________________
१५० पारस्करगृह्यसूत्रम् ।
[पञ्चदशी ज्येत तदरित्यर्थ इति भर्तृयज्ञः। प्रथमगर्ने आद्यगमें भवति । आपस्तम्बः-सीमन्तोन्नयनं प्रथमे गर्ने चतुर्थे मासीति । शाङ्खायनगृह्य-सप्तमे मासि प्रथमगर्भ सीमन्तोन्नयनमिति | आश्वलायनगृह्यपरिशिष्टे-प्रथमे गर्भ सीमन्तोन्नयनसंस्कारो गर्भमात्रसंस्कार इति । कर्कोपाध्यायैस्तु प्रथमगर्ने मासे पप्ठेऽष्टमे वेति सूत्रं योजयित्वा द्वितीयादिष्वनियम इत्युक्तम् । ननु प्रथमगर्भ एव सीमन्तोन्नयनसंस्कारे क्रियमाणे द्वितीयादिगर्भाणां तत्संस्कारलोपः स्यादिति चेत् मैवम् । यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतो भवेदिति हारीतवचनादाद्यगर्भ संस्कारे कृते सर्वगर्भाणां संस्कार इति न संस्कारलोपः अकृतसीमन्तायाः प्रसवे सत्यव्रतोक्तो विशेषः-स्त्री यदाऽकृतसीमन्ता प्रसवेत्तु कथंचन । गृहीतपुत्रा विधिवत्पुनः संस्कारमहतीति । 'मासे पष्ठेऽष्टमे वा ' सीमन्तोन्नयनं गर्भधारणात् पष्ठे मासि अष्टमे वा भवति । 'तिलमुद्र "स्वरिति । तिलमुद्रानां स्थालीपाके मिश्रणमात्रं न तत्प्राधान्यं मिश्रणोपदेशात् । प्रयोजनं चान्तराये उपेक्षैव । त्यागोऽपि तव्यतिरिक्तस्यैव तिल मिश्रस्तिलमुद्गमिश्रस्तं चरु श्रपयित्वा आज्यभागानन्तरं प्रजापतये स्थालीपाकेनैकामाहुति हुत्वा स्थालीपाकेनैव स्विष्टकदाहुति हुत्वा दक्षिणादानान्तं कृत्वा पश्चादग्नेर्मद्रपीठ उपविष्टायामग्नेः पश्चिमतः भर्तुर्दक्षिणतः मृदुपीठे आसीनायां गर्भिण्यां सत्यां युग्मेनौटुम्बरवृक्षोद्भवेन ब्यादियुग्मफलवता सटालुप्रप्सेन अपकफलस्तबकनिबढेन सटालुमिति अपक्कफलानामाख्या अप्सः स्तवकसंघातः युग्मानि एकस्तवकबद्धानि औदुम्बरफलानि तेन त्रिभिर्दर्भपवित्रैश्च व्येण्या शलल्या त्रिपु स्थानेषु श्वेता येणी तया व्येण्या शलल्या शलल्याख्यपक्षकण्टकेन वीरतरशङ्कुना आश्वत्थेन शकुना पूर्णचानेण च सूत्रकर्तनसाधनभूतो लोहकीलस्तर्वारपरपर्यायश्चात्रं, तेन सूत्रपूर्णेन च चकार औदुम्वरफलस्तवकादिद्रव्यपञ्चकसमुच्चयार्थः अतो द्रव्यपञ्चकेन स्त्रियाः सीमन्तमूचे विनयति केशललाटयोः संधिमारभ्य उर्ध्वं केशान् पृथक्करोति द्विधा करोति भूर्भुवस्स्वरिति मन्त्रेण । सीमन्तशब्दो व्याख्यातोऽभिधानग्रन्थे-सीमन्तः कथ्यते स्त्रीणां केशमध्ये तु पद्धतिरिति । साकाङ्कवाद्विनयामीत्यध्याहारः पश्चादग्नर्मद्रपीठ इत्येवमादि कर्मान्ते भवति आगन्तुकत्वात् । मद्रपीठशब्दो गोमयपीठे चतुरने प्रसिद्ध इति भर्तृयज्ञः । वीरतरशकुः शर इति जयरामः । अश्वत्थशड्छुः शरेषीकावेति हरिहरकारिकाकारौ । अश्वत्यशङ्कुरिति कर्कः खादिरः शकुरित्यपर इति गर्गपद्धतौ । 'प्रतिमहाव्याहृतिभिर्वा ' विनयनं सीमन्तस्य कार्यमित्यर्थः । वा शब्दो विकल्पार्थः । अत्रापि चाध्याहारः । तचैवम्-भूः विनयामि भुवः विनयामि स्व:विनयामि । त्रिवृत...."नी भवेति' त्रिभिर्वय॑ते प्रथ्यते इति त्रिवत् वेणी तां प्रति तत्रैव औदुम्बरादिपुजमावनाति भर्ता अयमूर्जावत इति मन्त्रेण । मन्त्रार्थ:-हे सीमन्तिनि यतोऽयमूजोवान् वृक्ष इति शेषः अस्य चोर्जावतो वृक्षस्योर्जीव सफलगाखेव फलिनी भव । ' अथाह""""रतर इति । अथ वेण्यां वन्धनानन्तरं वीणां गृहीत्वा गाथागायनौ प्रति कर्ता वीणागाथिनौ राजानध-संगायेतामिति प्रैपमाह-ततश्च तो ब्राह्मणावेव वीणागाथिनौ राजसंवन्धि सोत्साहौ गायतः । अन्यो वा यः कश्चिद्वीरतर अतिशूरो नलादिस्तं सम्यग्गायेतामिति । आत्मनेपदमार्षम् । एवं चगेये विकल्पः । नियुक्ताम"विति' एके आचार्या नियुक्तां गाने विहितां गाथा मन्त्रं सोम एव नो राजेति उपोदाहरन्ति समीपे गायन्ति । एक नेति अतश्च विकल्पः । अपिः समुच्चयार्थः । ततो गाथागानपक्षे राजसंवन्धि वीरतरसंवन्धि वा गानं गाथागानं च द्वयं भवति । केपाचिन्मते राजवीरतरयोरन्यतरगान गाथागानं वा । पद्धतिकारमते राजवीरतरगाथानामन्यतमस्य गानम् । असावित्यत्र नामादेशः गाथागानमपि वीणागाथिनी कुरुतः । मन्त्रार्थः-सोमश्चन्द्रः नोऽस्माकं प्रजानां राजा प्रभुः अत इमाः प्रजाः मानुपीर्मानुष्यः सौम्याः हे गमादिनदि तुभ्यं तव सोमरूपायाम्तीरे आसीरन् त्वामाश्रित्य स्थिताः । किंभूते तीरे अविमुक्तचक्रे अनुल्लवितशास्त्रे अतो भवयां पातव्या इत्यर्थः । 'यां