________________
१५१ प्रथमकाण्डम् । कण्डिका नदी..... "गृहाति । असावित्यत्र च सीमन्तिनी यां नदीमुप समीपे आवसिता स्थिता भवति तस्या नद्याः गाथागानकर्ता गङ्गे यमुने इत्येवं नाम गृह्णाति । 'ततो ब्राह्मणभोजनम् । व्याख्यातं चैतन् । अत्र भोजने प्रायश्चित्तमुक्तं पाराशरमाधवीये धौम्येन-ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा । जातकर्मनत्राद्धे भुक्त्वा चान्द्रायणं चरेत् । इदं च कर्माहवाह्मणभोजनविपयं नत्विष्टकुटुम्बादिभोजनविपयमिति मुरारिमिश्राः । इति पञ्चदशी कण्डिका ।। १५॥ ॥*॥
सीमन्तोन्नयने पदार्थक्रमः । तच्च गर्भमासापेक्षया पप्टेऽष्टमे वा मासि असंभवे यावत्प्रसवं शुक्लपक्षे पुनर्वसुपुष्याभिजिद्धस्तपोष्ठपदानुराधाऽश्विनीमूलश्रवणरेवतीरोहिणीमृगशिरःसंज्ञकानां पुन्नक्षत्राणां चतुर्द्धा विभक्तानां मध्यमपादद्वये षष्टयष्टमीद्वादशीचतुर्थीनवमीचतुर्दश्यमावास्याव्यतिरिक्ततिथौ सोमबुधवृहस्पतिशुक्रवारेषु चन्द्रानुकूल्ये विट्यादिदोपाभावे शुभलग्नादौ कार्यम् । अत्रा'यधिकमासगुरुशुक्रास्तादीनां न दोपः, कालान्तरासंभवे पूर्ववन्नियतकालत्वात् । पुण्याहवाचनग्रहयज्ञाभ्युदयिकानि कृत्वा मङ्गलस्नातां परिहितप्रावृताहतवासीयुगलामलङ्कृतां पत्नी स्वदक्षिणत उपवेश्य देशकालौ स्मृत्वा तनुरुधिरप्रियालक्ष्मीभूतराक्षसीगणदूरनिरसनक्षमसकलसौभाग्यनिदानभूत- महालक्ष्मीसमावेशनद्वारा प्रतिगर्भ वीजगर्भसमुद्भवैनोनिवर्हणजनकातिशयद्वारा च श्रीपरमेश्वरप्रीत्यर्थ स्त्रीसंस्काररूपं सीमन्तोन्नयनाख्यं कर्म करिष्य इति सङ्कल्पं कुर्यात् । ततो बहि:शालाया पञ्च भूसंस्कारान्कृत्वाऽग्नेः स्थापनम् । वैकल्पिकावधारणम् । प्रतिमहाव्याहृतिभिर्विनयनम् । वीरतरस्य गानम् । ततो ब्रह्मासनाद्याज्यभागान्ते विशेषः । उपकल्पनीयानि । तिलाः मुन्नाः मृदुपीठं युग्मान्यौटुम्वरफलान्येकस्तवकनिबद्धानि । त्रीणि कुशपिञ्जुलानि । ज्येणी शलली। वीरतरशकुः । पूर्णचात्रम् । वीणागाथिनौ त्रैवर्णिको चेति । ब्राह्मणौ वीणागाधिनाविति प्रयोगरत्ने । नियुक्तगा. थागानस्य विहितत्वाच्छूद्रस्य च तत्रानधिकारात्रैवर्णिकाविति वयम् । अधिश्रयणकाले स्थाल्यां मुद्रान्प्रक्षिप्याधिश्रित्य ईपच्छ्तेषु मुरेपु तिलतण्डुलप्रक्षेपं कृत्वा पर्यग्निकरणादि कार्यम् । आज्यागान्ते स्थालीपाकेन प्रजापतये स्वाहेति होमः इदं प्रजाप० । ततः स्थालीपाकेन स्विष्टकृद्धोमः । ततो भूराद्या नवाहुतयः । तत: प्राशनादिदक्षिणान्तम् । ततोऽग्नेः पश्चान्मद्रपीठ उपविष्टाया गर्भिण्या औदुम्बरादिभिः पूर्णचात्रान्तैः फलीकृतैः सीमन्तमूर्व विनयति भूर्भुवःस्वर्विनयामि प्रतिमहाव्याहृतिभिर्वा विनयनम् । भूः विनयामि । भुवः विनयामि । स्वः विनयामि । ततो भर्ता अयमूर्जावत इति औदुम्बरादिपञ्चकं तस्याः वेण्यां बध्नाति । वीणागाथिनौ गजान सङ्कायेतामिति प्रैप: । नतस्त्रैवर्णिको वीणागाधिनौ गजवर्णनसम्वन्धि गानं कुरुतः । अथवाऽन्यो नलादिस्तस्य गानम् । तस्मिन्पक्षे नलादिकं संगायेतामिति प्रैय इति गर्गपद्धतौ । नियुक्तगाथागानं वा । तत्र सामगानापरिज्ञाने मन्त्रमानं पठेतामिति प्रयोगरत्ने । तस्मिन्पक्षे प्रैयाभाव इति गर्गपद्धतौ । नियुक्तगाथागानेऽपि प्रैष: सोमह राजानः संगायेतामिति हरिहरः। नद्या नामग्रहणं गर्भिणीकर्तृकमिति तत्पद्धतौ । ततो ब्राह्मणभोजनम् । इति पदार्थक्रमः ॥ ॥ अथ गर्गमते विशेषः मातृपूजापूर्वकमाभ्युदयिकम् । अग्नेः स्थापनम् । ब्रह्मासनाद्याज्यभागान्ते विशेषः । आसादने तण्डुलानन्तरं तिलाः मुद्राः । मद्रपीठम् । औदुम्बरादिपञ्चकम् । वीणागाधिनी चेति । ग्रहणामा तण्डुलानां तिलमुद्राभ्यां मिश्रणम् । ग्रहणे प्रजापतये जुष्टं गृहामि । प्रोक्षणे स्वाचिकः । आज्यभागान्ते प्रजापतये स्वाहेति स्थालीपाकस्य होमः । ततोऽनेः पञ्चान्मद्रपीठनिधानम् । ततस्तां गर्भवती स्नापयित्वाऽहते वाससी परिधाप्य मद्रपीठ उपवेशयेत् । तत औदुम्बरादिपञ्चद्रव्यैर्गर्भिण्याः सीमन्तविनयनम् । विनयामीत्यध्याहारः । ततः पादाङ्गुष्ठेन सूत्रमाक्रम्य मस्तकं यावत्सूत्रं मीत्वा तन्नवगुणं कृत्वा तस्मिन्सूत्रे औदुम्बरादिपञ्चकं वद्धा तस्यास्तु नामरुपरि यथा भवति