SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ कण्डिका] प्रथमकाण्डम् । १४१ सकृदाच्छिन्नानि सूत्राणि ऊर्णादशा वा वयस्युत्तरे यजमानलोमानि वा। ततोऽग्नेः प्रतीच्या स्क्योपहितमोषधीकरणम् । अत्र सर्व प्राचीनावीतिना दक्षिणामुखेन कर्तव्यम् । पितॄन् ध्यात्वा शूपेऽग्निहोत्रहवण्यां पितृतीर्थेन मुष्टिचतुष्टयग्रहणमथवा स्थाल्यामेव ग्रहणं नाग्निहोत्रहवण्याम् । अस्मिपक्षेऽग्निहोत्रहवणीं नासादयेत् । ततोऽग्नेरपरेणासादनम् । अग्नरुत्तरतः कृष्णाजिनास्तरणमुदग्ग्रीवमुत्तरलोम, सव्याशून्यनोलूखलनिधानं, व्रीहीनोप्य मुसलमादाय दक्षिणाभिमुखस्य तिष्टतः पितृतीर्थेनावितुषीभावं कण्डनम् ततः शूर्षे न्युप्य निष्पूय तुपान् पृथकृत्वा पुनः कण्डनं सकृत्फलीकरणं स्थाल्यां तण्डुलप्रक्षेपः, सकृत्प्रक्षालनं, द्वितीयोदकेनाधिश्रयणम् अपूर्ण अपयित्वाभिघार्योद्वास्याग्नेः पश्चिमत आसादनम् तिष्ठन्समिश्रयमग्नावाधायोपविश्य सव्यं कृत्वा मेक्ष्णेन होमः । तत्र मन्त्रःअग्नये कव्यवाहनाय स्वाहा इदमग्नये कव्यवाहनाय सोपाय पितृमते स्वाहा इदं सोमायपितृमते । ततो मेक्षणमग्नौ प्रक्षिप्याऽपसव्यं कृत्वाग्नेर्दक्षिणतः पश्चाद्वा स्स्येन दक्षिणायां रेखामपहता इत्युल्लिखेत् । उदकस्पर्शः । उल्मुकं पुरस्तात्करोति येरुपाणीति ! उदपात्रमादाय सव्यं जान्वाच्य रेखामूलमथ्याग्रेपु पित्रादित्रितयायावनेजनं दद्यात् । अमुकसगोत्र पितः अमुकशर्मन् अवनेनिज्वेति पित्रे एवं पितामहप्रपितामहयोः । तत उपमूलं सकृदाच्छिन्नानि लेखायां कृत्वा यथावनिक्तं पिण्डदानम् अमुकसगोत्र पितः अमुकशर्मन्नेतत्ते इति । एवं पितासहप्रपितामहयोः । अत्र पितर इत्युक्त्वोडास्त आतमनादावृत्यामीमदन्तेति जपत्यवनेज्य पूर्ववन्नीवी विस्रस्य नमो व इति पञ्सलीन्कृत्वा गृहान्न इति जपति । एतद्व इत्युपास्यति सूत्राणि प्रतिपिण्डमूर्णादशा वा वयस्युत्तरे यजमानलोमानि वोर्जमित्युदपावस्था अपो निषिञ्चति पिण्डसन्निधौ । स्थाल्यां पिण्डावधानमवत्राणमुल्मुकसकृदाच्छिनानामग्नौ प्रक्षेपः । अध्वर्युकर्तृकत्वे विशेषः । पितृपदात्पूर्व यजमानस्येति प्रयोगः यजमानस्य पितरित्येवं, त्यागावत्राणयोरभावः । अन्यत्प्रकृतिवत् । यजमानपत्नी चेत्सुत्रकामा तदाऽवत्त इतिमन्त्रेणानवनातं मध्यमपिण्डं भक्षयति । जीवत्पितृकस्य होमान्तोऽयमनारम्भो वा । केचित्तु पक्षाद्यद्धता पिण्डपितृयज्ञस्येच्छन्ति । तन्न अनङ्गहेतोरङ्गहेतुत्वानुपपत्तेः । इति पिण्डपितृयज्ञः ।। ।। ततः पिण्डान्वाहार्यकं श्राद्धमग्नौकरणसहितं श्राद्धकल्पोक्तम् । ततः प्रातः स्थालीपाकमित्यादि सौत्रं पक्षादिकर्म । तत्र प्रथमप्रयोगे पौर्णमास्यां मातृपूजनपूर्वकमाभ्युदयिक, ततोऽन्वारम्भणीयेष्टिदेवताकश्चरः, दर्विहोमेष पौर्णमासधर्मातिदेशात् । तत्र ब्रह्मासनाद्याज्यभागान्ते विशेपः-अग्नाविष्णुभ्यां सरस्वत्यै सरस्वते जुष्टं गृहामीति ग्रहणे, प्रोक्षणे त्वाशब्दोऽधिकः । तत आज्यभागानन्तरं स्थालीपाकहोमः । अग्नाविष्णुभ्यां स्वाहा इदमग्नाविष्णुभ्याम् । सरस्वत्यै स्वाहा इदं सरस्वत्यै । सरस्वते स्वाहा इदं सरस्वते । अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृते । ततो महाव्याहृत्यादिब्राह्मणभोजनान्तं ततो वैश्वदेवः । प्रथमप्रयोगेऽयं विशेषः पौर्णमास्यां, ततः प्रतिपदि प्रातः सौत्रं स्थालीपाकर अपयित्वेत्यादि पक्षादिकर्म । तत्र वैश्वदेवस्येस्यादिसौत्रहोमस्य चरुसाध्यत्वात्स्थालीपाकमित्यत्रैकत्वं न विवक्षितमित्याचार्याः । अन्ये तु स्थालीपाकमित्यत्रैकत्वं विवक्षितमेव । वैश्वदेवश्च प्राक् सिद्ध एवासाद्यः वृपोत्सर्गे पौष्णवदित्याहुः । आचार्यमते तु पौष्णश्चरुः पक्षसम एवेति ध्येयम् । तथाच दक्षिणतो ब्रह्मासनेत्यादि प्रातहोंमानन्तरं परिभापोक्तविधिना स्थालीपाको अपयित्वा आज्यभागान्तं कुर्यात् । तत्र विशेष:-आसादने चरुम्थालीद्वयं, ग्रहणे अग्नयेऽग्नीषोमाभ्यामनीपोमाभ्यां ब्रह्मणे प्रजापतये विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यां जुष्टं गृहामि, अग्नये प्रजापतये विश्वेभ्यो देवेभ्यो जुष्टं गृहामीति द्वितीयचरोहिणं प्रोक्षणं पूर्ववत् । अन्यत्प्रकृतिवदाज्यभागान्तम् । तत आज्यभागानन्तरं दर्शपौर्णमासदेवताभ्यो हुत्वा द्वन्द्वश्चात्र समासः । द्वन्द्वान्ते श्रूयमाणत्वाहेवतापदस्य प्रत्येकं संबन्धः । अग्निर्विष्णुरिन्द्राग्नी इत्येताः दर्शदेवता: । सान्नाय्ययाजिनस्तु अग्न्यनन्तरं विष्णुस्थानापन्नावग्नीषोमौ इन्द्राग्निप्रतिनिधिश्वेन्द्रः
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy