________________
१४०
पारस्करगृह्यसूत्रम् ।
[ द्वादशी
}
अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते । यज्ञपार्श्वः -- अर्धे चतुर्दशी यत्र परे पञ्चदशी भवेत् । चतुर्दश्वसाने तु पितृयज्ञं तु कारयेत् | हारीतः - यस्यां संध्यागतः सोमो मृणालभित्र दृश्यते । ais tatri fपण्डानां करणं स्मृतं । यदैवैप न पुरस्तान्नपञ्चादरशेथेभ्यो ददातीति श्रुतिः । चन्द्रक्ष्यकालः --- अष्टमेशे चतुर्दश्याः क्षीणो भवति चन्द्रमाः । अमावास्याष्टमांशे च पुनः किल भवेदणुः । यत्रोक्तं दृश्यमानेऽपि तच्चतुर्दश्यपेक्षया । अमावास्यां प्रतीक्षेद्वा तद्न्ते वापि निर्वपेत् । इति । वृद्धवसिष्ठः - इन्दौ निरुप्ते हविषि पुरस्तादुदिते विधौ । यद्वैगुण्यं हुते तस्मिन् पश्चादपि हि तद्भवेदिति । तथा । त्रिमुहूर्ता द्वितीया चेत्प्रतिपद्या पराह्निकी । अन्वाधानं चतुर्दश्यां परतः सोमदर्शनादिति । तथा - पञ्चमी यत्र संपूर्णा द्वितीया क्षयगामिनी । चरुरिष्टिरमावास्यां भूते कव्यादिकी क्रियेति । तथा- चतुर्दशीचतुर्यामे अमा यत्र न दृश्यते । श्वोभूते प्रतिपद्यत्र भूते कव्यादिकी क्रियेति । तथा -- यज्ञकालस्तिथिद्वैधे षट्कलो यदि लभ्यते । पर्व तत्रोत्तरं कार्य हीने पूर्वमुपक्रमेदिति । तथा । पर्वणोशे तृतीयेऽपि कर्तव्येष्टिद्विजातिभिः । द्वितीयासहितं यस्माद्दूपयत्याश्वलायनः । पर्वमध्ये इष्टि पक्षादिकरणेऽपि तत्समापनं प्रतिपदि प्रविष्टायामेव कर्तव्यम् । कालनिर्णयदीपिकायां --- पर्वणि त्वपि यजौ तत्पूरणं पक्षताविति । अन्यथा तु प्रतिपद्यप्रविष्टायां यदि त्विष्टिः समाप्यते । पुनः प्रणीय कृत्स्नेष्टिः कर्तव्या सानिकैर्द्विजैरिति । वृद्धौ तु - वर्धमानाममावास्यां लभेच्चेदपरेऽहनि । यामांस्त्रीनधिकान्वापि पितृयज्ञस्ततो भवेदिति । इति पर्वनिर्णयः ॥ ॥ अत्र पूर्वी पौर्णमासीमुत्तरां वेत्यत्र कात्यायनोक्तौ उपपूर्वस्य भुक्त्यर्थस्य वसतेराधारस्य कर्मत्वाद्वितीयोपपत्तिः । उत्तरोपवासपक्षाश्रयणे तु प्रत्याशनसायाशनाऽग्न्यगार शयनानां रागप्राप्तानां स यदेवाशितमनशितं तदश्नीयादारण्यमेव वाश्रीयादधः शयीतेत्यादिना नियमनात्प्रकृते च तदभावात्तेषां वाधः । पूर्वोपवासपक्षाश्रयणे पुनर्यथा चान्द्रायणमुपवसेदित्यत्र शास्त्रपरिगृहीतनियमवतः परिमाणविशेषावच्छिन्नद्रव्याशनमुपपूर्वस्य वसतेरर्थः । तथा प्रकृतेऽपि मैथुनमांसादिवर्जनयुक्तस्य गृहीताः सत्यवदन तावैगुण्याय व्रत्याशनं लिङथेः । पुलस्त्यः -- सकृत्पर्वणि सर्पिष्मद्धविष्यं लघु भोजनम् । न सायं नोपवासः स्यात्तैलामिपविवर्जितम् । कात्यायनोऽपि --- अपराह्ने व्रतोपायनीयमश्रीतः सर्पिपाऽसुहितौ । असुहितावतृप्तौ क्रियाविशेषणमेतत् । एतच्च पौर्णमास्यामेव न त्वमावास्यायाम् । स वै पौर्णमासेनेोपवत्स्यन्नसन्त्रासुहित इव स्यादिति शतपथे श्रुतत्वात् । तच्च देवेभ्यो यन्न दातव्यं स यदेवाशितमित्याद्युपक्रम्य यस्य वै हविर्भ गृह्णाति तदश्नीयादिति श्रुतत्वात् घृतोपसिक्ता मुद्रा भुज्यन्त इति संप्रदायः । व्रत्याहवर्ज्यमाह कात्यायनः --- शाकं मांसं मसूरं च चणकं कोरदूपकान् । मापान्मधु परान्नं वर्जयेदौपवसथ्यके । लत्रणं मधु मांसं च क्षारांशो येन हूयते । उपवासे न भुञ्जीत नच रात्रौ न किचनेति । तथा । तिलमुद्गाते सेव्यं सत्ये गोधूमकोद्रवौ । चीनकं देवधान्यं च सर्वशाकं तथैक्षवम् । सज्जीक्षारं यवक्षारं टङ्कणक्षारमेव च । व्रतस्थो वर्जयेन्नित्यं सामुद्रं लवणं तथा । इति । सामुद्रलवणस्य प्रतिषिद्धत्वात्सैन्धवादेरुपादानं केचिदिच्छन्ति । एतच्च प्रत्याशनं वपनपक्षे वपनानन्तरं मांसमैथुने संकल्पपूर्वं परित्यज्य केशग्मश्रु वापयित्वा भुञ्जीत व्रत्यम् । अहनि मा समैथुने वर्जयेत्केशश्मश्रु वपते वाऽशिखमपराहे व्रतोपायनीयमश्रीतः सर्पिपाऽसुहिताविति क्रमस्य दृष्टत्वात् । केचित्तु वपनस्यावश्यकतामाहुः । तदनन्तरं सत्यवदनसंकल्पं कृत्वा रात्रावधः शयनं अग्निसमीपे यजमानस्य । एतावद्रत्याहकृत्यम् । अमावास्याचेदनाहिताग्नेरप्येष इत्युक्तत्वाद्वैश्वदेवानन्तरमपराहे पिण्डपितृयज्ञः । तत्र विधि:---- सव्येन परिस्तरणं होमस्य दैवत्वात् । ततोऽपसत्र्यकरणम् । नीविकरणम् । अग्नेरुत्तरतोऽपरेण वा दक्षिणाप्राणा पात्राणामासादनम् । स्पयं, शूर्पमग्निहोत्रहवणी वा चरुस्थाली, ब्रीहयः, कृष्णाजिन मुलूखलं, मुसलं, अपणार्थमुदकं, आज्यं, मेक्षणं, तिलः समिधः, उदपात्रमवने जनाद्यर्थ