________________
१३७
डा ]
प्रथमकाण्डम् ।
हात्प्राक्केत्पर्वप्रतिपत्संधिः तदा पूर्वदिनमुपोष्यं संधिदिने पक्षादिः । मध्याह्नोत्तरं यदा संधिस्तदा नद्दिनमुपोष्यं तदुत्तरदिने याग इति । तत्र प्रतिपदि प्रातः प्रतिपञ्चतुर्थाशो दूपणं साधारणम् । अमावास्यायाः प्रतिपदि तु चन्द्रदर्शनं पण्मुहूर्तादूनो यागकालश्चाधिकं दूषणम्। नच प्रतिपद्यापराहिकद्वितीयोपरागोऽपि प्रतिपद्दूषणमिति वाच्यं तस्य चन्द्रदर्शनाधायकत्वेनैव दूषणत्वात् । अत एवोक्तं परत: सोमदर्शनादिति नतु द्वितीयोपरागादिति । नच द्वितीयासहितं यस्मादित्यादौ द्वितीयोपरागस्यापि दूषकत्वप्रतीतेर्द्वितीयासंवन्धोऽपि दूपकः, अन्यथा चन्द्रदर्शनस्यैव द्वितीयोपरागाघायकत्वेन दूपकत्वस्य सुवचत्वादिति वाच्यम् । चन्द्रदर्शनस्य श्रुतौ सूत्रे च दूषकत्वं निश्चितम् , तथाच तदाधायकत्वेनैव द्वितीयासंबन्धस्यापि दूपकत्वोपपत्तौ किमर्थं साक्षाद् दूपकत्वं कल्यम् । किंच द्वितीयासंवन्धस्य प्रतिपद्यापराह्निकस्य दूषकत्वे नाडीमात्रात्मकद्वितीयासंवन्धोऽपि प्रतिपदं दूपयेत् । वाक्यान्तरमर्यादया त्रिमुहूर्तात्मक इति चेत् तर्हि तन्मर्यादयैवचन्द्रदनाधायकतया दूषक इति निर्व्यूढम् । तथाच यथोपाधिर्व्याप्तिविरहमाधाय सत्प्रतिपक्षं चोत्थाप्याऽनुमानं दूषयति तद्वत्प्रतिपद्यपराह्नाधिकरणकद्वितीयासंवन्धोऽपि प्रतिपदं दूषयतीति युक्तमुत्पश्यामः । अत एव प्रतिपदो-यजनीयताप्रतिबन्धिका त्रिदोषीति कालनिर्णयकाराः । एवं च यज्ञकाल - स्तिथिद्वैध इत्यत्र मुहूर्त कलापदार्थः कस्य हेतोरिति चेत् । न । उपोष्यताप्रयोजकधर्मावच्छिन्नदर्शिकालादिनिर्णायकवाक्यानां स्वतात्पर्यविषयी भूतनिर्णेतव्योपपत्तये पक्षादिकर्तव्यताबोधकशास्त्रैकवाक्यतापन्नशास्त्रसमर्पितचन्द्रदर्शनादिदूषणाक्रान्तं समयं यथासंभवमपवदितुं कलापदार्थों मुहूर्तमिति कालनिर्णयकाराः । नच विवक्षयापि दूषणानपत्रादान्नाडयेव कलापदार्थ इति वाच्यं, समयावाध्या प्रतिपक्षपक्षाणां सावकाशतापत्तेः । विवक्षया च काले कवलिते न सावकाशा: प्रतिपक्षपक्षा इत्येकं विवक्षाफलम् । नन्वेवं विवक्षया चेद्विपक्षा विपक्षा जायन्ते दूपणं चापहस्त्येत तर्हि सार्वकालिकदूपणापह्नवक्षमविवक्षया तादृशदूपणापवादे का हानि: ? न कापि तर्हि तथैव ( किं ) न क्रियत इति चेत् । न । त्रिमुहूर्ता द्वितीयेत्यादिवाक्यानां तात्पर्यविपयी भूत प्रकृतपदार्थसंसर्गाप्रतिपत्तिहेतुत्वेन प्रामाण्यव्याकोपापत्तेः । तदुक्तं याज्ञिकचरणैः स्वभाष्ये — त्रिमुहूर्ता द्वितीयेत्याद्यनुरोधादिति अत एव पण्मुहूतनयांगकालस्य चन्द्रदर्शनाधायकत्वेन दूषकतायामपि स्वतन्त्रदूषणत्वानपवादः । अत एव देवयाज्ञिकैस्तथैव व्याहृतं स्वभाष्ये । तथाचापचीयमानामावास्यायाः दिवसावच्छेदेनावसितायाः प्रतिपदि यदि प्रातः स्वचतुर्थांशाभावः षण्मुहूर्तात्मा यागकालः चन्द्रदर्शनाभावश्चैतत्रयं चेत्स्यात् तदा तस्यां यागः । नोचे चतुर्दश्यवच्छिन्नायां व्रतं दिवसावच्छेदेनोपरतामावास्यायां याग इति कालनिर्णयकाराः । एवंच चतुर्थीक्षयाऽन्यथानुपपत्त्या चतुर्विंशतिसंख्यनाड वच्छिन्नामावास्याक्षयमारभ्य चतुर्थीप्रतियोगि कनिःशेपक्षयवशाचतुर्थीदिनं पञ्चमी यत्र व्याप्नोति तत्र, पञ्चमी यत्र संपूर्णेत्या दियागकर्तव्यताप्रतिपादकवाक्यानां प्रणितापचीयमानामावास्याविषयत्वमेव । न च चरुरिष्टिरित्यादिना शुद्धायामेव यागकर्तव्यत्वावगमात्किमर्थं प्रतिपत्संबन्धाद्यपेक्षेति वाच्यम्, अर्थापत्तेः सर्ववलाधिकत्वात् । तदुक्तं कालनिर्णयदीपिकायाम् -सायात्प्रागपि पर्वणः प्रतिपदश्चान्ते द्वितीयाप्रभृत्यत्यन्तापचये तिथेर्यजिरमावास्या - दिनेऽत्र स्मृत इति । न चात्यन्तापचयादिपदकदम्बप्रतिपाद्यार्थसंसर्गस्य चतुर्दशीचतुर्यामे इत्यादिवाक्यार्थ भिन्नविषयतैव । अन्यथा यदा चतुर्दशीत्यादिवाक्यानामर्थैक्यापत्तेरिति वाच्यम् । एकार्थाने - शव्दश्रवणादर्थभेदे पदभेदस्याकरणतेव वाक्यार्थभेदं प्रत्यपि पदार्थभेदस्याहेतुत्वात् । यदा चतुर्दशीत्यादावथैक्यं वक्ष्यते । एवं चानेकवाक्यानामप्यन्योन्यसाचिव्यादेकवाक्यतायां संभवन्त्या - मनेकार्थाभ्युपगमस्याऽन्याय्यत्वात् । अन्यथा यथाकथंचिदर्थभेदावाप्तौ तदभ्युपगमेऽनन्तामावास्या स्यादिति । तदुक्तचतुर्दशीचतुर्याम इतिवाक्ये श्वोभूते इत्यस्यार्थोऽमावास्यायां चतुर्थर्थ्यांमैत्र (१)
१८