________________
कण्डिका ]
प्रथमकाण्डम् |
શ્ય
प्रजामुपलोभयन्ति प्रामे वसन्त उतवाऽरण्ये तेभ्यः इदं ये मे प्र० । नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददतु इदमेभ्य इति त्याग इति हरिहरः । इदं स्त्रियै पुट-से वयसेऽवयसे शुक्लाय कृष्णदन्ताय पापीनां पतये ये मे प्रजामुपलोभयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यश्च न ममेति गङ्गाधरकारिकाकारौ । शेषमद्भिः प्रप्नान्यैकब्राह्मणभोजनं कारयेत् । इति पौर्णमासस्थालीपाकः । अथ दशैं विशेषः -- तत्राधानानन्तरं याऽमावास्या आयाति तस्या त्रेधाविभक्तदिनतृतीयांशे परमक्षये पिण्डपितृयज्ञः कार्यः । तस्मिन् क्षीणे ददातीति श्रुतेः । चन्द्रक्षयश्च यद्यपि कृष्णपक्षे प्रत्यहं भवति तथापि परमक्षयोऽत्र विवक्षितः सचामान्ते शास्त्रोक्त इति दिनद्वयेऽप्यपर हैकदेशव्याप्तौ सत्यां परदिनेऽर्धघटिकामात्रपरिमितामालाभेऽपि तत्रैव पिण्डपितृयज्ञानुष्ठानमुचितम् । एकस्मिन्नेव दिनेऽपराहण्याप्तौ तु यस्मिन्नेव दिनेऽपराहन्याप्तिस्तत्रैव तदनुष्ठानम् । एवं च पिण्डपितृयज्ञकालस्य वाजसनेविशाखायामुपदेशाद्यागकालस्यानुपदेशात्पिण्डपितृयज्ञदिनात्परदिने यागः कार्यः पूर्वेद्युः पितृभ्यो निप्रीय प्रातर्देवेभ्यः प्रतनुत इतिकर्कोदाहृतशाखान्तरीयश्रुतेः पूर्वो वाऽङ्गत्वात्पिण्डपितृयज्ञ इति सूत्राच । यद्यपि चन्द्रदर्शने यागनिषेधः स्मर्यते-- द्वितीया त्रिमुहूर्ताचेत्प्रतिपद्यापराहिकी । अन्वा - धानं चतुर्दश्यां परत: सोमदर्शनादित्यादिना तथाऽप्युक्तन्यायेन वाजसनेयिनां पिण्डपितृयज्ञ: परदिन एव चन्द्रदर्शनवत्यपि यागानुष्ठानस्योचितत्वाद्वाजसनेयिव्यतिरिक्तविपयत्वेन पूर्वाहमध्याह्नसंधिविषयत्वेन वा निषेधो नेतव्यः । न चास्य दर्शाङ्गत्वादनाहिताग्नेरेप न भवतीति वाच्यम् । अनाहिता - ग्नेरप्येष इत्युक्तत्वात् । अयं च मृतपितृकस्यैव भवति । अत्र मातृकापूजनपूर्वकमाभ्युदयिकं कार्यमित्युक्तं गङ्गाधरेण । अत्र सर्वकर्मापसव्येन दक्षिणामुखेन कार्यम् । अत्रैवं पदार्थक्रमः --- प्राचीनावीतिकरणं, नीविबन्धनं, तच्च कुश तिलसंयुक्तानां वस्त्रदशानां सव्यभागे परिहितवस्त्रेण संवेष्ट थावगूहनमिति देवयाज्ञिकाः । नीविं परिहितमभ्येऽवगूहितवस्त्रप्रान्तं विस्रंस्येति नीत्रिं विस्रध-स्येति सूत्रव्याख्याने श्रीअनन्तयाज्ञिकाः । न नीविं कुरुत इत्येतद्वयाख्याने नीविः परिधानदायर्थं प्रदेशान्तरे प्रदेशान्तरावगूहनमित्युक्तम् श्रीअनन्तैः । नीवि कुरुते सोमस्य नीविरित्यत्र च नीविरपवर्तिकेति कर्कादयः । सर्वसूत्रव्याख्यावलोकने प्रदेशान्तरे प्रदेशान्तरावगृहनमेवायाति । नीविवासोदशान्तेन स्वरक्षार्थं प्रवन्धयेदित्याश्वलायनः । वेदिश्रोणिसन्नहनावच्छादनवाक्यशेषो दक्षिणत इव हीयंनीविरिति । दक्षिणे कटिदेशे तु तिलैः सह कुशत्रयमिति वृद्धयाज्ञवल्क्यः । नीवी कार्या दशागुप्तिर्वामकुक्षौ कुशैः सहेति यत्कात्यायनवचनं तद्वृद्धिश्राद्धे । पितॄणां दक्षिणे पार्श्वे विपरीता तु दैविक इति स्मृत्यन्तरात् । वामे दक्षिणेवेत्याचाराद्व्यवस्थेति प्रयोगपारिजाते । ततोऽग्नेर्दक्षिण संस्थमपसव्यं परिस्तरणमग्नेः पचादुत्तरतो वा दक्षिणसंस्थं, दक्षिणाग्राणां पात्राणामेकश आसादनम्, न द्विशः, स्रुक् उलूखलं मुसलं शूर्प चरुस्थाली उदकमाज्यम् मेक्षणं वज्रमुदपात्रं सकृदाच्छिन्नानि व्रीहयः सूत्राणि च ऊर्णा वा वस्त्रदशा वा स्थाल्यां ग्रहणपक्षे पूर्वं तस्या आसादनं न स्रुचः । अपरेणाग्निं चरुमपूर्ण स्रुचं वा गृहाति ततोऽग्नेरुत्तरत उलूखले ब्रीहीनोप्य तिष्ठतोऽवहननं, शूर्पे न्युप्य निष्पवनं सकृत्फलीकरणमपूर्णस्य चरो: सार - तण्डुलस्य श्रपणम्, अभिधारणं दक्षिणेनोद्वासनमपसव्येनाहरणं, ततो दक्षिणामुख एवाहुतिद्वयं जुहोति ॐ अग्नये कव्यवाहनाय स्वाहा इदमग्नये क० सोमाय पितृमते स्वाहा इदं सोमाय पि० अग्नौ मेक्षणप्रासनम् । अग्निमपरेण दक्षिणेन वा अपहता इति रम्येन दक्षिणसंस्थां लेखां कुर्यात् । ये रूपाणीति परस्तादुल्मुककरणं, लेखायां पितृप्रभृतित्रिभ्योऽवनेजनं पितः अमुक अवनेनिक्ष्वेति रेखामूले पितामह अवनिक्ष्वेति रेखामध्ये अमुक प्रपितामह अवनेनिक्ष्वेति रेखान्ते । सकृदाच्छिन्नानि लेखायां कृत्वा यथाऽर्वानक्तं पिण्डदानं पितरमुक एतत्ते अन्नमिति मन्त्रेण रेखामूले पिण्डदानम् पितामह अमुक एतत्ते अन्नमिति रेखामध्ये, प्रपितामह अमुक एतत्ते अन्नमिति रेखान्ते । अत्र पितर इति जपः । अप
"