________________
१३४ पारस्करगृह्यसूत्रम् ।
[द्वादशी विश्वेदेवा देवता अस्येति सर्वार्थः पाकोऽभिधीयते ततो जुहोतीत्युक्तं भवति । यत्तु पौष्णवदिति नहि पौष्णशब्दवाच्योऽन्यः कचिच्चरुर्भवति । तेनास्य पृथक्रिया । वैश्वदेवस्तु पुनः पाको विद्यत एवेति तथाच वक्ष्यति वैश्वदेवादन्नात्पर्युक्ष्य स्वाहाकारैर्जुहुयादितीत्युक्तम् । अग्नौ होमः प्राप्त एव पुनरग्नौ जुहोतीत्यग्निग्रहणं बलिकर्मानौ माभूदिति । अग्नये स्विष्टकृते स्वाहेति प्रयोगोपदर्शनार्थम । प्राजापत्य-स्विष्टकृञ्चेति प्रदेशान्तरे उक्तम् इह प्रयोग उपदर्यते । अपि च स्थालीपाकेन दर्शपूर्णमासदेवतादीनां होमविधानस्यावसरविधित्सयैतत् । तत्कथम् ? प्राङ्महाव्याहृतिभ्यः स्विष्टकदन्यच्चेदाज्याद्धविरिति प्रदेशान्तरे उक्तम् , तेन प्राङ्महान्याहृतिहोमादाज्यभागोत्तरकालं चावसरोवगम्यत इति स्विष्टकृद्धोमश्च शेषादेव भवति । स्विष्टकग्रहणं वक्ष्यमाणस्य बलिहरणस्य प्राधान्यद्योतनार्थमिति भर्तृयज्ञः । परिभाषातः प्राप्तत्वात्स्वाहाकारग्रहणं बलिनिवृत्त्यर्थम् । प्रदानार्थोऽपि स्वाहाकारो न बलिहरणेषु भवति । बाह्यतः "ददत्विति । ततो वाह्यतः शालायाः वहि:प्रदेगे नमः त्रियै इत्यादिमन्त्रैः प्रतिमन्त्रं स्थालीपाकात् स्त्रीवलिं स्न्यादिभ्यो बलिः स्त्रीबलिः तं हरति सुवेण मन्त्रान्ते भूमौ प्रक्षिपति । एतच्चागन्तुकत्वात्सर्वान्ते भवति । मन्त्रार्थः स्त्रियै संतानसुखविधातिन्यै नमः । नमस्कारोऽस्तु अतः संतानसुखेच्छवोऽत्र बाह्यवल्यधिकारिण इतिजयरामः । तथा पुंसे उक्तस्वरूपायैव । किंभूताय वयसे अवयसे च वृद्धाय बालाय च शुक्लाय बहिः कृष्णदन्ताय असितान्तरङ्गावयवाय अतिमलिनमनसे इत्यर्थः । अत एव पापीनां पतये श्रेष्ठाय दीर्घश्छान्दसः । अत्र बलित्रये पुमानेव विशिष्यते । ये च मे मम प्रजां संतानमुपलाभयन्ति मोहयन्ति ग्रामे वसन्त. उत अपि वा समुच्चये अरण्ये वा वने वाऽपि तेभ्यो नमः नमस्कारोऽस्तु । एभ्यो वलिं पूजां हरामि समर्पयामि मम नमस्कारबलिभ्यां यूयं संतुष्टा भवत ततो भवतां प्रसादान्मम स्वस्ति कल्याणमस्तु । भवन्तश्च मे मह्यं प्रजां पुत्रादिसुखजातं ददतु प्रयच्छन्तु । ' शेषमद्धिः.. भोजनम् ।। बलिहरणानन्तरं शेष स्थालीपाकस्थितमवशिष्टं चरुमद्भिलौकिकोदकेन प्रप्लाव्य मजयित्वा ब्राह्मणभोजनं कुर्यात् । प्रणीतोदकेन प्रप्लावनमिति वासुदेवादयः । नेतिकारिकायाम् । इति".""द्वादशी कण्डिका ॥ १२॥ ____ अथ पदार्थक्रमः । आधानानन्तरं प्रथमप्रतिपदि प्रातः स्नात्वा कृतनित्यक्रियो निर्णेजनान्तं वैश्वदेवं कृत्वा मातृपूजापूर्वकमाभ्युदयिकं कुर्यात् । ततः संकल्पः । देशकालौ स्मृत्वा ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ स्थालीपाककर्माह करिष्ये । अत्रात्मनो ब्रह्मणः प्रणीतानां चासनचतुष्टयं कुशैः कुर्यादिति हरिहरः । तत्र प्रणीतार्थ द्वयम् । ततो ब्रह्मोपवेशनाद्याज्यभागान्तं चरसहितं कुर्यात् । तत्र विशेषस्तण्डुलानन्तरं वैश्वदेवान्नस्यासादनप्रोक्षणे । तत आज्यभागान्ते स्थालीपाकममिघार्य सुवेण चरोहोंमः अग्नये स्वाहा इदमग्नये न मम, उपांशु अग्नीषोमाभ्यां स्वाहा इदमग्नीषोमाभ्यां० पुनः उचैः अग्नीषोमाभ्यां स्वाहा इदमनीषोमाभ्यां०, ब्रह्मणे स्वाहा इदं ब्र०, प्रजापतये स्वाहा इदं प्र०, विश्वेभ्यो देवेभ्यः स्वाहा इदं वि०, धावापृथिवीभ्या७ स्वाहा इदं द्यावा० । ततस्तेनैव चरुणाऽरुत्तरतः प्राक्संस्थं बलित्रयं कुर्यात् विश्वेभ्यो देवेभ्यो नमः इदं विश्वेभ्यो देवेभ्यो न मम, भूतगृह्येभ्यो नमः इदं भू०, आकाशाय नमः इदमा० । त्रयाणां बलिकर्मणा संस्रवरक्षणं न कार्यमिति गङ्गाधरः । ततो वैश्वदेवान्नमभिधार्य तेन होमः अग्नये स्वाहा इदमग्नये न मम, प्रजापतये स्वाहा इदं प्र०, विश्वेभ्यो देवेभ्यः स्वाहा इदं वि० । चरोर्वैश्वदेवान्नस्य च होमः अग्नये विष्टकृते स्वाहा इदमग्नये स्विष्टकृते न मम । तत आज्येन भूराद्या नवाहुतयः प्राशनं मार्जनं पवित्रप्रतिपतिः प्रणीताविमोकः दक्षिणादानम् । ततः स्थालीपाकेन शुद्धायां भूमौ वहिः सुवेण वलिहरणम् ॐनमः स्त्रियै इदं स्त्रिय नमः।नमः पुट-से वयसेऽवयसे इदं पुष्ट-से० नमः शुक्लाय कृष्णदन्ताय पापीनां पतये इदं शु०॥ नमो ये मे