________________
१५६ पारस्करगृह्यसूत्रम्।
[पोडशी पिता । अथ मन्त्रार्थः-तत्र सर्वेषां प्रजापतिर्गायत्री लिङ्गोक्ता आयुष्यकरणे । अग्निः कारणात्मना आयुष्मानस्ति । स च वनस्पतीभिरिष्मसमिद्भिरिष्ट आयुष्मान् आयुष्मत्त्वहेतुर्भवति वनस्पतिभिः कृत्वेति वा तेन अग्न्यायुषा त्वा त्वाम् आयुष्मन्तं निर्दुष्टदीर्घायुपं करोमीति वाक्यार्थ उत्तरत्रापि संवध्यते । एवं सोमोऽपि व्याख्येयः । स च ओपधीभिरिति संधिरापः । २ । ब्रह्म वेदः ब्राह्मणैरध्येतृभिः । ३ । देवाः अमृतेन सुधया । ४। ऋषयो व्रतैः कृच्छादिभिः ॥ ५ ॥ पितरः स्वधाभिः तृप्तिजनकमन्त्रैः। ६ । यज्ञो दक्षिणाभिः परिक्रयद्रव्यैः । ७ । समुद्रः सवन्तीभिर्नदीभिरित्येतावाविशेषः । ८ । एतानष्टौ मन्त्रॉस्त्रिर्जपति । न्यायुपमिति च । त्रिरेव । यदि चास्य मेधाजननं स्वकाले न कृतं विनवशात्तर्हि तिष्ठत्येव तस्य नियतकालत्वात् । तथा च श्रूयते तस्मात्कुमारं जातं घृतं वै वाऽने प्रतिलेहयन्ति स्तनं वाऽनुधापयन्तीति अपीतस्तनस्यैतत् आयुष्यं तु भवत्येव । स पिता यदि कामयेत अयं सर्व शतवर्षमायुरियात्प्राप्नुयादिति तहींद काम्यमुच्यते। उन्तमा चरमामृचं परिशेपयित्वा तत्रावशिष्टं वात्सप्रमत्र गृह्यते । तत्र द्वादशानां वत्सप्रीलिन्दनः त्रिष्टुप् अग्निरभिमर्शने । प्रतिदिशमवस्थापितान् पञ्चब्राह्मणान्प्रति पिताऽऽह भो ब्राह्मणा इमं कुमारमनुप्राणित अनुकूलप्राणं मन्त्रैः कुरुतेति । ततस्ते ब्राह्मणाः प्राणेत्याद्याहुः क्रमेण अविद्यमानेपु विप्रेपु स्वयमेव अनुपरिकामं परिक्रम्य परिक्रम्य । अथ मन्त्रार्थ:-भो कुमार त्वं प्राण सुस्थितप्राणो भव । एवमुपर्यपि । तत्र सर्वाड्रेषु सुस्थो व्यानः गुदे सुस्थोऽपानः कण्ठे सुस्थ उदान. नाभौ सुस्थः समानो भवेति स्थानभेदः । एवमेते वायवोऽस्य सुजीवनं कुर्वन्त्विति वाक्यार्थः । स कुमारो यत्र प्रदेशे जातस्तं वेद त इति मन्त्रेण मन्त्रयते । वेदत इति प्रजापतिरनुष्टुप् भूमिस्तदभिमन्त्रणे० । हे भूमे कुमारजन्मप्रदेश तव हत् यदुपकरणम् अयं प्रत्यगात्मा सूर्यः भूमिश्च कुमारसूर्वेद जानाति विसर्गाभावश्छान्दसः । किंभूतम् दिवि झुलोके वर्तमाने चन्द्रमसि प्रसादरूपेण श्रितं स्थितं तत्कर्मभूतमहं वेद जानामि तत्कर्तृभूतम् एवं पुनरुपकर्तु मां विद्याजानातु अतस्त्वद्दत्तपुत्रेण सह वयं पश्येमेत्यायुक्तार्थम् । अथैनं कुमारं पिताऽभिमृशति हृदि स्पृशति अश्मा भवेति मन्त्रेण । अस्यार्थः तत्र प्रजापतिरनुष्टुप् लिडोक्ता अभिमर्शने । हे कुमार त्वम् अश्मा मणिरिव दृढः प्रियश्च भव परशुर्वज इवापकर्तृनाशको भव । किंच अस्रुतम् अनभिभूतम् अप्रच्युतस्वरूपमिति यावत् हिरण्यं हिरण्यवत्तेजोयुक्तः स्पृहणीयश्च भव यथा धात्वन्तरासंभिन्नं सुवर्ण शुद्धं भवति तथा त्वमपि रोगाद्युपद्रवहीनो भवेत्यर्थः। यतस्त्वं पुत्रनामा आत्माऽसि अतः स त्वं वै निश्चयेन शतं शरदो जीव प्राणिहि । वात्सप्रामिमर्शनाद्येतदभिमर्शनान्तं कर्म कालातिक्रमेऽपि भवति संस्कारत्वात् । अथास्य मातरं कुमारस्य प्रसूम् अभि अभिमुखो भूत्वा मन्त्रयते मन्त्रावणेन संस्करोति इडासीति मन्त्रेण । अस्यार्थः-तत्र प्रजापतिरनुष्टुप् इडाभिमन्त्रणे० । हे वीरे वीरवति पुत्रवतीति यावत् । त्वमिडा मानवी यज्ञपात्री तद्गतद्रव्यं चासि मैत्रावरुणी मित्रावरुणयोरंशोत्पन्ना । यथा इडायां पुरूरवा उत्पन्नः यथाच यज्ञपात्र्यां तद्रव्ये वा पुरोडाशो भवति तथा त्वय्यपि तादृशाः स्वर्गादिसाधनपराः पुत्राः सन्त्वित्यभिप्रायः । यतस्त्वं वीरं पुत्रमजीजनथाः असौपी: अतः सा त्वं वीरवती जीवपतिपुत्रा भव या त्वमस्मान्वीरवतः जीवबहुपुत्रान् अकरत् अकरोः । अथास्यै अस्या मातुर्दक्षिणं स्तनं स्वयं प्रक्षाल्य कुमाराय प्रयच्छति ददाति पिता इम स्तनमिति मन्त्रेण। उत्तरं वामम् इमस्तनं यस्ते स्तन इत्येताभ्यां मन्त्राभ्याम् द्विवचनोपदेशात् । तत्राचे प्रजापतिस्त्रिष्टुप् अग्निर्द्वितीये दीर्घतमा त्रिष्टुप् वाक् स्तनदाने० । उदपात्रं सजलं शरावं शिरस्तः सूतिकायाः शिरःप्रदेशे खताऽधस्तान्निदधाति आपोदेवेष्विति मन्त्रेण । तबोत्थानपर्यन्तं
१ सौषधीभिरिति सूत्रपाठाभिप्रायेण ।