________________
कण्डिका] प्रथमकाण्डम् ।
१४३ (जयरामः )—सा व्यूढा गर्भकामा वा । यदि गर्भ नादधीत न धारयति तदोपचारः प्रोच्यते सिंही कण्टकारिकेति यावत् । तस्याः किंभूतायाः श्वेतपुष्ष्याः सितकुसुमायाः मूलं पुष्येण नक्षत्रेण उपोष्य किमप्यभक्षयित्वा उत्थाप्योत्पाट्य चतुर्थेऽहनि स्नाता चतुर्थस्नाता तस्यां दक्षिणस्यां नासिकायामासिञ्चति भर्ता इयमोषधीति मन्त्रेण । मन्त्रमाह इयमोषधीरिति । अस्यार्थः। तत्र प्रजा. पतिवृहती ओषधी आसेचने० । ओषति दहति दोषान् धत्ते गुणानित्योषधी इयं त्रायमाणा यथोक्तप्रयोक्तृन रक्षन्ती । सहमाना दोपवेगान् सोदाऽपि नाशयन्तीत्यर्थः । सरस्वती सरति कारणतयाऽनुगच्छतीति सरः समुद्रः तद्वती तत्संबद्धा अतः अस्याः बृहत्याः वहुफलायाः बृहयति पुत्रादिदानेनेति वा तस्याः प्रभावात् । अहं पितुर्जनकस्य नाम अहमस्य पुत्र इति जयभं गृहीतवानस्मि । तथाऽयं पुनोऽप्युत्पत्स्यमानोऽहमस्य पुत्र इति मम नाम गृहात्विति शेपः ।। १३ ।। * ॥ * ॥ (हरिहरः)-'सा यदि गर्भ न दधीतः सा भार्या यदि चेत् गर्भ न धारयेत् '
सिंह्या "मासिञ्चति' गर्भधारणोपायमाह-सिह्याः कण्टकारिकायाः कथंभूतायाः श्वेतपुष्प्याः श्वेतानि पुष्पाणि यस्याः सा श्वेतपुष्पी तस्या उपोष्य उपवासं कृत्वा पुष्येण चन्द्रमसा युक्तेन पुष्यनक्षत्रेण मूलं शिफामुत्थाप्य उद्धृत्य रजोदर्शनाचतुर्थेऽहनि स्नातायां भार्यायां रात्रौ उपपं यथा भवति तथा तन्मूलं उदकेन पिष्टा द्रवीभावमापायेत्यर्थः दक्षिणस्यां नासिकायां दक्षिणे नासारन्ब्रे सिञ्चति प्रक्षिपति भर्ता 'इयमोष...""भम्' इत्यनेन मन्त्रेण ॥ १३ ॥ * ॥
(गदाधरः)-'सा यदि " जप्रभमिति' सा व्यूढा स्त्री गर्मकामा यदि गर्भ न दधीत न धारयति तदा भर्ता सिह्याः श्वेतपुष्ष्याः सिंहीति रिडणी कण्टकारिकापरपर्याया श्वेतानि पुष्पाणि यस्याः सा श्वेतपुष्पी तस्याः उपोष्य पुष्यनक्षत्रदिनात्पूर्वदिने स्वयमुपवासं कृत्वा पुष्येण मूलमुत्याप्य पुप्यनक्षत्रदिने पूर्वोक्तायाः कण्टकारिकायाः मूलमुत्पाब्य यत्नेन स्थापयित्वा ऋतुयुक्ता यदा भार्या भवति तदा चतुर्थेऽहनि स्नातायां रात्रौ तन्मूलमुकेन पिष्टा पेषयित्वा दक्षिणनासिकापुटे आसिश्वति इयमोपधी त्रायमाणेत्यनेन मन्त्रेण भव । ततो भर्ना भोजनं कार्यमिति गर्गपद्धतौ । मन्त्रार्थःओषति दहति दोपान् धत्ते गुणानित्योषधी इयं त्रायमाणा यथोक्तायुक्ता रक्षन्ती सहमाना दोपवेगान् सोदाऽपि नाशयन्तीत्यर्थः । सरति कारणवयाऽनुगच्छति इति सरः समुद्रस्तद्वती तत्सं बद्धा अतः अस्या वृहत्याः महत्याः यति पुत्रादिदानेन वा तस्याः प्रभावाचाहं पुत्रः पितुरयमित्यहं नाम जग्रभम् गृह्णीयां लभेयं प्राप्नुयां पुत्रस्य पितेति लोकाः कथयन्ति । सुगमत्वादत्र पदार्थक्रमो नोच्यते । त्रयोदशी कण्डिका ॥ १३ ॥
(विश्व०)-भार्या चेद्भै न धारयेत् तत्रोपायमाह 'सिह्याः "मासिंचति सिरह्याः कण्टकारिकाया लोकप्रसिद्धायाः उपोष्य पुष्यचन्द्रमसोयोगापूर्वदिने उपवासं कृत्वा पुष्येण युक्तञ्चन्द्रो यस्मिन् दिने तस्मिन्नाप्लान्येष्टदेवतांस्मृत्वा पुत्रकामः प्राङ्मुख उपविश्य तस्याः मूलमुत्थाप्य स्त्रगृहे समानीय रक्षयेत्। ततः रजोदर्शनानन्तरं चतुर्थेऽहनि स्नातायां भार्यायां रात्राबुदपेपं यथा भवति तथा पिष्टवा तस्याः मूलमुदकेन द्रवीभूतमापाद्य भार्यायाः दक्षिणे नासारन्ने क्षारयति भर्ता । तत्र मन्त्रमाह ' इयमोषधी त्रायमाणा सहमाना सरस्वती । अस्या अहं वृहत्याः पुत्रः पितुरिव नाम जग्रभमितिः ॥ नच पिण्डाशनसाधनावरुद्ध एतत्साधनान्वयो न विकल्पमन्तरा व्रीहियवयोरिव तथा चोभयत्र कथं शास्त्रार्थतेति वाच्यम् । उद्देश्यतया स्वर्गवदतत्कृत्यसाध्यत्वात् क्रियामेदाच । अत एव पुत्रोत्पत्तिप्रतिवन्धकटुरितनिवृत्तिरेव कारीरीवदेतक्रियासाध्या । अत एव प्रचितदुरितशङ्कया हरिवंशश्रवणादेरपि हेतुत्वमिति । न चैवं क्रियाजन्यापूर्वस्यैव विहितप्रधानजन्यापूर्वतया फलसंपादकाशेपसामग्रीसंपादकतया फलावश्यंभा