________________
कण्डिका ] प्रथमकाण्डम् ।
१३३ प्रदिपदत्रयः । यागकालः स विज्ञेयः प्रातर्युक्तो मनीषिभिः । कारिकायाम्-आवर्तनेऽथवा तत्प्राग्यदि पर्व समाप्यते । तत्र पूर्वाह एव स्यात्सन्धेरूच द्विजाशनम् । आहिताग्ने नियम इप्टेरूज़ विधानतः । ऊर्ध्वमावर्तनाचेत्स्याच्छोभूते प्रातरेव हि । प्रतिपदि वृद्धिगामिन्यां क्षीणायां वा संविज्ञानोपायमाह लौगाक्षि:-तिथेः परस्या घटिकाश्च याः स्युन्यूँनास्तथैवाभ्यधिकाश्च तासाम् । अर्द्ध वियोज्यं च तथा प्रयोज्यं हासेच वृद्धौ प्रथमे दिने स्यादिति । प्रतिपदद्धिनाडिका द्विधा विभज्यादै पर्वणि संयोज्य संधिः कल्पनीयः तथैव प्रतिपक्षयनाडिकाश्च द्वेधा विभज्यार्द्ध पर्वणि वियोज्य संधिः कल्पनीयः । आधानानन्तरं शुक्ला कृष्णा वा प्रतिपद्भवति तस्यामारम्भः कार्यः । तदुक्तं कारिकायाम्-अधानानन्तरं शुक्ला कृष्णा वा प्रतिपद्भवेत् । तस्यां पक्षादिकमतत्कार्य पूर्वाह एव तदिति । हरिहरभाप्ये तु सायमादिप्रातरन्तमेकं कर्म प्रचक्षते । पौर्णमासादिदर्शान्तमेकमेव विदुर्बुधाः । इतिवचनात्कृष्णपक्षे यद्याधानं तदा दर्शमनिष्दैव पौर्णमास्यां पक्षादिकारम्भः । यत्तु छन्दोगपरिशिष्टवचनम्-ऊर्ध्व पूर्णाहुतेर्दर्शः पूर्णमासोऽपि चाग्रिमः । य आयाति स होतव्यः स एवादिरितिश्रुतेः इत्येतत्पुनराधानविषयं तच्छाखिविषयमित्युक्तम् । अत्रैके वदन्ति-आधानस्य शुक्लपक्षे विहितत्वात्तदुत्तरं पौर्णमासस्थालीपाककालस्य विद्यमानत्वात्पौर्णमासस्थालीपाकारम्भो युक्तः । तञ्चिन्त्यम् । अस्माकं सूत्रे दारकाले दायाद्यकाले वेत्यावसथ्याधानस्य काल उक्तः । तत्र यदा दायाद्यकाल आधनं कृतं तदुत्तरं या प्रतिपद्भवति तस्यामारम्भो युक्तः । ननूदगयन आपूर्यमाणपक्षे पुण्याह इत्युक्तत्वाद्विभागोऽपि शुक्लपक्षे स्यात्तदा कृष्णायां प्रतिपद्यारम्भः सिध्येदेव । सत्यम् । विभागस्तावद्रागत:प्राप्तस्तत्र कालापेक्षाभावादापूर्यमाणादिनियमो न स्यादतो यदैव विभागस्तदैवाधानं ततः प्रतिपद्यारम्भ इतियुक्तम् । नन्वस्तु कृष्णपक्षे शुक्लपक्षे वा विभाग: अधानं तु शुक्लपक्षे एव कार्यम् । नैवम् । कालविलम्वे प्रमाणाभावाद्विभागोत्तरं कार्यमेव ततो या प्रतिपदायाति तस्यामारम्भ इति । अत्र वहु वक्तव्यमस्ति ग्रन्थगौरवभयान्नोच्यते । यद्यारम्भकाले सूतकमलमासपौषमासगुरुशुक्रास्तवाल्यवार्धकग्रहणादि भवति तदाऽपि प्रारम्भः कार्यः । यानि तु तत्रारम्भनिपेधकानि-उपरागोऽधिमासश्च यदि प्रथमपर्वणि । तथा मलिम्लुचे पोपे नान्वारम्भणमिष्यते । गुरुभार्गवयोमौव्ये चन्द्रसूर्यग्रहे तथेत्यादीनि संग्रहकारादिवचनानि तानि आलस्यादिना स्वकालानुपक्रान्तस्थालीपाकादिप्रारम्भविषयकाणीति प्रयोगपारिजातकारः प्रयोगरत्लकारश्च । तयाचापरार्कस्थं गर्गवचनमुदाजहार-नामकर्म च दर्शष्टिं यथाकालं समाचरेत् । अतिपाते सति तयोः प्रशस्ते मासि पुण्यम इति । देवयाज्ञिकैस्तु-दर्शपूर्णमासानीजान इतिसूत्रव्याख्याने सूतकशुक्रास्तादिनिमित्तवशादर्शपूर्णमासारम्भोत्कर्षे सति आग्रयणकाले आगते तदतिक्रमशङ्कायामयं प्रकार इत्युक्तम् । अतो याज्ञिकानामनभीष्टः शुक्रास्तादावारम्भ इत्याभाति । तथाच त्रिकाण्डमण्डन:-आधानानन्तरं पौर्णमासी चेन्मलमासगा । तस्यामारम्भणीयादीन कुर्वीत कदाचनेति । आचारोऽप्येवम् । 'विश्वेभ्यो 'काशाय च । द्रव्यान्तरानुपदेशात्स्थालीपाकादेव विश्वदेवादिभ्यो वलित्रयमग्नेरुदक्प्रासंस्थं कुर्यात् । वलिहरणवाक्ये च नमःशब्दोऽन्ते कार्यः । उक्तं चैतत्कोंपाध्यायैर्वलिहरणे च नमस्कार इति, पितृभ्यः स्वधानम इति दक्षिणत इति सूत्रव्याख्यानावसरे च नमस्कारश्चात्र प्रदर्शित आचार्येण स सर्ववलिहरणेपु प्रत्येतव्य इत्युक्तम् । वैश्वदे'कृतेस्वाहेति' । वैश्वदेवस्येत्यवयवलक्षणा षष्ठी। विश्वेदेवा देवता देवपितृमनुष्यादय अस्येति वैश्वदेवः सर्वार्थः प्रत्यहं क्रियमाणः पाकस्तस्य वैश्वदेवस्याग्नये स्वाहेत्यादिभिर्मन्त्रैर्जुहोति । वैश्वदेवस्येति सिद्धवदुपदेशात् द्वितीयः स्थालीपाको वैश्वदेवः समानतन्त्रः पक्षादिपु भवतीति भर्तृयज्ञभाष्ये । कर्कोपाध्यायैस्तु वैश्वदेवं केचित्पृथक्चरं कुर्वन्ति यथा पौष्णस्य जुहोतीति पौष्णम् । तत्पुनरयुक्तम् । वैश्वदेवशब्देन