________________
१५२
पारस्करगृह्यसूत्रम् ।
[ पञ्चदशी
तथा कण्ठे प्रतिमुञ्चते अयमूजवतो वृक्ष इत्यनेन मन्त्रेण | गानप्रैप: । राज्ञो गानम् । नलादेर्वा गानम् । नलादिकं सङ्घायेतामिति प्रैप: । नियुक्तगाथागानं वा । नास्मिन्पने प्रैप: 1 असावित्यत्र गङ्गे इत्येवं नाम गृहाति रूयेव । ततः स्विष्टकृदादिब्राह्मणभोजनान्तम् । दक्षिणादानान्ते मद्रपीठ उपवेशनादि कार्यमिति वासुदेवः । एतदुभयं समूलमतो यथारुच्यनुष्ठेयमिति गर्गपद्धतौ । इति गर्गमतं विशेषः ॥ ॥ अथ गर्भिणीधर्माः । कारिकायाम् - अङ्गाग्भरमास्थिकपालचुलीशूर्पादिकेपूपविशेन्न नारी । सोलूखलाद्ये पदादिके वा यन्त्रे तुपाद्ये न तथोपविष्टा । नो मार्जनीगोमय पिण्डकादौ मूत्रं पुरीपं शयनं च कुर्यात् । नो मुक्तकेशी विवशाऽथवा स्याढुङ्क्ते न सन्ध्याबसरे न शेते । नामङ्गलं वाक्यमुदीरयेत्सा शून्यालयं वृक्षतलं न यायात् । प्रयोगपरिजाते---गर्भिणीकुञ्जराश्वा दिशैहर्म्यादिरोहणम् । व्यायामं शीघ्रगमनं शकटारोहणं त्यजेत् । शोकं रक्तविमोक्षं च साध्वसं कुक्कुटासनम् । व्यवसायं दिवा स्वापं रात्रौ जागरणं त्यजेत् । वगहः - सामिपमशनं यत्नात्प्रमदा परिवर्जयेदतः प्रभृति । याज्ञवल्क्यः - दौहृदस्याप्रदानेन गर्भो दोपमत्राप्नुयात् । वैरूप्यं मरणं वाऽपि तस्मात्कार्य प्रियं स्त्रियः । दौहृदं गर्भिणीप्रियम् । मदनरत्नेहरिद्रां कुकुमं चैव सिन्दूरं कज्जलं तथा । कूर्पासकं च ताम्बूलं माङ्गल्याभरणं शुभम् । केशसंस्कारकवरीकण्ठकर्णविभूषणम् । भर्तुरायुष्यमिच्छन्ती दूरयेद्गर्भिणीं न हि । वृहस्पतिः - चतुर्थे मासि पष्टेवाऽप्यष्टमे गर्भिणी यदा । यात्रा नित्यं विवर्या स्यादापाढे तु विशेपत. ॥ ॥ अथ गर्भिणीपतिधर्माः । आश्वलायन:--- - वपनं मैथुनं तीर्थ वर्जयेदर्भिणीपतिः । श्राद्धं च सप्तमान्मासादूर्ध्व चान्यत्र वेदवित् । श्राद्धं तद्भोजनमिति प्रयोगपारिजाते । रत्नसंग्रहे - दहनं वपनं चैव चौलं वै गिरिरोहणम् । नाव आरोहणं चैव वर्जयेद्गर्भिणीपतिः । प्रव्यक्तत्रार्भापतिरब्धियानं मृतस्य वाहं क्षुरकर्मसङ्गमिति तत्रैवोक्तम् न कुर्यादित्युत्तरार्द्धेनान्वयः । मुहूर्तदीपिकाया - मक्षौरं तथानुगमनं नखकृन्तनं च युद्धादिवास्तुकरणं त्वतिदृरयानमिति । नो भवेदिति शेषः । इति गर्भिणीपतिधर्माः । इति सीमन्तोन्नयनपदार्थक्रमः 1 % 1 11 ÷ 11
( विश्व ० ) - ' अथ सीमं पुंसवनत्रत्' अथ पुंसवनानन्तरं सीमन्तोन्नयनमिति कर्मनामधेयं सवनवदित्यनेन पुंनक्षत्राद्यतिदेश: । 'प्रथम'' "मे वा गर्भान्तरे सीमन्तोन्नयननिवृत्त्यर्थं प्रथमपदम् । आद्ये गर्भे नियमः । गर्भान्तरेष्वनियम इति कर्कोपान्यायाः । ' तिलमुद्र हुत्वा ' वैश्वदेवपूर्व मातृश्राद्धं कृत्वा भार्यायाः स्नानं वस्त्रयोः परिधानं च । ततो भर्त्ता उपलिप्त उद्धतावोक्षिते लौकिका स्थापयेद्बहिःशालायाम् । ततो दक्षिणतो ब्रह्मासनमित्यन्वारभ्य तिलैर्मुद्रैर्मिश्रं स्थालीपाकमोदनं चरुमाज्यभागान्तं परिभाषाशास्त्रविधिना संपाद्य स्थालीपाकेन प्रजापतेर्हुत्वेत्यर्थः । तत्र विशेषः । पात्रासादने तण्डुलानन्तरं तिलमुद्रासादनम् युग्मफलसंवद्धमौदुम्बरं काष्ठम् गोमयनिर्मिनं भद्रपीठं चतुरस्रं मृदुवस्त्रार्यान्वितं पीठं वा । दर्भपिलत्रयं, त्र्येणी शलली, वीरतरः शङ्कुः आयसः खादिरो या, पूर्णचात्रं, वीणाद्वयं गाथिनश्च तिलमुद्रमिश्रिततण्डुलग्रहणं, प्रजापतये जुष्टं गृहामि, प्रोक्षणे त्वाशब्दोऽधिकः । आज्यभागान्तं प्रकृतिवत् । ततः स्थालीपाकेन प्रजापतेर्हुत्वा इदं प्रजापतय इति त्यागं विदध्यात् पञ्चादग्नेर्भद्रपीठ उपविष्टायां युग्मेन सटालुप्रप्सेनौदुम्बरेण त्रिभिव दर्भपित्रेण्या शलल्या वीरतरशङ्कुना पूर्णचात्रेणच सीमन्तमूर्ध्वो विनयति भूर्भुवःखरिति प्र'तिमहाव्याहृतिभिर्वा । अग्नेः पञ्चातुर्दक्षिणतः मृद्वासने आसीनायां व्यादिफलवता अनाप्तपाकफलस्तोमत्रता औदुम्बरवृक्षोद्भवेन त्रिभिर्भतृणैः चकारः समुच्चयार्थः त्रेण्या शलल्या वीरतरशकुना खादिरेण आयसेन वा पूर्णसूत्रेण चात्रेण कर्तनसाधनविशेषेण सीमन्तमूर्ध्व विनयति । ललाटमारस्य शिर प्रदेशं यावत् । भूर्भुव स्त्रर्विनयामीत्येवं भूर्विनयामि भुवर्विनयामि स्वर्विनयामीत्येवं प्रति