इति मन्त्रेणास्रज्जरायुणा सहे. त्यन्तेनानिरभ्युक्षति उदकेन प्रसिञ्चति । जरायुणा सहेत्यत्र परिसमाप्तत्वाद्वाक्यस्य प्राग्यस्यैत इत्युच्यते । नात्र परादिना पूर्वान्तन्यायः प्रकरणान्तर पाठात् । अत्र श्रुतौ विशेषः । सोप्यन्तीमद्भिरभ्युक्षति यथा वातपुष्करिणी/समीङ्गमयति सर्वत इत्यादि । अथावरा"..."पद्यतामिति । अथाभ्युक्षणानन्तरमवरावपतनसंज्ञकं मन्त्रं जपतीत्यध्याहारः । अवरो जरायुविशेषः तस्य अव अधःपतनम् पतनहेतुम् अवेविति मन्त्रं जपति पिता । मन्त्रार्थ:-हे सोप्यन्ति तव जरायु अव अधः एतु आयातु पतत्वित्यर्थः । किंभूतं पृभि नानारूपं शेवलं पिच्छलं जलोपचितं वा किमर्थं शुने श्वानसुपकतुम् । यद्वा शुने इति षष्टयर्थे चतुर्थी । शुनः अत्तवे भक्षणाय । हे पीवरि पुत्रादिगर्भधारणेन सुपुष्टगात्रि । तच जरायु मांसेन गर्मव्यथकावयवेन सह आयतं संवद्धं विस्तृतं वा अधः नैव पद्यतां पततु न च कस्मॅिश्चन गर्भो विपद्यतां निमित्ते सत्यपीति । 'जातत्य..."करोति' जातस्योत्पन्नस्य कुमा: रस्व वालस्याच्छिन्नायां नाड्याम् अच्छिन्ने नाभिनाले पिता मेघाजननायुष्ये मेधाजननं च आयुष्यं च मेबाजननायुष्ये ते करोति । कुमारग्रहणाच स्त्रिया अत: प्रभृति न क्रियत इति भाष्ये । अत्र वसिष्ठःश्रुत्वा जातं पिता पुत्रं सचैल स्नानमाचरेन् । हेमाद्रों-जन्मनोऽनन्तरं कार्य जातकर्म यथाविधि। देवादतीतकालं चेदतीते सूतके भवेत् ॥ अब जातकर्मनामकर्मादावुक्तकालातिक्रमे नक्षत्रादिकं नेयम् । तथा बृहस्पतिः-मुख्यालामे विधिजेन विधिश्चिन्त्यः प्रमाणतः । नक्षत्र तिथिलग्नानां विचार्य पुनः पुनः । कार्णाजिनिः-प्रादुर्भावे पुत्रपुच्योर्ग्रहणे चन्द्रसूर्ययोः । स्नात्वाऽनन्तरमात्मीयान् पितॄन् श्राद्धेन तर्पयेत् ॥ श्राद्धं चात्राभ्युदयिकमेव न स्वतन्त्रम् । अत्र श्राद्धमामेन हेम्ना वा कार्यमित्युक्तं पृथ्वीचन्द्रोदये-जातश्राद्धे न दद्यात्तु पक्वान्नं ब्राह्मणेप्वपीति ।। हेमाद्रौ तु-पुत्रजन्मनि कुर्वीत श्राद्धं हेग्नैव बुद्धिमान् । न पक्केन न चामेन कल्याणान्यभिकामयन्निति संवतॊक्तेहेन्नैवेत्युक्तम् । संवतः-जाते पुत्रे पितुः स्नानं सचैलं तु विधीयत इति । एतच्च स्नानं रात्रावपि भवति नैमित्तिकत्वात् । यदाह व्यासःात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः । नैमित्तिकं तु कुर्वीत स्नानं दानं च रात्रिष्विति ।। नैमित्तिकदानान्यपि स एवाह-ग्रहणोद्वाहसंक्रान्तियात्रादौ प्रसवेपु च । दानं नैमित्तिकं ज्ञेयं रात्रावपि न दुप्यतीति । जैमिनिः-यावन्न छिद्यते नालं तात्रनाप्नोति सूतकम् । छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते । हेमाद्रौ दानखण्डे-यावत्कालं सुते