________________
१५४ पारस्करगृह्यसूत्रम् ।
[षोडशी ब्रूयादिममनुप्राणितेति ॥ १० ॥ पूर्वो ब्रूयात्प्राणेति ॥ ११ ॥ व्यानेतिदक्षिणः ॥ १२ ॥ अपानेत्यपरः ॥ १३ ॥ उदानेत्युत्तरः ॥ १४ ॥ समानेति पञ्चम उपरिष्टादवेक्षमाणो ब्रूयात् ॥ १५॥ स्वयं वा कुर्यादनुपरिक्राममविद्यमानेषु ॥ १६ ॥ स यस्मिन्देशे जातो भवति तमभिमन्त्रयते वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शतमः शृणुयाम शरदः शतमिति ॥ १७ ॥ अथैनमभिमृशत्यश्मा भव परशुर्भव हिरण्यमस्रुतं भव । आत्मा वै पुत्रनामाऽसि स जीव शरदः शतमिति ॥ १८ ॥ अथास्य मातरमभिमन्त्रयत इडासि मैत्रावरुणी वीरे वीरमजीजनथाः । सा त्वं वीरवती भव याऽस्मावीरवतोऽकरदिति ॥ १९ ॥ अथास्यै दक्षिण स्तनं प्रक्षाल्य प्रयच्छतीमर्थ रतनमिति ॥ २० ॥ यस्ते स्तन इत्युत्तरमेताभ्याम् ॥ २१ ॥ उदपान शिरस्तो निदधात्यापो देवेषु जाग्रथ यथा देवेषु जाग्रथ ॥ एवमस्याळं सूतिकायासपुत्रिकायां जाग्रथेति ॥ २२ ॥ द्वारदेशे सूतिकाग्निमुपसमाधायोत्थानात्संधिवेलयोः फलीकरणमिश्रान्सर्षपानमावावपति शण्डामर्का उपवीरः शौण्डिकेय उलूखलः । मलिम्लुचो द्रोणासश्च्यवनो नश्यतादितः स्वाहा । आलिखन्ननिमिषः किंवदन्त उपश्रुतिहर्यक्षः कुम्भी शत्रुः पात्रपाणिमणिहन्त्रीमुखः सर्षपारुणश्च्यवनो नश्यतादितः स्वाहेति ॥ २३ ॥ यदि कुमार उपद्रवेज्जालेन प्रच्छाद्योत्तरीयेण वा पिताऽङ्क आधाय जपति कुर्कुरः सुकूधैरः कूकुरो बालबन्धनः। चेच्चेच्छनक सृज नमस्ते अस्तु सीस
रो लपेतापहर तत्सत्यम् । यत्ते देवा वरमददुः स त्वं कुमारमेव वा वृणीथाः । • चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेतापवर तत्सत्यम् । यत्ते सरमा
माता सीसरः पिता श्यामशबलौ भ्रातरौ चेचेच्छनक सृज नमस्ते अस्तु सीसरो लपेतापहरेति ॥ २४ ॥ अभिमृशति न नामयति न रुदति न हृष्यति न ग्लायति यत्र वयं वदामो यत्र चाभिमृशामसीति ॥२५॥१६॥
(कर्कः)-सोप्यन्ती..... 'इति' पृह प्राणिगर्भविमोचने । गर्भ विमुञ्चन्ती विजनयन्ती. मित्यर्थः । अनिरभ्युक्षति एजतु दशमास्य इत्यनेन मन्त्रेण माग्यस्यैत इति चोच्यते । प्रकरणे पाठा