________________
पारस्करगृह्यसूत्रम्।
[द्वादशी सव्येनोदडावर्तनम् आतमनात्तिप्टेत् । पुनस्तेनैवामीमदन्तेति जपः । पूर्ववदवनेजनं पिण्डानामुपरि नीविविसंसनं, नमो व इत्यञ्जलिकरणं, पड्भिः प्रतिमन्त्रं गृहान्न इति जपः । सूत्रादीनामन्यतमस्य प्रदानमेतद्व इति प्रतिपिण्डम् । ऊर्जमिति पिण्डानामुपरि उदकनिषेकः । उखायां पिण्डावधानमवघ्राणं सकृदाच्छिन्नावधानमनौ उल्मकस्य च । पुत्रकामाया तुमत्याः पल्या मध्यमपिण्डस्य प्राशनम् । तस्मिन्पक्षे अनवव्राणं यजमानस्य उदकोपस्पर्शनं ततः पार्वणश्राद्धमिति पदार्थक्रमः । ततः श्वः प्रतिपदि ब्रह्मोपवेशनाद्याज्यभागान्तं कृत्वा स्थालीपाकेनाग्नये स्वाहा, विष्णवे स्वाहा, इन्द्राग्निभ्यां स्वाहेति दर्शदेवताभ्यो हुत्वा ब्रह्मणे स्वाहेति ब्राह्मणतर्पणान्तं पूर्ववत्कुर्यात् । सर्वत्र पूर्व स्थालीपाकः पश्चाद्वैश्वदेवः । तदुक्तं कारिकायाम्-अकृते वैश्वदेवे तु स्थालीपाकाः प्रकीर्तिताः । अन्यत्र पितृयज्ञात्तु सोऽपराह्ने विधीयते । प्रथमायां प्रतिपदि तु आभ्युदयिकापूर्व कार्य इति तत्रैवोक्तम् । गर्गमते तु पिण्डपितृयज्ञे चरोरुद्वासनान्ते तिमृणां समिधामग्नौ प्रक्षेपः यज्ञोपवीती भूत्त्वाऽग्नौ होमः । एतत्ते अन्नमिति नाध्याहार इति विशेषः । अथ गर्गमते स्थालीपाके विशेष:-प्रथमप्रयोगे पौर्णमास्यां मातृपूजाश्राद्धपूर्विकाऽन्वारम्भणीया ब्रह्मासनाद्याज्यभागान्तं पूर्ववत् । ग्रहणे अग्नाविष्णुभ्यां सरस्वत्यै सरस्वते जुष्टं गृहामीति ग्रहणम् । प्रोक्षणे त्वाधिकः । आज्यभागान्ते चरुहोमः । अनाविष्णुभ्यां स्वाहा सरस्वत्यै स्वा० सरस्वते स्वा० अग्नये स्विष्टकृते स्वा० । महान्याहृत्यादित्राह्मणभोजनान्तम् । ततो वैश्वदेवः । ततः श्वोभूते ब्रह्मोपवेशनाद्याज्यभागान्ते विशेषः-चरुस्थालीद्वयं ग्रहण अग्नये अग्नीपोमाभ्यामग्नीपोमाम्यां ब्रह्मणे प्रजापतये विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यां जुष्टम् । अग्नये प्रजापतये विश्वेभ्यो देवेभ्यो जुष्टमिति द्वितीयचरुग्रहणम् । प्रोक्षणे त्वाधिक. । आज्यभागान्ते पूर्वचरुणा हुत्वा तेनैव वलिहरणम् । ततो वैश्वदेवस्याग्नौ जुहोतीत्यादिवैश्वदेवचरुणा उभयोः स्विष्टकृद्धोमः।ततो वाह्यतः स्त्रीबलिहरणं पञ्चमन्त्रैः द्वितीयचरुशेपेण वलिहरणम् । शेषमद्भिः प्रप्लाव्य महाव्याहत्यादिप्राजापत्यान्तं संस्रवप्राशनं ब्राह्मणभोजनान्तं तदनन्तरं चरुशेषेणैव वैश्वदेवः । अमावास्यापक्षादिषु कर्मविशेषः-तत्र ग्रहणे प्रोक्षणे होमे चाग्नेरनन्तरं विष्णुः इन्द्राग्नी च शेष पौर्णमासवत् । कृतसोमस्य यजमानस्याग्नेरनन्तरमग्नीपोमो इन्द्रश्च भवति इति गर्गमते विशेषः । स्वकाले स्थाली पाकपिण्डपितृयज्ञयोरकरणे विशेप उच्यते । पक्षादिः पिण्डयज्ञादि प्रमादादकृतं यदि । प्रायश्चित्तं ततो हुत्वा कर्तव्यं तदिनान्तर । पिण्डपितृयज्ञस्तु अमादिन एव भवति न दिनान्तरे। अमायामननुष्ठाने प्रायश्चित्तत्वेन वैश्वानरश्चरुरेव न पिण्डपितृयज्ञः । तथाच कात्यायनः-परेणाग्नौ हुते स्वार्थ परस्याग्नौ हुते स्वयम् । पितृयज्ञात्यये चैव वैश्वदेवद्वयस्य च । अनिष्ट्वा नवयज्ञेन नवान्नप्राशने तथा । भोजने पतितान्नस्य चरुर्वैश्वानरो भवेत् । अनाहिताग्नेश्वरः, आहिताग्नेस्तु इष्टिरेव । कारिकायाम्मुख्यकाले यदा न स्यात्पौर्णमास, कथंचन । कृत्वाऽनादिष्टमादर्शात्कर्तव्यो यत्र कुत्रचित् । दर्शाप्राक्तु नवा चेत्स्याद्दर्शन , सह तक्रिया । यदि दर्शोऽप्यतिक्रान्तस्तदा पथिकृती भवेत् । अत्रापि चरुरेवानाहिताग्नेः । य एवाहिताग्नेः पुरोडाशास्ते एवानाहिताग्नेश्चरव इत्युक्तत्वात् । एवं दर्शोऽतिपन्नःप्राक् पौर्णमासान्न चेत्कृतः । पितृयज्ञं विना सोऽपि कर्तव्यो यत्र कुत्रचित् । न पौर्णमासतन्त्रे स्यादृशों भिन्ने प्रयोगतः । पौर्णमासेऽप्यतिक्रान्तेऽतिपत्तिः पथिकृत्तदा ॥ १२ ॥
(विश्व०)-पक्षादिपु..... 'पृथिवीभ्यामिति । पक्षाणामादयः पक्षादयः तेपु प्रतिपत्सु । अत्र प्रतिपन्निर्णयस्य पौर्णमास्यमावास्यानिर्णयाधीनत्वेनाऽमावास्यापौर्णमास्यौ निर्णीयेते । तत्र समग्रयोरुपोष्यतायां तदुत्तरदिने पक्षादिकर्तव्यताया न संदेहः । खण्डितयोस्तु मध्या
१ तमुग्लानावित्यस्य रूपम् ।