________________
कण्डिका] प्रथमकाण्डम् ।
१४५ रोहन्ति जायन्ते इत्यवरोहास्तान शुडान् तदग्रपल्लवान् मुकुलाकारान् सांनिध्याचकारोऽवरोहसमुच्यार्थः ततश्चोभयं रात्रौ पूर्ववत् गर्भधारणार्थोक्तवत् पिष्टा पूर्ववदेव आसेचनं भर्तुः दक्षिणनासारन्ने। मन्त्रविशेषमाह-हिरण्य 'शुञ्चैके' एके आचार्याः न्यग्रोधावरोहशुढेपु पिष्यमाणेपु कुशस्य कण्टकं मूलं सोमांडु सोमलताखण्डं च प्रक्षिपन्ति तत्पक्षे द्रव्यचतुष्टयपेषणम् । 'कूर्मपि 'कमेभ्यः अन्न काम्यमाह स भर्ता यदि कामयेत अयं गर्भः वीर्यवान् शक्तिमान् स्यादितीच्छेन् तदा अस्या भार्यायाः उपस्थे उत्सङ्गे कूर्मपित्तं जलपूर्णशरावं कृत्वा निघाय विकृत्या विकृतिच्छन्दस्कया सुपर्णोऽसीत्यनया ऋचा स्वः पतेत्यन्तया एनं गर्भमभिमन्त्रयते हस्तेन गर्भाशयं स्पृष्ट्वा मन्त्रं जपतीत्यर्थः विष्णुक्रमेभ्यो विष्णुक्रममन्त्रेभ्यः प्राक् पूर्व याद्विकृतेः परिमाणमिति सूत्रार्थः ॥ ॥ अथ प्रयोगः । तत्र गर्भाधानप्रभृति द्वितीये तृतीये वा मासे यस्मिन्दिने पुनक्षत्रयुक्तम्चन्द्रस्तस्मिन्नहनि गर्भिणीमुपवासं कारयित्वा मातृपूजाभ्युदयिकं विधाय तां नापयित्वाऽहते वाससी परिधाप्य रात्रौं न्यग्रोधावरोहान्छुडांश्च उदकेन पिष्ट्वा पक्षे कुशकण्टकं सोमांशुं च तन्नासिकाया दक्षिणपुटे आसिञ्चति भर्ता हिरण्यगर्भोऽझ्यः संमृत इति अग्भ्याम् । स यदीच्छेन् वीर्यवान्त्स्यादयं गर्भस्तदा तस्याः स्त्रियाः उदकपूर्ण शरावमुपस्थे कृत्वा सुपर्णोऽसीत्यनया विष्णोः क्रमोऽसीत्येतत्प्राक्पठितया विकृत्या ऋचाऽन्तर्गर्भमभिमन्त्रयते पिता । इति प्रयोगः ॥ १४ ॥ ॥ * ॥
(गदाधरः) -' अथ पुठ....."तीये वा ' पुंसवनमिति गर्भसंस्कारकर्मणो नामघेयम् । तच्च स्पन्दते पुरा स्पन्दिष्यते चलिष्यति यावत्पुरानिपातयोलडिति च भविष्यदर्थे वर्तमानवत्प्रयोगः । पुरा गर्भस्पन्दनात् भवतीति हेतोः शुद्धे द्वितीये वा मासे तृतीये वा मासे गर्भाधानाद्भवति प्रथमे मासे वा पूर्णे भवति द्वितीये वा तृतीये वेति भर्तृयज्ञः । तथा हेमाद्रौ यमः-प्रथमे मासि द्वितीये वा तृतीये वा यदा पुन्नक्षत्रेण चन्द्रमा युक्तः स्यादिति । गर्भसंस्कारत्वाव्यतिगर्भमावर्तनीयमेतत् । तथा कारिकायाम् -गर्भसंस्कार एवायमिति कर्कस्य संमतिः । अतस्तद्गर्भसंस्काराद्र्भ गर्म प्रयुज्यत इति । वढचकारिकायामप्येवम् । कालातिक्रमे स्पन्दितेऽपि कार्यमेव । तदुक्तं कारिकायाम-एतदेव पुरा गर्भचलनादकृतं यदि । सीमन्तात्नाग्विधातव्यं सन्दितेऽपि वृहस्पतिरिति । यदह'इत्येताभ्याम् ' मासे द्वितीये तृतीये वा यस्मिन्नहनि पुंसा पुन्नामनक्षत्रेण पुष्यादिना नक्षत्रेण चन्द्रमा युक्तो भवति तदहस्तस्मिन्दिने गर्भिणीमुपवास्यानाशयित्वा आप्लान्य नापयित्वा अहते वाससी परिधाप्य च न्यग्रोधो वटस्तस्यावरोहान् अव अधः रोहन्तीति तथा तान् शुङ्गान् अळकुरान्सनिधानावटस्यैव, चकारः समुच्चये हिरण्यगर्भोऽद्भ्यः संभृत इत्येताभ्यामृग्भ्याम् । हिरण्यगर्भोऽभ्यः संमृत इत्येताभ्यामासिच्यमाने समुचिताभ्यामासेचनं प्राप्नोति तन्मा भूदिति यत्नः क्रियते एताभ्यां पृथग्भूताभ्यां प्रत्यूचमासेचनमिति भर्तृयज्ञः । पुनक्षत्राणि च रनकोशे दर्शितानि-हस्तो मूलं श्रवणः पुनर्वसुभृगशिरः पुष्यमिति । अनुराधाऽपि पुन्नक्षत्रम् । अनुराधान्हविषावर्द्धयन्त इति श्रुतेः । ज्योतिःशास्त्रेऽप्येवम् । 'कुशकण्टकठ सोमा झुंचैके' कुशकण्टकं कुशमूलं सोमांशुं सोमलताखण्डं च पिष्यमाणेषु न्यग्रोधावरोहशुङ्गेपु प्रक्षिपन्त्येके आचार्याः । अस्मिन्पक्षे द्रव्यचतुष्टयस्य पेषणम् , एकग्रहणाद्विकल्पः । काम्यमाह- कूर्मपि..."क्रमेभ्यः । स भर्ता यदि कामयेत अयं गभों वीर्यवान् शक्तिमान् भवतु तदा अस्याः स्त्रिया उपस्थे उत्स) अङ्के उदपूर्ण भरावं निघाय मुक्त्वा विकृत्या विकृतिच्छन्दस्कया ऋचा एनं गर्भमभिमन्यते गर्भिण्या उदरं विकृत्या अनामिकाप्रेण स्पृशन् विलोकयित्वा वा मन्त्रं पठतीत्यर्थः । तदुक्तं कात्यायनेन स्पृशस्त्वनामिकाग्रेण क्वचिदालोकयन्नपि । अनुमन्त्रणीयं सर्वत्र सदैवमनुमन्त्रयेदिति । अभिमन्त्रणानुमन्त्रणयोर्न