________________
१३९
कण्डिका ]
यतानवगमस्तत्र सप्तदशे यागः । तदेतदुक्तं पञ्चदशेपीत्यनुक्तसमुच्चयार्थेनापिना साधितं च दिननाशो यदा भवेदित्यनेन । तथाच सप्तदशेऽपि यष्टव्यं दिनवृद्धिर्यदा भवेदित्यर्थः । एवंच दिन - योनीशे चतुर्दशेऽपि यष्टव्यम् । अत एवाधिकरणं भेदयन्निर्णयान्तरं रचयन्नाह वार्तिककारः --- ' सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् । पूर्वत्रापरितोषो वा विपयव्याप्तिरेव वा ' इति । तेन विषयव्याप्त्यर्थमनुक्तसमुच्चयार्थ एवायमपिशब्दः । निन्दार्थवादस्तु मुख्ये लभ्यमाने जघन्यस्याऽनुपादेयतायोजनार्थमिति कालनिर्णयकारः । अन्ये तु चतुर्दश्यवच्छिन्नायां चतुर्दश्यष्टमांशविरहप्रयुक्तचन्द्रदर्शनसंभवेनोत्तरदिने चापराह्नावच्छिन्नामावास्यालाभे तस्यां व्रतम् । उत्तरदिने प्रतिपदि षट्कलस्य ततो न्यूनस्य यागकालस्य संभवे चन्द्रदर्शने सत्यपि याग इति । तन्मते चन्द्रदर्शन - निषेधस्य पूर्वाह्नमध्याह्नान्यतरकाले पर्वसंधौ प्रमादाञ्चन्द्रदर्शनदिने यागानुष्ठानविषयता । प्रतिप
I
1
पराह्निकद्वितीय परागश्च पञ्चधाविभक्तस्याह्नचतुर्थाशात्मकाऽपराहः परभागः । पट्कल इत्यत्र - लापदार्थों घटिका स्वतात्पर्यविशेषवशात् । तदनुरोधाश्चतुर्दशीचतुर्याम इत्यादिवाक्यान्यध्याहारेण योजयन्ति । चन्द्र दर्शनस्य काचित्कीं दूषणतां मन्यन्त इति चिन्त्यम् । चन्द्रप्रतियोगिकनिविडक्षयावच्छिन्नसमयप्रत्यासन्नतरापराद्वायास्तिथेरुपोष्यत्वमिति हरिस्वामिनः । केचित्तु संशयस्थले उत्तराया एवोपोष्यत्वम् 'उत्तरामुपवसेदनिर्ज्ञायेतिश्रवणात्' इत्याहुः । मध्याह्नात्प्रागपि पर्वप्रतिपत्संधौ सा पौर्णमास्युपोष्येति वाजसनेयिनः । तदुक्तम् - आवर्तनादधः संधिर्यद्यन्वाधाय तद्दिने । परेद्युरिष्टिरित्याहुर्विप्रा वाजसनेयिनः । तथा-संधिश्वेत्संगवादूर्ध्वमर्वागावर्तनाद्भवेत् । सा पौर्णमासी विज्ञेया सद्यस्का - विधौ तिथिरिति। अथ साधारणवाक्यानि पर्वद्व (विप) ये । कालादर्शः --- पर्वप्रतिपदोः संधिर्मध्याह्ने पूर्वतोऽपि वा । अन्वाधानं पूर्वदिने तद्दिने याग इष्यते । परतश्चेत्परत्रेष्टिस्तद्दिनेऽन्वाहितिर्भवेत् । गोभिल:- आवर्तने यदा संधिः पर्वप्रतिपदोर्भवेत् । तदहर्याग इष्येत परतश्चेत्परेहनि । पर्वप्रतिपदोः संधिरर्वागावर्तनाद्यदि । तस्मिन्नहनि यष्टव्यं पूर्वेद्युः स्यादुपक्रमः । लौगाक्षिः - पूर्वाह्ने वाथ मध्याह्ने यदि पर्व समाप्यते । उपोप्य तत्र पूर्वेद्युस्तदहर्याग इष्यते । गोभिल: - आवर्तनात्परः संधिर्यदि तस्मिन्नुपक्रमः । परेद्युरिष्टिरित्येष पर्वद्वयविनिर्णयः । लौगाक्षिरपि -- अपराह्नेऽथवा सायं यदि पर्व समाप्य उपोष्य तस्मिन्नहनि श्वोभूते याग इष्यते । अपराह्नेऽथवा रात्राविति क्वचित्पाठः । एतावत्पद्वयसाधारणम् । तथा संकृष्टे च विकृष्टे च यष्टव्यं षोडशेऽहनि । पञ्चदशेऽपि यष्टव्यं दिननाशो यदा भवेदिति । पर्वावसानज्ञानोपायः । लौगाभिः - तिथेः परस्या घटिकास्तु या स्युर्न्यनास्तथैवाभ्यधिकाच तासाम् । अर्धे प्रयोज्यं च तथा वियोज्यं हासे च वृद्धौ प्रथमे दिने तदिति । कात्यायन:परेऽह्नि घटिका न्यूनास्तथैवाभ्यधिकाच याः । क्षित्वा तदधै पूर्वस्मिन् ह्रासवृद्धी प्रकल्प - येदिति । अथ यागकालः । याज्ञवल्क्यः -- पञ्चदश्याः परः पादः पक्षादेः प्रथमास्त्रयः । काल: पार्वणयागे स्यादन्यथा तु न विद्यते । वृद्धशातातपः-पर्वणो यश्चतुर्थांश आद्याः प्रतिपदत्रयः । यागकालः स विज्ञेयः प्रातर्युक्तो मनीषिभिरिति । तथा । चतुर्थः पर्वणो योऽञो येंऽशाः प्रतिपदत्रयः । आद्यास्तस्याश्चतुर्थोऽपि यागकाल उदाहृत इति । संधिर्यद्यपराहे स्याद्यागं प्रातः परेऽहनि । कुर्वाणः प्रतिपद्भागे चतुर्थेऽपि न दुष्यतीति । निषेधोऽपि न यष्टव्यं चतुर्थेशे यागैः प्रतिपदः क्वचित् । रक्षांसि तद्विलुम्पन्ति श्रुतिरेषा सनातनीति । उक्त एवन्यायोऽत्रानुसर्त - व्योऽन्यथा वस्तुनो द्वैरूप्यापत्तेः । विधिनिषेधाभ्यामतिरात्रे षोडशीवन्नापि विकल्पः । विषयभेदोपपत्तौ तस्यान्याय्यत्वात् । पौर्णमास्यां भाष्यार्थसंग्रहकारः - अपराह्नेऽथवा रात्रौ यदि पर्व समाप्यते । उपोष्या तत्र राका स्यात्सा पूर्णोत्सर्पिलक्षणा । पूर्वाह्णे वाथ मध्याह्ने यदि पर्व समाप्यते । उपोष्याऽनुमतिस्तत्र सा श्रश्वः पूरितलक्षणा । अथाऽमावास्यायां विशेषः - यदा चतुर्दशीयामं तुरीयमनुपूरयेत् ।
प्रथमकाण्डम् ।