________________
कण्डिका] प्रथमकाण्डम् ।
१५७ तिष्ठति । अथ मन्त्रार्थः-तत्र प्रजापतिरनुष्टुप् आपो जलपात्राधाने० । हे आपः जीवनादिहेतवः यूयं देवेषु देवकार्यनिमित्तं जाग्रथ तत्साधनत्वेन तिष्ठथ अतो यथा देवेपु जाग्रथ एवं तथा अस्यां सूतिकायां सूतिकाहिते जाग्रथ जाग्रतेत्यर्थः । पुरुषव्यत्ययश्छान्दसः । किंभूतायां सपुत्रिकायां पुत्रादिसहितायाम् द्वारदेशे सूतिकागृहस्य च होमः प्रतिमन्त्रं, फलीकरणास्तण्डुलकणाः। आवपनोपदेशान्न चात्र होमेतिकर्तव्यता अग्निस्थापनं तु भवत्येव उपसमाधायेत्युक्तत्वात् । अथ मन्त्रार्थः-तत्र द्वयोः प्रजापतिरनुष्टुप् जाया लिङ्गोक्ता आवपने० ॥ शण्डाः शण्डः मर्काः मर्कः तत्र शृणोति हिनस्तीति शण्डो बालग्रहः इतः स्थानान्नश्यतात् अपगच्छतु । अयं च वाक्यार्थ उत्तरत्रापि योज्यः । मारयतीति मर्कः उपघाते वीरः समर्थः उपवीरः विघ्नकुशलः शौण्डिकेय: आश्रितघातकः उलूखलः अप्रतीकार्यों मलिम्लुचः अतिमलिनाशय इत्यर्थः । दीर्घनासो द्रोणासः च्यावयत्यङ्गानि सर्वेन्द्रियाणि वा तच्छत्तीर्वा च्यवनः एते सर्वे मत्कृतावपनोपद्रुता भीताश्चापसर्पन्वित्यर्थः। एवमासमन्ततो भावेन लिखन् भक्षयन् य आस्ते स आलिखन् पराभवितुमव्यवच्छिन्नदृष्टिरनिमिपः उप समीपे श्रुत्वा अपकर्ता उपश्रुतिः हर्यक्षः पिड्डलनयनः कुम्भयति स्तम्भयत्येवंशीलः कुम्भी शातयतीति शत्रुः कर्परहस्तः करपात्रहस्तो वा पात्रपाणिः नृन् मिनोति हिनस्तीति नृमणिः हन्त्री हिंसा हननम् मुखे यस्यासौ हन्त्रीमुखः सर्पपवदरुण उग्रो धूसरो वा सर्षपारुणः । च्यवत्यनेनेति च्यवनः येनोपद्रुतश्च्यवति प्रकृतेः परिभ्रश्यतीत्यर्थः । इतः स्थानान्नश्यतादिति सर्वपदानामेवान्वयः ॥ गणमभिप्रेत्याह ' किंवदन्त इति । एते सर्वे किवदन्तः किंवदद्गुणोऽयमित्यर्थः । इदमग्नय इत्युभयत्र त्यागः । यदि कुमारो वालग्रह एतं वालमुपद्रवेत् विघ्नयेत्तदैनं जालेन आनायेन उत्तरीयेण वाससा वा प्रच्छाद्याङ्के कृत्वा पिता जपति | कूकूर' इत्यादि मन्त्रत्रयम् ॥ अथ मन्त्रार्थ:-तत्र त्रयाणां प्रजापतिरनुष्टुप् शुनको जपे० कूडुरो भीपणाख्यो वालग्रहः तथा सुकूकुरश्चातिभीषणः चालान्वध्नाति वशयतीति वालवन्धनः कूकूरः कर्कशश्च यो वालग्रहः सीसरोऽङ्गसारकः हे शुनक तद्गणमुख्य लपेत लापनं रोधो वेति यावत् । अपह्वर गात्रापहारक ह कौटिल्ये ते तुभ्यं नमोऽस्तु । ततस्तुष्टश्चैनं कुमारं सृज मुञ्च किंकुर्वन् चेचेत् छुछुशब्दं कुर्वन् । हे शुनक तत्सत्यं यत्ते तुभ्यं देवदूताय देवा वरमददुः दत्तवन्तः स च त्वं हिंसाविहारः कुमारमेव वा वृणीथाः वृतवानसीति शेषमुक्तार्थम् । हे शुनक तत्सत्यम् यत्ते तव सरमा देवशुनी माता सीसरश्च देवश्वा पिता श्यामशवलौ च भ्रातराविति शिष्टमुक्तार्थम् । तत एनं कुमारं पिताऽभिमृशति 'न नामयति' इति मन्त्रेण सर्वाङ्गेष्वभिमृशति । अथ मन्त्रार्थ:-तत्र प्रजापतिरनुष्टुप् वायुरभिमर्शने० ॥ यत्र यस्मिन्कुमारे वयं वदामो ब्रूमः साकाङ्क्षत्वान्मन्त्रं यत्र चाभिमृशाम अभितः स्पर्श कुर्मः स कुमारो न नामयत्यङ्गानि । शिष्टं स्पष्टम् ।। १६ ॥ ॥ * ॥
(हरिहरः)-'सोष्यन्ती...."यस्यैत इति । सोष्यन्तीं प्रसवशूलवती स्त्रियं भर्ता अद्भिर्जलेनाभ्युक्षति प्रसिञ्चति एजतु दशमास्य इत्येतया प्राग्यस्यैत इति प्राक्पठितया ऋचा व्यवसानया विराट्जगत्या । अथावरावपतनम् । अथाभ्युक्षणानन्तरमवरावपतनम् अवरमुल्वं जरायुवेष्टितं गर्भवेष्टनमवाचीनमधः पतत्यनेन जलेनेत्यवरावपतनो मन्त्रः तं स्त्रीसमीपे उपविश्य भर्ता जपति, यथा ' अवैतु पृश्निशेवलमित्यादि अवजरायुपद्यताम् । इत्यन्तम् । अवरावपतनमन्त्रो भा जाप्यः । 'जातस्य... 'करोति । ततो जातस्य उत्पन्नस्य कुमारस्य पुत्रस्य अच्छिन्नायां नाड्यामखण्डिते नाले सति मेधाजननायुष्ये मेधाजननं च आयुष्यं च मेघाजननायुष्ये ते करोति पिता मेघाजननं तावदाह ' अनामि'..."धामीति । अनामिकयाऽङ्गुल्या सुवर्णेनाच्छादितया मधु च घृतं च मधुघृते द्वन्द्वसमाससामर्थ्यादेकीकृते घृतं वा केवलं कुमारं सकृत्प्राशयति कुमारस्य जिह्वायां निर्माष्टि भूस्त्वयीत्यादि सर्वं त्वयि धामीत्यन्तेन मन्त्रवाक्यसमुदायेन । ननु ' अर्थैकत्वादेकं वाक्यम् । इति