________________
कण्डिका] प्रथमकाण्डम् ।
१४१ र्णनसंबद्धं ध्रुवादिरूपकं सम्यग्गायेतां युवामथवा योऽन्योपि राजव्यतिरिक्तो वीरतरः प्रकृष्टो वीरः शूरस्तं संगायेतामित्यनुपङ्गः इत्याह ब्रवीति । 'नियुक्ता...'हरन्ति' एके आचार्याः नियुक्तां गाने विहितां गाथां मन्त्रमुपोदाहरन्ति पठन्ति अपिः समुच्चयार्थः तत्पक्षे राजवीरतरयोरन्यतरगानं गाथागानं च समुचितं भवति । पक्षान्तरे राजवीरतरयोरन्यतरगानं गाथागानं वा तां गाथामाह 'सोमए "तुभ्यम् । इत्यन्ताम् । पद्धतिकारपक्षे राजवीरतरगाथानां एकतमस्यैव गानं तत्पक्ष नियुक्तामपीत्यपिशब्दो विवक्षितार्थः स्यात् । 'असावि....."गृहाति' । ततो गर्भिणी यां नदीमुप समीपे आवसिता स्थिता भवति तस्या नद्या असाविति गड्डा यमुना इत्येवं प्रथमान्तं नाम गृहाति । 'ततोब्राह्मणभोजनम् । इत्युक्तार्थमिति सूत्रव्याख्या ॥ ॥ अथ सीमन्तोन्नयनप्रयोगः । तत्र प्रथमे गर्भे पठेऽष्टमे वा मासि पुन्नक्षत्रे मातृपूजां वृद्धिश्राद्धं च कृत्वा वहि:शालायां पञ्चभूसंस्कारान्कृत्वा लौकिकाग्निमुपसमाधाय ब्रह्मोपवेशनाद्याज्यभागान्तं विध्यात् । तत्र विशेष:-पात्रासादने आज्यानन्तरं तण्डुलतिलमुद्रानां क्रमेण पृथगासादनम् । उपकल्पनीयानि मृटुपीठं युग्मान्यौदुम्बरकलानि एकस्तवकनिवद्धानि त्रयो दर्भपिजुलाः त्र्येणी शलली वीरतरशः शरेषिका आश्वत्थो वा शङ्खः पूर्णचात्रं वीणागाथिनौ चेति आज्यमधिश्रित्य चरुस्थाल्यां मुगान् प्रक्षिप्याधिश्रित्य ईपच्छ्रतेपु मुद्रेषु तिलतण्डुलप्रक्षेपं कृत्वा पर्यग्निकरणं कुर्यात् । तत आज्यभागान्ते स्थालीपाकेन प्रजापतये स्वाहेति हुत्वा इदं प्रजापतय इति त्यागं विधाय स्थालीपाकेनोत्तरास्विष्टकदाहुति हुत्वा महाव्याहत्यादिप्राजापत्यादिप्राजापत्यान्ता नवाहुती त्या संस्रवं प्राश्य पूर्णपात्रवरयोरन्यतरं ब्रह्मणे दत्त्वा पश्चादग्नेर्मद्रपीठं स्थापयित्वा गर्भिण्यां योषिति नातायां परिहिताहतवासोयुग्मायां मद्रपीठ उपविष्टायां युग्मेन सटालअप्सेनौटुम्वरेण त्रिभिश्च दर्भपिजुलैख्येण्या शलल्या वीरतरशकुना पूर्णचात्रेण चेति सवैः पुचीकृतैः स्त्रियाः सीमन्तं भूर्भुवस्स्वर्विनयामीति ऊर्ध्व विनयति मन्त्रण सकून् । यद्वा भूविनयामि भुवर्विनयामि स्वर्विनयामि इति निर्विनयति ततो विनयनसाथनमौटुम्बरादिपञ्चकं त्रिया वेण्यां वध्नाति अयमूर्जावतो वृक्ष उजीव फलिनी भवेति मन्त्रेण । अथवीणागाथिनौ राजानं संगायेतामिति औषं ददाति, अथवा अमुकं वीरतरं संगायेतामिति ततस्तौ यदानाय प्रेषितौ तं गायतः । अथवा वीणागाथिनौ सोमं राजानं संगायेतामिति प्रेषितौ सोम एव नो राजेमामानुपीः प्रजाः अविमुक्तचक्र आसीरंस्तीरे तुभ्यमित्यन्तां गाथां वीणागाथिनौ गायतः । इति विकल्पः पक्षः । समुच्चयपक्षे राजानमन्यं वीरतरं वा सोमं राजानं च संगायतामिति प्रेषिती उभयं गायत: असीस्थाने समीपावस्थिताया गङ्गाप्रमुखाया नद्याः संवुद्धयन्तं गलेत्यादिनाम गृहाति गर्मिण्येव ततो ब्राह्मणभोजनं ददाति । अत्र प्रथमगर्भ इतिवचनात् स्त्रीसंस्कारकर्मत्वाचन प्रतिगर्भ सीमन्तोन्नयनं, यतः सकृत्संस्कृतसंस्काराः सीमन्तेन द्विजखियः । यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतो भवेत् । इति स्मरणात् न प्रतिगमै सीमन्तोन्नयनं, पुक्ष्-सवनं तु दृष्टार्थत्वाद्धाष्यकारमते प्रतिगर्भ भवति ॥
(गदाधरः)-' अथ सीमन्तोन्नयनम् ' व्याख्यास्यत इति सूत्रशेषः । अथ सीमन्तोन्नयनमिति वक्ष्यमाणसंस्कारकर्मणो नामधेयम् । गर्भसनावे क्रियमाणत्वात्तदभावे चाभावाद्गर्भसंस्कारोऽयमिति कर्कोपाध्यायाः । अतश्च तेषां मते प्रतिगर्भ क्रिया । तयाच हेमाद्रौ कारिकायां च विष्णुवचनं-सीमन्तोन्नयनं कर्म न त्रीसंस्कार इष्यते । कैश्चित्तु गर्भसंस्कारागर्भ गर्ने प्रयुज्यत इति । स्त्रीसंस्कार एवायमित्यन्ये । तथाच देवल:-सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृतेति । हारी तोऽपि-सत्संस्कृतसंस्काराः सीमन्तेन द्विजस्त्रियः । यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतो भवेदिति । 'पुर्डन्सवनवत् । अनेन यदहः पुद-सा नक्षत्रेण चन्द्रमसो योगस्तदहरुपवास्याप्लाव्याहते वाससी परिबाप्येति लभ्यते नतु सर्वमिति कर्कः । पुंसवनवदिति यदहः पुंसा नक्षत्रेण चन्द्रमा यु