________________
१४४ पारस्करगृह्यसूत्रम् ।
[ चतुर्दशी वेनेतरा व्यथेति वाच्यम् अप्रचितदुरितस्थलीयपुत्रलाभस्य तथास्वंऽपि प्रचुरतरदुरितस्थलीयपुत्रोत्पती स्वतन्त्रक्रियाकदम्बकस्य हेतुत्वादिति ॥ त्रयोदशी कण्डिका ।। १३ ॥ ___ अथ पुठसिवनम् ॥ १ ॥ पुरा स्पन्दत इति मासे द्वितीये तृतीये वा ॥२॥ यदहः पुठ-सा नक्षत्रेण चन्द्रमा युध्येत तदहरुपवास्याप्लाव्याहते वाससी परिधाप्य न्यग्रोधावरोहाञ्छुङ्गाँश्च निशायामुपेपं पिष्ट्वा पूर्ववदासेचन हिरण्यगर्भोऽद्यः संभृत इत्येताभ्याम् ॥ ३ ॥ कुशकण्टकळ सोमाठशु चैके॥ ४ ॥ कूर्मपित्तं चोपस्थे कृत्वा स यदि कामयेत वीर्यवान्स्या दिति विकृत्यैनमभिमन्त्रयते सुपर्णोऽसीति प्राग्विष्णुक्रमेभ्यः ॥५॥१४॥
(कर्क:)-अथ पुटी...."तृतीयेवा ' पुट सवनमिति गर्भसंस्कारकर्मणो नामधेयं, तञ्च पुग गर्भस्पन्दनाद्भवति मासे द्वितीये तृतीये वा । 'यदहः 'त्येताभ्याम् । यस्मिन्नहानि पुसा नक्षत्रेण पुनर्वसुपुण्यादिना चन्द्रमसो योगो भवति तदहस्ता स्त्रियमुपवास्थ स्नापयित्वा चाहतं वाससी परिवाप्य न्यग्रोधावरोहान् न्यग्रोधावलम्बिकान् शुङ्गान्तदड्कुरान् रात्राबुदपेपं पिष्टवा पूर्ववक्षिणस्यां नासिकायामासिञ्चति हिरण्यगर्भोऽद्यःसंभृत इत्येताभ्यामृग्म्याम् 'कुटाक "क्रमेभ्यः' कर्मपित्तशब्दनोदकशरावमुच्यते तदस्याः खिया उपस्थं कृत्वा स यदि कामयेत वीर्यवान् गर्भः स्वादिति तदा विकृत्यैनमभिमन्त्रयते सुपर्णोऽसीति प्राग्विष्णुक्रमेभ्यः ॥ १४ ॥
(जयरामः)अथेति गर्भ धृते, पुंसवनमिति गर्भसंस्कारकर्मणो नामधेयम् । तत्र स्पन्दत पुरा स्पन्दिप्यतं यावत्पुरानिपातयोर्लद् इति भविष्यदर्थे वर्तमानप्रयोगः । पुरा गर्भस्पन्दनावतीति हेतोः शुद्धे द्वितीये वा तृतीये मासे गर्भाधानान यदहः यस्मिन्नहनि पुंसा पुष्यादिना नक्षत्रेण चन्द्रमा युक्तो भवति तदहस्तां त्रियमुपवास्य अनाशयित्वा आप्लान्य स्नापयित्वा अहते वाससी परिधाप्य च न्यग्रोवो वट. तस्यावरोहान् अब अयः गेहन्तीति तथा तान् शुङ्गान् :ड्कुिरान् संनिधानावटस्यैव गत्रौ उपपम् मलिलं यथा भवत्येवं पिष्टवा पूर्ववक्षिणनासिकायामासिञ्चति । हिरण्यगर्भोऽजयःसंभृत इत्येताभ्यामृग्भ्याम् । तत्राद्याया: हिरण्यगर्भः प्रजापतिरुभयोस्त्रिष्टुप् अन्त्यायाः पुरुषो नारायण आदित्यः संके० कुशकण्टकं कुशमूलम् सोमांशुं सोमलताखण्डं च पिण्यमाणेपु प्रक्षिपन्त्येके एके नेति विकल्पः । काम्यमाह- कूर्मपित्तम् ' इति । कूर्मपित्तशब्दनोदकयुक्तशगवमुच्यत तदस्या उपस्थे भगे कृत्वा निधाय भर्ता विकृया विशिष्टया कृत्या कृतिछन्दस्कया सुपर्णोऽसीत्यादिस्व.पतेत्यन्तया एनं गर्भमभिमन्त्रयते तत् स्पृष्ट्वा मन्त्रं जपतीत्यर्थः विशिष्टत्वं चतुरवसानत्वम् तत्र प्रजापतिः कृतिर्गरुत्मान् मन्त्रणे० विष्णुक्रमेम्यः विष्णुक्रममन्त्रेभ्यः प्राकू पूर्व यावद्विकृतेः परिमाणमित्यर्थः । ॥ १४ ॥
(हरिहरः)-'अथ पुर्डन्सवनम् । अथावसरप्राप्तं पुंसवनाख्यं गर्भसंस्कारकं कर्म व्याख्यास्यते। 'पुरास्पन्दत इति' पुरा अग्रे स्पन्दते चलिष्यति । यावत्पुरा निपातयोर्लडिति पुरायोगे भविष्यार्थे वर्तमानप्रयोगः । इति हेतोः। 'मासे द्विती"युज्येत गर्भधारणकालात् द्वितीये तृतीये वा मासे यस्मिन्नहनि पुट सा पुरुषनाम्ना पुप्यादिनक्षत्रेण उडुना शशी युक्तो भवेत् । 'तद्ह "धाप्य तस्मिन्नहनि उपवास्य भोजनमकारयित्वा भार्यामाप्लान्य नापयित्वा अहते नवे सदशे सकृत्प्रक्षालिते वाससी अन्तरीयोत्तरीये द्वे परिधाप्य परिधान कारयित्वा। 'न्यगोधा 'सेचनम् न्यग्रोधस्य वटस्य अवरोहान् अवाचीनम् अध.