________________
१४२ पारस्करगृह्यसूत्रम् ।
[त्रयोदशी दर्श अग्नये विष्णव इन्द्राग्निभ्यां ब्रह्मण इत्यादिग्रहणादौ प्रयोगः । दीक्षितस्य तु अग्नयेऽग्नीषोमाभ्यामिन्द्राय ब्रह्मणे प्रजापतय इत्यादिप्रयोगः अग्निरनीषोमावग्नीषोमौ एताः पौर्णमासदेवताः । ताभ्यो हुत्वा ब्रह्मण इत्यादिसूत्रोक्तदेवताभ्यो जुहोतीत्यर्थः । होमश्वायं स्थालीपाकेन । भानोर्मयूखाः यदा तरूणामयाणि स्पृशन्ति स होमकालः । दर्शपौर्णमासदेवताभ्य उदक्संस्थमाहुतित्रयं हुत्वा प्रथमाहुतिसंलग्नमाहुतिचतुष्टयं प्राक्संस्थं ब्रह्मण इत्यादिकं जुहुयात् । त्यागस्तु इदमग्नये, इदमग्नीषोमाभ्यां, इदं ब्रह्मणे, इदंप्रजापतये, इदं विश्वेभ्योदेवेभ्यः, इदं द्यावापृथिवीभ्यां । दशैं तु इदमग्नये इदं विष्णवे इदमिन्द्राग्निभ्याम् । दीक्षितस्य तु इदमग्नये इदमग्नीषोमाभ्याम् इदमिन्द्राय । ततः ब्रह्मण इत्याद्याहुतिचतुष्टयम् । विश्वेभ्यो देवेभ्यो वलिहरणं भूतगृह्येभ्य आकाशाय चेति सूत्रम् । हरणं दानं, तचैव-चरोरुत्तरतः प्राक्संस्थमुदक्संस्थं वा विश्वेभ्यो देवेभ्यो नमः इदं विश्वेभ्यो देवेभ्यः । भूतगृह्येभ्यो नमः इदं भूतगृह्येभ्यः । आकाशाय नमः इदमाकाशाय । समुच्चयार्थश्चकारः । वैश्वदेवस्याग्नौ जुहोत्सग्नये स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा अग्नये स्विष्टकृते स्वाहेति । द्वितीयाहुतिसंलग्नाः प्राक्संस्थास्तिस्रः । उभयोरुत्तरांशात् गृहीत्वोन्तराधे स्विष्टकृद्धोमः । होमत्वप्रतिपत्तयेऽग्निपद, प्रयोग. पूर्ववत् । वाह्यतः स्त्रीवलिर हरति नमः स्त्रियै नमः पुर से वयसे नमः शुक्लायकृष्णदन्ताय पापीनां पतये नमो ये मे प्रजामुपलोभयन्ति प्रामे वसन्त उत वारण्ये तेभ्यो नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजा मे ददत्विति सूत्रम् । अग्न्यगाराद्वाह्यतः ख्यादिभ्यो वलिः । जात्याख्यायामेकवचनम् । हरति ददाति । नमःपदारम्भाः पञ्चमन्त्रा इत्येके । चत्वार इसन्ये । तन्मते आद्याभ्यामेकः । नम:स्थाने इदंपदाध्याहारेण त्यागाः ।प्राञ्च्युदश्चि कर्माणीति कात्यायनोक्तेः प्राक्संस्थता उदकसंस्थता वा ध्येया । ' शेषमन्तिः प्रप्लान्य ततो ब्राह्मणभोजनम् । ततः शेषसमात्यनन्तरं कर्मापवर्गान्ते ब्राह्मणस्य भोजनमित्यर्थः । शेषसमाप्तिश्चैवं-महाव्याहृत्यादिप्राजापत्यान्ता नवाहुतयः ततः संस्रवप्राशनं, मार्जनं, पवित्रप्रतिपत्तिः, ब्रह्मणे पूर्णपात्रदान, सर्वप्रायश्चित्तहोमः, वहिहोमः प्रणीताविमोकः कर्मापवर्गसमित्प्रक्षेपः उत्सर्जनं ब्रह्मणः, उपयमनकुशस्याग्नौ प्रक्षेपः ब्राह्मणभोजनमिति । तदनन्तरं वैश्वदेवो द्वितीयचरुणा आद्यस्याप्लुतत्वात् ॥ ॥आवृत्तियोग्यानि कर्माणि लिख्यन्ते-सायंप्रातोमः पञ्चमहायज्ञाः पक्षादिद्वयं पिण्डपितृयज्ञः अनन्तरं पिण्डान्वाहार्यकं श्राद्धं श्राद्धकल्पविधानेन आग्रयणद्वयम् अष्टकाश्चतस्रः उपाकर्म उत्सर्गश्च, एतानि यावजीवं यथाकालमावृत्त्या कर्तव्यानि । अवणाकर्मादेः सकृदेव प्रयोगः । तेषामप्यावर्तनमित्यन्ये । द्वादशी कण्डिका ।। १२ ।।
सा यदि गर्भ न दधीत सिह्याः श्वेतपुप्प्या उपोष्य पुष्येण मूलमुत्थाप्य चतुर्थेऽहनि स्नातायां निशायामुदपेष पिष्ट्वा दक्षिणस्यां नासिकायामासिवति । इयमोषधी त्रायमाणा सहमाना सरस्वती अस्या अहं बृहत्याः पुत्रः पितुरिव नाम जग्रभमिति ॥ १ ॥ १३ ॥ १ ॥
(कर्कः)-सा यदि....."त्रायमाणेति । सेति शन्देन या सा व्यूढा सोच्यते यद्यसौ गर्भ न धारयति तर्हि सिध्याः श्वेतपुष्प्याः सिंहीति रिगणिकोच्यते कण्टालिकेति लोकप्रसिद्धा तस्या उपोप्य पुप्येण नक्षत्रेण मूलमुत्थाप्य चतुर्थेऽहनि स्लातायां रात्रावुदपेपं पिष्टा दक्षिणस्यां नासिकायामासिञ्चतीयमोपधी त्रायमाणेत्यनेन मन्त्रेण ॥ १३ ॥ * ॥ * ॥