________________
१४८ पारस्करगृह्यसूत्रम् ।
[पञ्चदशी बद्धसर्वसमुदायेन विनयनं भूर्भुवःस्वरिति मन्त्रेण केशविभजनं सकृत् । विनयामीत्यध्याहारः साकाङ्कत्वात् । प्रतिमहान्याहृतिभिर्वा विनयनम् । एवं विकल्पः । अथ मन्त्रार्थः । सर्वत्र प्रजापतिर्गायत्री उष्णिगनुष्टुभः अग्निवायुसूर्या विनयने । भूरादिलोकान् तत्सुखं च तुभ्यं विनयामि प्रापयामीति ! ' त्रिवृतमिति' त्रिभिर्वृत्यते अश्यते इति त्रिवृत् वेणी तां प्रति तत्रैवेत्यर्थः औदुम्वरादिपुञ्जमाबध्नाति भर्ता अयमूर्जावत इति मन्त्रेण । अस्यार्थः तत्र प्रजापतिर्यजुः फलिनी वन्धने । हे सीमन्तिनि यतोऽयमूजावान् वृक्ष इति शेषः अस्य चोर्जावतो वृक्षस्य अर्जीव सफलगाखेव त्वं फलिनी भव अथेति । वेणीवन्धनानन्तरं वीणागाथिनौ वीणां गृहीत्वा गाथागायिनौ प्रति भर्ताऽऽह किं भवन्तौ राजानम् अन्यो वा यः कश्चिद्वीरतरः अतिशूरः तं संप्रगायेतामिति आत्मनेपदमार्षम् । एवं च गेये विकल्पः । ' नियुक्तामिति । एके आचार्या नियुक्तां निगमविहितां गाथां मन्त्रम् उपोदाहरन्ति समीपे गायन्ति एके नेति विकल्पः । अपिः समुच्चयार्थः । ततश्च गाथागानपक्षे द्वयम् । तामाह 'सोम एवेति । अस्यार्थः तत्र प्रजापतिर्गायत्री सोमो गाने० सोमश्चन्द्र एव नोऽस्माकं प्रजानां राजा प्रभुः अत इमाः प्रजाः मानुपीर्मानुष्यः सौम्या. हे गङ्गादिनद्यः तुभ्यं तव सोमरूपायास्तीरे आसीरन् त्वामाश्रित्य स्थिताः। किंभूते तीरे अविमुक्तचके अनुल्लचितशास्त्रे अतो भवद्भयां पातव्या इति शेप: ' असाविति । सीमन्तिनी यां नदीमाश्रिता भवति तन्नामादेशः ॥ * ॥ १५ ॥ * ॥
(हरिहरः)-अथ सीम....."वनवत् ।। अथ पुंसवनानन्तरं क्रमप्राप्तं सीमन्तोन्नयनं गर्भसंस्कारकं कर्म व्याख्यास्यते । तच्च पुः सवनवत् पुन्नक्षत्रे भवति । 'प्रथम'...""ऽटमे वा' आद्यगर्भ गर्भाधानप्रभृतिषष्टेऽष्टमे वा मासे नियमेन कुर्यात् । गर्भान्तरेष्वनियम इति कोंपाध्यायः । अन्ये तु प्रथमगर्भ एवेति । तथाचाश्वालायनगृह्यपरिशिष्टे प्रथमे गर्ने सीमन्तोन्नयनसंस्कारो गर्भमात्रसंस्कार इति । सकृत्संस्कृतसंस्काराः सीमन्तेन द्विजस्त्रियः । यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतो भवेदिति हारीतो देवलश्च सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृता । उपवासाप्लावनाहतवासोयुगपरिधापनानि वतिना गृह्यन्ते । तिलमु.... "पतेर्तुत्वा' तत्र विशेषमाह तिलैमुंद्रेमिश्रस्तिलमुदमिश्रस्तं स्थालीपाकमोदनं चरु अपयित्वा आज्यभागान्ते प्रजापतये स्वाहेत्येकामाहुति हुत्वा स्विष्टकृदादि प्राशनान्तं विदध्यात् । 'पश्चाद...."टायाम् ' । अग्नेः पश्चिमतः भर्तुर्दक्षिणतः मृद्वासने आसीनायां गर्भिण्यां सत्यां 'युग्मेन.....'व्याहृतिभिर्वा' ततो भर्ता औदुम्बरेण उदुम्बरवृक्षोद्भवेन युग्मेन ब्यादियुग्मफलवता सटालुप्रप्सेन अपकफलैकस्तबकनिबद्धेन त्रिभिश्च दर्भपिजुलैखिभिर्दर्भपवित्रैश्च त्र्येण्या त्रिषु स्थानेषु श्वेता येणी तया येण्या शलल्या शल्यकाख्यपक्षकण्टकेन वीरतरशङ्खना शरेषीकया आश्वत्थेन वा शङ्कुना पूर्णचात्रेण च सूत्रेण पूर्ण चात्रं सूत्रकर्तनसाधनं तर्कुरिति यावत् । तेन लोहकीलकेन च चकारः सर्वसमुच्चयार्थः । अतश्चौदुम्बरयुग्मादिभिः सर्वैः पुजीकृतैः सीमन्तं स्त्रिया उर्ध्व विनयति पृथक्करोति ललाटान्तरमारभ्य केशान द्विधा करोति भूर्भुवः स्वविनयामि इत्येतावता मन्त्रेण सकृदेव । पक्षान्तरमाह वा इति । प्रतिमहाव्याहृतिभिः विनयति । ततश्च भूर्विनयामि भुवर्विनयामि स्वर्विनयामि इत्येवं त्रिर्विनयनं भवति अत्र व्याहृतिमन्त्रपदानामाख्यातपदं विना वाक्यस्यासंपूर्णत्वात् आख्यातपदाध्याहारः कर्तव्यः । तत्र विधियुक्तस्य मन्त्रभावः स्यादिति न्यायात् विनयतीति विधिपदं विपरिणम्य विनयामीत्यध्याहियते । त्रिवृतमाबध्नाति । त्रिवृतं वेणी प्रति आवध्नाति पुजीकृतमौदुम्बरादिपञ्चकं वेण्यां नियुनक्तीत्यर्थः । अयमू..."भवेति' अनेन मन्त्रेण । 'अथाह'''''इति । अथौदुम्बरादिपञ्चकस्य वेणीबन्धनानन्तरमाह ब्रवीति किं हे वीणागाथिनौ राजानं भूपतिं संगायेताम् राजव