________________
१६४
पारस्करगृह्यसूत्रम् ।
[ षोडशी
बर्हणायुर्मेधाभिवृद्धिवीजगर्भसमुद्भवैनोनिवर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्य जातकर्म करिष्ये इति संकप्याभ्युदयिकश्राद्धं हिरण्येन कार्यम् । तत एकस्मिन्पात्रे मधुघृते मिश्रयित्वाऽनामिकया सुवर्णान्तर्हितया प्राशयति कुमारं भूस्त्वचि दधामि भुवस्त्वयि दधामि स्वस्त्वचि दधामि भूर्भुवः स्वः सर्वे त्वयि दधामीति मन्त्रेण । अथ वा केवलं घृतं प्राशयति । इदं मेधाजननम् । अयायुष्यकरणम् । तत्र वालकस्य नाभिसमीपे दक्षिणकर्णसमीपे वा अग्निरायुष्मानित्याद्यष्टौ मन्त्रान् त्रिर्जपेत् अनिरायुष्मान ० करोमि १ सोम आयुष्मान् ० २ त्रह्म आयुष्मन् ३ देवा आयुष्मन्तः ४ ऋषय आयुष्मन्त: ५ पितर आयुधमन्तः ६ यज्ञ आयुष्मान् ७ समुद्र आयुष्मान् ८ ततस्त्र्यायुपमिति च त्रिर्जपेत् । इत्यायुष्यकरणम् । पिता यदि कामयेदचं कुमारः सर्वमायुरियात्तदैनं दिवस्परीत्येकादशभिरभिमृगेन् । ततो वालकस्य पूर्वादिदिक्षु चतसृषु चतुरो त्राह्मणानेकं मध्ये चावस्याप्य इममनुप्राणितेति प्रेयः । ततः पूर्वदिस्थितः प्राणेति ब्रूयात् ज्यानेति दक्षिणः अपानेत्यपरः उदानेत्युत्तरः समानेति पञ्चम उपरिष्टादवेक्षमाणो ब्रूयात् । अविद्यमानेषु विप्रेषु स्वयमेवानुपरिक्रम्य परिक्रम्य प्राणेत्यादि श्रूयात् । नात्र प्रैषः । ततो जन्मभूमेरभिमन्त्रणं वेद ते भूमिरिति । ततो वालाभिमर्शनमध्मा भवेति । ततः कुमारमातुरभिमन्त्र णमिडास मैत्रावरुणीति । ततो मातुर्दक्षिणं स्वनं प्रक्षाल्य कुमाराय प्रयच्छतीम ंस्तनमिति । ततो यस्तैस्तन इम ंस्तनमिति मन्त्राभ्यां सज्यं स्तनं प्रयच्छति । कालातिक्रमे स्तनप्रदानाभावः । अत्र कारिकायां विशेषः । ‘अत्र दद्यात्सुवर्णे वा भूमिं मां तुरगं रथम् । छत्रं छागं वस्त्रमाल्यं शयनं चासनं गृहम् || धान्यं गुडतिलान्सर्पिरन्यद्वाऽस्ति गृहे वसु | आचान्ति पितरो देवा जाते पुत्रे गृहं प्रति । तस्मात्पुण्यमहः प्रोक्तं भारते चादिपर्वणि । अष्टाङ्गुलं परित्यज्य नालं हिन्द्यासुरादिना' इति । ततः सूतिकायाः खटाऽघस्ताच्छिरः प्रदेशे उदकपूर्णपात्रनिधानमापो देवेष्विति । ततः सूतिकागृह - द्वारे पञ्च भूसंस्कारान् कृत्या लौकिकानेः स्थापनम् । तस्मिन्नन्नौ सायंप्रातः संध्याद्वये प्रत्यहं यावत्सूतिका स्नानं न करोति तावद्धस्तेन तण्डुलकणमिश्रान्सर्पपान् जुहोति । तत्रैवं शण्डामर्का इति प्रथमाम्। आलिखन्ननिमिष इति द्वितीयाम् । इदमन्नये नममेत्युभयोस्त्यागः । यदि वाले क्रूरग्रह उपद्रवति तदा तं जालेन उत्तरीयेण वाऽऽच्छाद्य पिता स्वोत्सङ्गे स्थापयित्वा कुर्कुर इति जपति । ततः कुमाराभिमर्गनं ननामयतीति । अन्न सूतिकासंवन्धि सबै लौकिकानौ भवति । तदुक्तं कारिकायाम् । सुतीसंवन्धि पक्त्यादिकर्म तल्लौकिकानले । पर्वप्यपि च तत्पक्कमनीयान्नैत्र दोषभाक्' इति । इति जातकर्मणि पदार्थक्रमः ॥ ॥ अथ गर्गमते विशेषः । तत्र सोष्यन्तीत्यारभ्य ननामयतीत्यभिमर्शनान्ते विशेषः । हिरण्यश्राद्धान्ते वागिति त्रिस्चार्य वेदोऽसीति गुह्यनामकृत्वा मेघाजननं करोति । भूस्वयि दधामीत्येवमादिभिः प्रतिमन्त्रं प्राशनम् । कुमारस्य शिरः प्रदेशे उदपात्रनिधानम् । सर्वान्ते वालं जनन्यै प्रदाय पिता स्नानं करोतीति विशेषः । अन्यत्समानम् । कुमार्याचैतज्जातकर्मामन्त्रकं कार्यमिति प्रयोगरने । रात्रौ संध्यायां ग्रहणे जाताशौचान्तरेऽपीदं कार्यम् मृताशौचान्तरेऽपीडं कार्यम् । मृताशौचमन्ये जातञ्चेत्तदेवाशौचान्ते वा तत्कार्यम् । पितरि ग्रामान्तरं गते पितृव्यादिर्गोत्रो ज्येष्ठ क्रमेणेदं कुर्यान् । इति जातकर्म ॥ ॥ अथ पष्ठीपूजा ! पश्चमे पष्टे च दिवसे पठ एव वा पूर्वरात्रौ पित्रादिराचम्य प्राणानायम्य देशकालौ स्मृत्वाऽस्य शिशोरायुरारोग्यसकलारिष्टशान्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विनेशस्य जन्मदानां षष्टीदेव्या जीवन्तिकायाश्च चथामिलितोपचारैः पूजनं करिष्य इति संकल्य षोडशोपचारैस्तन्त्रेण पूजयेत् । पृथग्वा संकल्य पृथगेव पूजा कार्या । एतत्प्रतिमाच लेपनादिना कुड्ये लेखनीयाः । पीठादौ वाऽक्षतपुखरूपेण निवेयाः । पुरुषाः शस्त्रहस्ताः वियच नृत्यगीतकारिण्योऽस्यां गत्रौ जागरणं कुर्युः । सूतिकागृहं च सधूमाग्निदीपात्रमुसलाम्बूविभूतियुतं कार्यम्। सर्वपञ्च सर्वतोऽवकिरेन् । अन्यदपि यथाचारं सर्वं कार्यम् । जन्मदाभ्यो
I