________________
प्रथमकाण्डमा
२४७
कण्डिका ] भूर्भुवः स्वरिति ॥ ४ ॥ प्रतिमहाव्याहृतिभिर्वा ॥ ५ ॥ त्रिवृतमाबध्नाति । अयमूर्जावतो वृक्ष उर्जीव फलिनी भवेति ॥ ६॥ अथाह वीणागाथिनौ राजानठ संगायेतां यो वाऽप्यन्यो वीरतर इति ॥ ७ ॥ नियुक्तामप्येके गाथामुपोदाहरन्ति । सोम एव नो राजेमा मानुषीः प्रजाः । अविमुक्तचक्र आसीररतीरे तुभ्यमसाविति यां नदीमुपावसिता भवति तस्या नाम गृह्णाति॥८॥ ततो ब्राह्मणभोजनम् ॥ ९ ॥ १५ ॥ ॥ ७ ॥
(कर्कः)- अथ सीमन्तोन्नयनम् । व्याख्यास्यत इति सूत्रशेपः । सीमन्तोन्नयनमिति संस्कारः स च गर्भस्य तदभावेऽभाव इति अतश्च प्रतिगर्भ क्रिया । 'पुट-सवनवादिति' यदहः पुंसा नक्षत्रेण चन्द्रमसो योगस्तदहरुपवास्याप्लाव्याहते वाससी परिधाप्येति च भवति न सर्व लभ्यते । 'प्रथम'..."टमे वा ' द्वितीयादिषु गर्भेष्वनियमः । अपरे तु वर्णयन्ति सीमन्तोन्नयनं प्रथमगर्भ एवेति । अस्मिन्व्याख्याने द्वितीयादीनां गर्भाणां तत्संस्कारलोपः प्राप्नोति तस्मान्नैतदिष्यते । 'तिलमुद्ग"... "स्वरिति एतदन्तं सूत्रम् । तिलमुगानां स्थालीपाके मिश्रणमानं न तत्प्राधान्यं मिश्रणोपदेशात् । तेनैव स्थालीपाकेन प्राजापत्यो होमः। स चाज्यभागमहाव्याहृत्यन्तराले । तत एव स्विष्टकृत् प्राङ्महाव्याहृतिभ्यः स्विष्टकृदित्युक्तत्वात् । 'पञ्चादग्नेर्भद्रपीठ' इति । पश्चादग्नेमद्रपीठ इत्येवमाद्यन्ते भवति आगन्तुकत्वादन्ते निवेशः । भद्रपीठं मृदुपीठं तत्रोपविष्टायाः स्त्रिया युग्मेन सटालुप्रप्सेनौदुम्वरेण फलस्तबकेन त्रिभिश्च दर्भपिजूलैस्त्र्येण्या शलल्या च वीरतरशकुना पूर्णचात्रेण च सीमन्तमूर्व विनयति भूर्भुवः स्वरित्यनेन मन्त्रेण । विनयामीत्यध्याहारः साकावृत्त्वात् । 'प्रतिमहाव्याहृतिभिर्वा : विनयनम् । वाशब्दो विकल्पार्थः । ' त्रिवृत...."भवेति । निवृतदेशं प्रतिवेण्याख्यं तस्मिन्नेतान्यावन्नाति अयमूर्जावतो वृक्ष इत्यनेन मन्त्रेण । अथाह 'वीणागा..."रतर इति । ततश्च तो राजसंबपि सोत्साहाँ गायतः यो वाऽग्यन्यः कश्चिद्वीरतरस्तमिति । विकल्पोऽयम् । ' नियुक्ता..... जेमा इति । एके आचार्या एनां गाथामुपोदाहरन्ति एके नेति विकल्पः । असाविति च नामादेशः । ' या नदीमुपावसिता भवति तस्या नाम गृहाति । ततो ब्राह्मणभोजनम् । ॥ * ॥ १५ ॥ *॥
(जयरामः )-' अथ सीमन्तोन्नयनं ' व्याख्यास्यत इति सूत्रशेपः । सीमन्तोन्नयनमिति । संस्कारः । स च गर्भस्य तनावे भवति तदभावे चाभाव इति । अत एव प्रतिगर्भ क्रियत इति केचित् । 'पुंसवनवदिति ' चन्द्रयुक्तपुन्नक्षत्रे उपवासाप्लावनाहतवासःपरिधापनान्येव भवन्ति नतु सर्वम् । तच्च प्रथमगर्भ पाठेऽष्टमे वा मासि द्वितीयादिष्वनियमः । अपरे तु प्रथम एव गर्भे इत्याहुः । नैतत् द्वितीयादिगर्भाणां तत्संस्कारलोपापत्तेः। 'तिलेति तिलमुन्द्रयोः स्थालीपाके मिश्रणमात्रं न तत्प्राधान्यम् मिश्रणोपदेशात् तेनैव स्थालीपाकेनाज्यभागमहाव्याहृत्यन्तराले प्राजापत्यस्विष्टकृतौ हुत्वा प्राड्महाव्याहृतिभ्यः स्त्रिष्टकदित्युक्तत्वात् । पश्चादग्नेरित्येवमादिसर्वमागन्तुत्वात् प्राशनान्ते भवति । मद्रपीठं मृदुपीठं तत्रोपविष्टायाः स्त्रियाः येण्या निःश्वेता वीरतरशकुः शरेषी पूर्ण सूत्रेण चात्रं तर्कुः युग्मेन द्वयादियुगलसङ्ख्यान्वितेन सटालुअप्सेन आमफलैकस्तवकनि
१ आश्वत्थेन शकुना।