________________
१५८
पारस्करगृह्यसूत्रम् ।
[पोडशी जैमिनिसूत्रात, 'तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता । इत्यमरसिंहोक्तश्चैकार्थमेक वाक्यम् । एकस्य वाक्यस्य च तेषां वाक्यं निराकाई मिथः संवद्धमिति कात्यायनवचनेनैकमन्त्रत्वमिति प्रतिपादनात्कथं मन्त्रवाक्यसमुदायस्यैकमन्त्रत्वम् ? अत्रोच्यते-सत्यं यदि इतिकारादिकं मन्त्रावसानज्ञापकं किंचिन्न स्यात्तदैतच्छक्यम् । अत्र पुनरितिकारो मन्त्रावसानबापको जागर्ति तेन नायं दोपः । यथा स वै भूर्भुव इखेतावतैव गार्हपत्यमादधाति तैः सर्वैः पञ्चभिराहवनीयमादधाति भूर्भुवःस्वरिति च श्रुतौ वाक्यसमुदायस्य इतिकारेण मन्त्रावसानं ज्ञायते । कातीयसूत्रेऽपि दारुभिचलन्तमादधाति भूर्भुव इति आहवनीयमादधाति भूर्भुवः स्वरिति । अत्र यद्यपि एकैकस्याः व्याहृतेमन्त्रत्वं युक्तं समस्तानां व्याहृतीनां च तथापि इतिकारेण द्वयोरपि व्याहृत्योर्मन्त्रत्वं व्यवस्थाप्यते । एवमन्यत्रापि बहूनां मन्त्रवाक्यानामितिकारादिविनियोजकेन मन्त्रैक्यं तत्र तत्रायमेव न्यायोऽनुसतव्यः । 'अथास्याः'..."जपति अथ मेधाजननानन्तरम् अस्य कुमारस्यायुष्यमायुषे हितं जीवनवर्द्धनं कर्म करोति । तद्यथा नाभिदेशे दक्षिणे वा अवणे नाभ्यां दक्षिणे वा कणे इति समीपाधिकरणा सप्तमी, गड्डायां घोप इतिवत् । तेन नाभिसमीपे दक्षिणकर्णसमीपे वा जपति । 'अग्निरायुष्मान्' इत्यादिकान् मन्त्रान् निर्जपति त्रीन् वारान् उपांशु पठति । अग्निसोमब्रह्मदेवऋषिपितृयज्ञसमुद्र इत्यन्तान् । 'व्यायुषमिति च' ततः व्यायुषं जमदग्नेरित्यादि तन्नो अस्तु व्यायुषमित्यन्तं च मन्त्रं तथैव निर्जपति । इदं चायुष्यकरणं कालातिक्रमेऽपि क्रियते । मेधाजननं तु मुख्यकालातिक्रमान्निवर्तते तस्मात्कुमारं जातं घृतं वै वाऽग्रे प्रतिलेहयन्ति स्तनं वाऽनुधापयन्तीति जातमात्रस्य कुमारस्य श्रुत्या मेधाजननोपदेशात् । ‘स यदि...."भिमृशेत् । स पिता यदीच्छेदयं कुमारः सर्व संपूर्णमायुर्जीवितम् इयात् प्राप्नुयात् इत्येवं तदा वात्सप्रेण वात्सप्रिणाभालन्दनेन दृष्टेनानुवाकेन दिवस्परीत्यादिद्वादशचेन एनं कुमारम् अभि समन्ततः सर्व शरीरमालभेत । तन्न विशेषमाह 'दिवस्प..."शिनष्टि दिवस्परीत्यादिको द्वादश!ऽनुवाको वात्सप्रः एतस्य उत्तमामन्त्यां द्वादशीम् अस्ताव्यग्निरित्येतामृचं परिशिनष्टि व्युदस्यति तां परित्यज्य एकादशभिर्गम्भिरभिमृदित्यर्थः । 'प्रतिदिशं....."मानेषु' इत्यन्तं सूत्रम् । कुमारस्य प्रतिदिशं दिशं दिशं प्रति चतसृषु दिक्षु प्राच्यादिपु मध्ये च यथाक्रमं पञ्च ब्राह्मणानवस्थाप्य संनिवेश्य कुमाराभिमुखांस्तान्प्रति
यात् । किम् ? इममनुप्राणितेति । इमं कुमारमनुप्राणितानुलक्षीकृत्य प्राणेत्यादि ब्रूत इति प्रैषः । ततः प्रेपिता ब्राह्मणाः पूर्वादिक्रमेण प्राणेति कुमारं लक्षीकृत्य पूर्वो ब्रूयात् । व्यानेति दक्षिणो ब्राह्मणः अपानेति पश्चिमः उदानेत्युत्तरः समानेति पञ्चम उपरिष्टादृर्द्धमवेक्षमाणः । अविद्यमानेषु असत्सु ब्राह्मणेषु स्वयं वा स्वयमेव अनुप्राणनं कुर्यात् । कथम् अनुपरिक्रामं परिक्रम्य परिक्रम्य पूर्वादिकां दिशं प्राणेत्यादि । अनुपरिक्राममिति णमुलन्तम् । अस्मिन्पक्षे प्रैषाभावः । स यस्मिमन्त्र. यते ' स कुमारः यस्मिन्देशे भूभागे उत्पन्नः पतति तं देशमभिमन्त्रयते हस्तेन स्पृशति वेद ते भूमि इत्यादिशरदःशतमित्यन्तेन मन्त्रेण । 'अथैन.... 'शतमिति' अथ जन्मदेशाभिमन्त्रणानन्तरमेनं कुमारं पिता अभिमृशति समन्ततः सर्वशरीरे स्पृशति । अश्मा भवेत्यादिना सजीव शरदः शतमित्यन्तेन मन्त्रेण । वात्सप्राभिमर्शनादि एतदभिमर्शनान्तं कालव्यतिक्रमेऽपि क्रियते संस्कारकर्मत्वात् । अथास्य... 'ऽकरदिति । अथ कुमाराभिमर्शनानन्तरमस्य कुमारस्य जननीमभिमन्त्रयते अभिलक्षीकृत्य । इडासीत्यादिना वीरवतोऽकरदित्यन्तेन । ' अथास्यै...'मेताभ्याम् । अथाभिमन्त्रणं कृत्वा अस्यै अस्याः मातुर्दक्षिणं स्तनं प्रक्षाल्य धावयित्वा कुमाराय ददाति इमळं स्तनमित्येतयर्चा । तत उत्तरं वामं स्तनं प्रक्षाल्य प्रयच्छति यस्ते स्तन इमर्छ स्तनमित्येताभ्यामृग्भ्याम् । 'उदपात्र...."प्रथेति' उदपात्रं जलपूर्णपात्रं शिरस्तः शिर प्रदेशे कुमारस्य निदधाति स्थापयति ।