________________
१३८ पारस्करगृह्यसूत्रम्।
[ द्वादशी चेप्रतिपत्तदा भूते चतुर्दश्यां दिवसावच्छेदेनामयानुपरक्तायामपि कव्यादिकी पिण्डपितृयज्ञाऽग्न्यन्वाधानादिकीत्यर्थः । ननु यदाचतुर्दशीत्यादिवाक्यैकवाक्यतानुरोधाचतुर्दश्यां चतुर्थयामैकदेशावच्छेदेनामावास्यासंसगोपपत्तये चतुर्दशीचतुर्याम इत्यत्र न दृश्यत इत्यस्य किंचिदवच्छेदमेदेन दृश्यत इत्यर्थो वाच्यस्तथा चामयोपरक्तायामेव चतुर्दश्यां कव्यादिकी क्रियेति चेत् न, लक्षणापत्तेः । इतरवाक्यैकवाक्यतानुरोधात्तदभ्युपगमे यदाचतुर्दशीसस्मिन्नपि तृतीयमनुपूरयन्ती तुरीयमनुपूरयेदित्येवमाकाराध्याहारेणाऽर्धेचतुर्दशीति वाक्यैकवाक्यतालाभात्तस्यापि कर्तव्यतापत्तेः । एककर्तृकानेकवाक्यानामेकार्थत्वेऽन्यतरव्यर्थतापत्तेश्च । नचैतत्पक्षान्तरेऽपि समानमेककर्तृकत्वानभ्युपगमात् । अन्यथा समानार्थसकलवाक्यविलोपापत्तेः । एवं चोपचीयमानामावास्यायां यामत्रयान्यूनसमयगामिन्यामपि व्रताग्न्यन्वाधानादिकं, यदि प्रतिपदि प्रातः प्रतिपञ्चतुर्थाशाभावः षण्मुहूर्तात्मा यागकालः चन्द्रदर्शनाभावश्च, नो चेत्तत्रापि चतुर्दश्यामेव व्रतं संधिदिने याग इति । तदुक्तं कालनिर्णयदीपिकायां-प्रतिपदस्त्वन्त्योऽतिरिन्द्वीक्षणं स्याचेत्तत्र तदादिमेषविहितप्यंशे यजेत्पर्वणः । पौर्णमासीप्रतिपदि तु त्रिमुहूर्तात्मनोऽपि यागकालस्य लाभे यष्टव्यम् । तथाच तत्र प्रतिपञ्चतुर्थाशस्याद्यास्तस्याश्चतुर्थोऽपीत्यादियागीयताबोधकं शास्त्रं सावकाशम् । नचैवं कालनिर्णयकाराणामपि सिद्धान्तः। केवलस्य प्रतिपञ्चतुर्थांशस्य यागीयतानिपेधेऽपि तृतीयांशावच्छिन्नस्य तस्य तेपामण्यभ्युपगमात् , अन्यथा विधिनिषेधशास्त्रयोर्विषयभेदमन्तरा प्रवृत्तेरशक्यत्वात् । नहि येन रूपेण यद्विहितं तेनैव रूपेण तनिषेधुं शक्यं, न वा येन रूपेण यनिषिद्धं तेन रूपेण तद्विधातुं शक्यं, यथाऽपराहे विहितं श्राद्धं रात्री निपिद्धं पुनश्चन्द्रोपरागे विधीयते तथा प्रकृतेऽपि नयष्टव्यमित्यादिशास्त्रनिषिद्धस्य प्रतिपचतुर्थाशस्याद्यास्तस्याश्चतुर्थोपीत्यादिना रूपान्तरमन्तरा विधादुमशक्यतया तृतीयांशावच्छिन्नश्चतुर्थाशोप्युपादेय इत्यवसीयते । यत्र तु प्रातःसमयावच्छिन्नदिवसद्वयेऽपि ऋतुकालः प्रतीयते तत्र पूर्वदिवसस्य समप्रस्यैव यागीयकालावच्छिन्नत्वात्पूर्वदिवसे याग इति । यत्र तु दिनद्वयेऽपि यागकालो न लभ्यते तत्रापि प्रातःसमयाधिकरणकयागकालालाभेऽपि संगवाद्यधिकरणकप्रचुरतरयागकाललाभा(द) पचयवशादुत्तरदिने च यागकालात्यन्ताभावात्पूर्वदिने यागः एवं चोपचयवशाद्यत्रोत्तरदिने प्रातःसमयावच्छिन्नस्य त (स्यास्यना)त्यन्ताभावः तत्र तृतीयांशावच्छिअस्यचतुर्थाशस्यापि यागीयतया तत्रोत्तरदिने याग इति कालनिर्णयकाराः । तदुक्तं कालनिर्णयदीपिकायां-'प्रातर्यद्यपराहसंधिषु यजेः कालो व्यहे स्यात्तथा नैव स्यादुभयत्र पूर्वदिवसे यागस्तदापीष्यते। इति । ननु सामान्यवाचिनां न विशेषपरता सामान्ये प्रमाणपक्षपातादिति चेत् । न । चन्द्रदर्शनस्य तावदयामावास्येत्याापक्रम्य दूषणत्वावगमाद्दर्शप्रतिपहषकत्वमेव । आपराह्निकद्वितीयोपरागषट्कलन्यूनयागकालयोरपि चन्द्रदर्शनाधायकत्वेनैव दूपकत्वोपपादनात्तयोः पौर्णमासप्रतिपदि निरवकाशता । नच पौर्णमासप्रतिपद्यपि चन्द्रदर्शनं दूषणमिति वाच्यम् । एष एव पूर्णमापञ्चन्द्रमा एतस्य ह्यनुपूरणं पौर्णमासीत्याचक्षत इत्यादिश्रुत्यर्थपर्यालोचनया चन्द्रपूरणमुपजीव्य पौर्णमासप्रवृत्तेस्तस्यैव तहूषकत्वे पौर्णमासस्य नित्यमननुष्ठानापत्तेः । अत एवाद्यकलाक्ष्योऽपि न दूपक इति ध्येयम् । एवंच चन्द्रक्षयमुपजीव्य दर्शस्य प्रकृतत्वेऽप्याद्यकलोपचयस्तत्रापि न दृषणं दर्शस्यापि नित्यमननुष्ठानापत्तेः । एवं चन्द्रदर्शनस्यामावास्यायामेव दूपणत्वात्तदाधायकदूषणोपरागो न पौर्णमासक्रतो । तथाच सामान्यवाचकानामपि बलवदाधकाद्विशेषपरतैवेति सर्व समञ्जसम् । प्रतिपनिर्णायकवाक्येषु श्रूयमाणापराहुपदं द्विधाविभक्तदिनोत्तरकालवाचकं कालनिर्णयकारमते । अपि च यत्र निर्णायकवाक्याहितसंशयकोटौ काप्यौत्कट्यं नोपलभ्यते तत्र षोडशमह उपादेयं, तच्च दिनक्षयवशात्प्रतिपञ्चतुर्थाशादिदूषितं तदा पञ्चदशमुपादेयम् । एवं वृद्धिवशात्षोडशाह्रो यागी