________________
१३२ पारस्करगृह्यसूत्रम्।
[द्वादशी स्त्रीवलिं ख्यादिभ्यो वलिः स्त्रीवलिस्तं स्त्रीवलिं हरति ददाति । 'शेपमद्भिः प्रप्लान्य' स्थालीस्थितमवशिष्टं चरुमद्भिर्जलेन प्रप्लान्य मज्जयित्वा । अत्रापः प्राणीताः तासां सर्वकर्मार्थत्वेन प्रणीतत्वात् । 'ततो ब्राह्मणभोजनम् । व्याख्यातः सूत्रार्थः ॥ १२॥
___ अथ प्रयोगः । अथ पक्षादिकोच्यते । तत्र प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिक श्राद्धं कृत्वा अमापममांसमक्षारालवणं हविष्यं व्रतागनं विधाय रात्रावग्निसमीपे भूमौ दम्पती पृथक् शयीयाताम् । प्रातः स्नात्वा संध्यावन्दनानन्तरं प्रातोमं च निर्व] उदिते सूर्य पौर्णमासं स्थालीपाकमारभेत तत्रात्मनः ब्राणः प्रणीतानां चासनचतुष्टयं कुशैईत्त्वा पक्षादिकर्मणाऽहं यक्ष्ये । तत्र मे त्वं ब्रह्मा भव । भवामीति तेनोक्त आसने उपवेश्य, अत्रासादने वैश्वदेवान्नासादनं विशेषः । तत्रोक्षणं च । आज्यभागान्तं यथोक्तं कर्म निर्वयं, स्थालीपाकमभिधार्य सुवेण चरुमादाय अग्नये स्वाहा इदमग्नये० अग्नीपोमाभ्यां स्वाहा इदमनीपोमाभ्या० उपांशु । पुनरग्नीपोमाभ्यां स्वाहा इदमग्नीपोमाभ्यां० उच्चैः। ब्रह्मणे स्वाहा इदं ब्रह्मणे । प्रजापतये स्वाहा इदं प्रजापतये। विश्वेभ्यो देवेभ्यः स्वाहा । इदं विश्वेभ्यो देवेभ्यो० । द्यावापृथिवीभ्यास्वाहा इदं द्यावापृथिवीभ्या० । हुतशेपानुवेण अनेरुत्तरतः प्रासंस्थं विश्वेभ्यो देवेभ्यो नमः इदं विश्वेभ्यो देवेभ्यो०, भूतगृह्येभ्यो नमः इदं भूतगृह्येभ्यो०. आकाशाय नमः इदमाकाशाय०चेति स्रवेण वलित्रयं दत्त्वा । अभिधारितवैश्वदेवान्नात्स्रवेणादाय अनये स्वाहा इदमग्नये० प्रजापतये स्वाहा इदं प्रजापतये० विश्वेभ्यो देवेभ्यः स्वाहा इदं विश्वेभ्यो देवेभ्यो० इत्याहुतित्रयमग्नौ हुत्वा स्थालीपाकोत्तरार्द्धाद्वैश्वदेवोत्तरार्द्धाच अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृते० इति हुत्वा, भूरित्यादिप्राजापत्यान्ता, नवाहुतीर्जुहुयात् । संस्रवप्राशनं, मार्जनं, पवित्रप्रतिपत्तिः, प्रणीताविमोकः, ब्रह्मणे दक्षिणादानान्तं कृत्वा चरुशेपमादाय शालाया बहिरुपलिप्तायां भूमौ प्राङ्मुख उपविश्य सुवेण नमः स्त्रियै इदं खियः । नमः पुह से वयसेऽवयसे इदं पुट से वयसेऽवयसे० । नमः शुक्लाय कृष्णदन्ताय पापीनां पतये इदं शुक्लाय कृष्णदन्ताय पापीनां पतये नमो ये मे प्रजामुपलोभयन्ति प्रामे वसन्त उत वारण्ये तेभ्यः इदं येमेइत्यादि । नमोऽस्तु पलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददतु । इदं स्त्रिय पुरसे वयसेऽवयसे शुक्लाय कृष्णदन्ताय पापीनां पतये ये मे प्रजामुपलोभयन्ति ग्रामेवसन्त उतवाऽरण्ये तेभ्यः, इदमेभ्य इति वा त्यागः । शपं प्रणीताऽनिः प्रप्लाव्याचम्याग्निसमीपमागत्य एकस्मै ब्राह्मणाय भोजनं ददामीति संकल्पयेदिति पक्षादिकर्मविधिः । दर्श पुनरियान्विशेषः स्थालीपाकेनाग्नये विष्णवे इन्द्राग्निभ्यामिति दर्शदेवताभ्यो होमः, अनुदिते चारम्भः शेषं समानम् । 'सायमादिप्रातरन्तमेकं कर्म प्रचक्षते । पौर्णमासादिदर्शान्तमेकमेव विदुर्बुधाः' इति वचनात् कृष्णपक्षे यद्याधानं तदा दर्शमकृत्वैव पौर्णमास्यां पक्षादिकारम्भः । यत्तु छन्दोगपरिशिष्टे वचनम्-ऊर्ध्व पूर्णाहुतेर्दर्शः पौर्णमासोऽपि चाग्रिमः । य आयाति स होतव्यः स एवादिरिति श्रुतेः तत्पुनराधानविषयं तच्छाखिविपयं वा । इति पक्षादिप्रयोगः ॥
(गदाधरः)-'पक्षादिपु'' 'पृथिवीभ्यामिति' पक्षाणामादयः पक्षादयस्तासु पक्षादिपु प्रतिपत्सु बहुवचनोपदेशात्सर्वपक्षादिष्वेतत्कर्म भवति उक्तेन विधिना स्थालीपाकं अपयित्वा तेनैव स्थालीपाकेन दर्शपूर्णमासदेवताभ्यो विभागेन होमः पौर्णमासे, पक्षादौ पौर्णमासदेवताभ्यो हुत्वा दर्शकाल. पक्षादौ दर्शदेवताभ्यो हुत्वा ब्रह्मण इत्येवमादिभ्यश्चतुभ्यो जुहोति स्थालीपाकेनैव । दर्शपौर्णमासे च विधिः समान इति कृत्वा ग्रन्थगौरवमयादाचार्येण समस्तोपदेशः कृतः । अतो यादृशस्ताभ्यो होमो विभागेन सिद्धस्तादृश एवेहापीति । एवंच स्मृत्यन्तरैः सहानुगतार्थों भवति । केचित्तु समस्तोपदेशासर्वाभ्यो होममिच्छन्ति । सिद्धचरोरुपादानं माभूदिति अपयित्वेत्युच्यते । यद्यज्यत्र पक्षादिष्विति सामान्येनोक्तं तथापि स्मृत्यन्तरोक्तो यागकालो ग्राह्यः । कृद्धशातातपः-पर्वणो यश्चतुर्थांश आद्याः