________________
प्रथमकाण्डम् |
१५५
कण्डका ]
1
भावात् परिसमाप्तत्वाच वाक्यस्य । 'अथावरावपतनम् ' मन्त्रं जपतीत्यध्याहारः । अवरेति जरा...दुधा युविशेषः अभिधानात् तस्याधःपतने जपः पितुः 'अवैतुष्टनिशेवलम् ' इत्यस्य । 'जातस्य' मीति' अनेन मन्त्रेण । प्रतिवाक्यमित्यपरे । अच्छिन्ने नाले एतत् क्रियते । कुमारग्रहणाच स्त्रिया अतः प्रभृति न क्रियते । 'अथास्यायुष्मानिति' । अधिकरणसप्तम्यभावात्समीपसप्तमीयम् । गङ्गायां गावो यथा । त्रिरेतज्जपति । त्र्यायुपमिति च त्रिरेव । यदि दैवान्मानुपादपचारान्सेधाजननं स्वकाले न कृतं तथाप्यायुष्यकरणं भवत्येव । मेधाजननस्य हि कालः श्रूयते - तस्मात्कुमारं जातं घृतं वै वा प्रतियन्ति स्तनं वाऽनुधापयन्तीति । ' स यदि " "शिनष्टि' । दिवस्परीत्येतस्योत्तमामृचं परिशेषयित्वाऽवशिष्टं वात्सप्रमुच्यते । 'प्रतिदिशं णितेति' प्रतिदिशमेकैकमे ब्राह्मणानामवस्थापनं कुमारस्य । तत्र पूर्व तान्प्रति ब्रूयात् इममनुप्राणितेति । 'पूर्वी द्यमा नेषु' । अविद्यमानेषु ब्राह्मणेपु स्वयमेव करोत्यनुपरिक्रम्यानुपरिक्रम्य । ' स यस्मिन्देशे जातो भवति तमभिमन्त्रयते वेद ते भूमीत्यनेन मन्त्रेण । 'अथैनमभिमृशत्यश्मा भव परशुर्भवेति अनेन मन्त्रेण । | वात्सप्राभिमर्शनाद्येतदभिमर्शनान्तं कालव्यतिक्रमेणापि क्रियते तत्संस्कारत्वात् । अथास्य मातरमभिमन्त्रयते इडासीत्यनेन मन्त्रेण । अथास्यै दक्षिणं स्तनं प्रक्षाल्य प्रयच्छति इमर्थं स्तनमित्यनेन मन्त्रेण । 'यस्ते स्तन इत्युत्तरमेताभ्याम् ऋग्भ्याम् । द्विवचनोपदेशाच्च इमर्थं स्तनमिति, यस्ते स्तनमिति च द्वितीये । स्तनसमर्पणं च पीतस्तनस्य न भवति । 'उदपात्र - शिरस्तो निदधाति आपो देवेषु जाग्रथेत्यनेन मन्त्रेण । एतच्च प्रागुत्थानाद्भवत्येव । द्वारदेशे सूतिकाग्निमुपसमाधायोत्थानात्संधिवेलयोः फलीकरणमिश्रान्सर्षपा नग्नावावपति शण्डामर्का इति प्रतिमन्त्रम् । फलीकरणाः कणाः सर्षपाश्च । आवपनोपदेशाच्च होमेतिकर्तव्यता न भवति । यदि कुमार उपद्रवेज्जालेन प्रच्छाद्येोत्तरीयेण वा पिताऽङ्क आधाय जपति । कुर्कुरः सुकूर्कुर इत्यनेन मन्त्रेण । अभिमृशति, न नामयति न रुदति न हृष्यति न ग्लायति यत्र वयं वदामो यत्र चाभिमृशामसीत्यनेन मन्त्रेण । कुमारशब्देन कुमारग्रहो - ऽभिधीयते ॥ १६ ॥ * ॥
....
( जयरामः ) -- सोध्यन्तीं गर्भे मुञ्चन्ती प्रसवशूलवतीमित्यर्थः । षूङ् प्राणिगर्भबि - मोचने । ' अद्भिरभ्युक्षति' भर्ता वक्ष्यमाणमन्त्रेण । मन्त्रमाह ' एजतु दशमास्य इति प्राग्यस्यैत इति ' प्रकरणे पाठाभावाद्वाक्यस्य च परिसमाप्तत्वादुच्यते । तत्र प्रजापतिर्महापङ्गिर्गभ्युक्ष० । ' अथावरावपतनम् ' मन्त्रं जपतीत्यध्याहारः । अवरो जरायुविशेषः तस्य अव अधः पतनं पतनहेतुं मन्त्रं जपति पिता । तमाह - ' अवैत्विति ' अस्यार्थः । तत्र प्रजापतिवृहती अग्निरवपतने ० है सोष्यन्ती तव जरायु अव अधः एतु आयातु पतत्वित्यर्थः । किंभूतं पृश्नि अनिरूपं नानारूपं वा शेवलं पिच्छलं जलोपचितं वा । किमर्थं शुने श्वानमुपकर्तुम् । यद्वा शुने इति पष्ठयर्थे चतुर्थी शुनोऽत्तवे भक्षणाय । हे पीवरि पुत्रादिगर्भधारणेन सुपुष्टगात्रि तच जरायु मांसेन गर्भव्यथकावयवेन सह आयतं संबद्धं विस्तृतं वा अव अधः नैव मैव पद्यतां पततु । न च कस्मिँश्चन गर्भोपघाते निमित्ते सत्यपीति । जातस्येति । तस्य नालच्छेदात्प्राक् मधुघृते मिलिते असंभवे घृतमेव वा प्राशयति सकृत्पिता भूस्त्वयि इत्यादि सर्वे त्वयि दधामि इत्यन्तेन मन्त्रेण । प्रतिवाक्यमित्यपरे | कुमारग्रहणादतः प्रभृति स्त्रिया न भवति । अथ मन्त्रार्थः -- तत्र सर्वासां प्रजापतिः क्रमेण गायत्र्युष्णिगनुष्टुभः अग्निवायुसूर्याः प्राशने० । भूरादिव्याहृतित्रयेणोपलक्षितं वेदत्रयं सर्वोपलक्षितमर्थत्रयेणोपलक्षितमथर्ववेदं च त्वयि दधामि स्थापयामि । यद्वा वेदत्रयं लोकत्रयं च त्वदघीनं स्थापयामि इति । अस्य कुमारस्य आयुष्यमेवाह नाभ्यामित्यादि करोतीत्यभिमन्त्रणं यावत् । नाभ्यां स्थितेरसंभवान्नाभेः कर्णस्य वा समीपे स्थित्वा अग्निरायुष्मानित्याद्यष्टौ मन्त्रास्त्रिर्जपति