SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ refuser ] प्रथमकाण्डम् । १३१ विद्यत एव । तथा च वक्ष्यति वैश्वदेवादन्नात्पर्युक्ष्य स्वाहाकारे जुहुयात् इति । अग्नौ जुहोतीति किमर्थमिदमुक्तम् ? अग्नावेव होमो नान्यत्रेत्यग्निग्रहणम् । जुहोतीति वलिकर्मातो मा भूदिति । ' अग्नये स्विष्टकृते स्वाहेति ' प्रयोगोपदर्शनार्थम् । प्राजापत्य स्विष्टकृञ्चेति प्रदेशान्तरे दर्शितत्वात् । तेनेह प्रयोग उपदर्श्यते । अपि च स्थालीपाकेन दर्शपौर्णमासदेवताहोमावसरविधित्सयैतत् । तत्कथम् प्राङ्महाव्याहृतिभ्यः स्विष्टकृदन्यचेदाज्याद्धविरिति प्रदेशान्तरे उक्तं, स्विष्टकृद्धोमञ्च शेषादेव भवति तेनैव प्राङ्महाव्याहृतिहोमादाज्यभागोत्तरकालं चावसरोऽवगम्यत इति । वाह्यत इत्येतद्वागन्तुकत्वाप्राशनान्ते भवति । व वाह्यतः शालाया वहिः नमः स्त्रियै इत्यादिभिर्मन्त्रैः प्रतिमन्त्रं स्थालीपाका - तत्र स्त्रीभ्यो बलिः स्त्र्यादिभ्यो वलिः स्त्रीवलिः तं हरति स्रुवेण वलिहरणम् । तानाह ' नमः स्त्रिया ' इति । अथ मन्त्रार्थः—स्त्रियै सन्तानसुखविघातिन्यै नमः नमस्कारोऽस्तु अतः संतानसुखेच्छवोऽत्र बाह्यवल्यविकारिणः । तथा पुंसे उक्तस्वरूपाय वा किंभूताय वयसे अवयसे च वृद्धाय वालाय च शुक्लाय वहिः कृष्णदन्ताय असितान्तरङ्गाय अतिमलिनमनस इत्यर्थः । अत एव पापीनां पतये श्रेष्ठाय बालकाय वा दीर्घश्छान्दसः । अत्र वलित्रये पुमानेव विशिष्यते । ये च मे मम प्रजां संतानमुपलो यन्ति मोहयन्ति श्रामे वसन्तः उत अपि वा समुच्चये अरण्ये अप्यरण्ये वा वने वाऽपि तेभ्यो नमः नमस्कारोऽस्तु तेभ्यो वलि पूजां हरामि समर्पयामि मम नमस्कारवलिभ्यां यूयं संतुष्टा भवत ततो भवतां प्रसादान्मे मम स्वस्ति कल्याणमस्तु भवन्तश्च मे महां प्रजां पुत्रादिसुखजातं ददतु प्रयच्छन्तु । शेपं स्थालीस्थितमवशिष्टं चरुम् अद्भिः प्रणीताशेषाद्भिः प्रप्लाव्य मज्जयित्वा ततो विप्रभोजनं कार्यम् ॥ * ॥ ॥ १२ ॥ ॥*॥ ( हरिहर : ) -- ' पक्षादिषु" "थिवीभ्यामिति ' पक्षाणामादयः पक्षादयः तासु पक्षादिषु प्रतिपत्सु । अत्र यद्यपि पक्षादिष्वित्युक्तं तथापि संधिमभितो यजेतेति वचनात् ' पर्वणो यश्चतुर्थांश आद्याः प्रतिपद्स्त्रय' । यागकालः स विज्ञेयः प्रातर्युक्तो मनीपिभिः' इति पर्वचतुर्थांशोऽपि यागकालत्वेनाभिमतः, तथा ' पूर्वाह्णे वाऽथ मध्याह्ने यदि पर्व समाप्यते । स एव यागकालः स्यात्परतश्चेपरेऽहनि । ' तत्रापि 'संधिर्यद्यपराह्ने स्यात् यागं प्रातः परेऽहनि । कुर्वाणः प्रतिपद्भागे चतुर्थेऽपि न दुष्यति । ' इत्यादिभिर्वचनैर्यागकालं निर्णीय पर्वदिवसे कृतौ पवसथिकाशनः सपत्नीकः शालायां जघनेनाग्निं रात्रौ जान्मिश्र इतिहासमिश्र वा पृथक् शयित्वा प्रातः कृतस्नानसंध्यावन्दनप्रातर्होम: स्वाचान्तोऽग्नेः पश्चात्प्राङ्मुख उपविश्य पूर्वोक्तविधिना चरुं श्रपयित्वाऽऽज्यभागान्ते दरों दर्शदेवताभ्यः पौर्णमासे पौर्णमासदेवताभ्यः प्रयोगे वक्ष्यमाणाभ्यञ्चरुं हुत्वा ब्रह्मप्रजापतिविश्वदेवद्यावापृथिवीम्यञ्चरुं जुहोति । 'विश्वेभ्योशाय च ' बलिहरणं बलिदानं स्थालीपाकदेवताभ्यो विश्वेभ्यो भूतगृह्येभ्यः आकाशाय च । 'वैश्वदेव' ' 'ते स्वाहेति ' वैश्वदेवस्य विश्वेदेवा देवपितृमनुष्या देवा अस्येति वैश्वदेवः पाकः । पञ्चमहायज्ञार्थ साधितपाक इत्यर्थः । ननु वैश्वदेवस्याग्नौ जुहोतीति विश्वदेवसंवद्धस्य चरोस्तद्भूतोपात्तस्य वा अग्नौ जुहोतीति कथं नोच्यते यथा वृपोत्सर्गे पौष्णस्य जुहोतीति पूषसंबद्ध: पृथगेव पिष्टमयः पूर्वसिद्धञ्चरुगृह्यते, किमिति पञ्चमहायज्ञार्थः, उच्यते---स्थालीपाकं श्रपयित्वेत्यत्र स्थालीपाकस्यैकवचनान्तत्वात् द्वितीयस्य वैश्वदेवस्य चरोरभावोऽवगम्यते पौष्णवत् । वैश्वदेवस्य पृथसिद्धस्य उपादानं तु पञ्चमहायज्ञार्थवैश्वदेवपाकस्य सद्भावान्निवर्तते । पञ्चमहायज्ञार्थस्य वैश्वदेवत्वं कुत इति चेत् वैश्वदेवादन्नात्पर्युक्ष्येतिसूत्रात् । अग्नौ जुहोतीति अग्निग्रहणं बलिकर्मता माभूदिति । अग्नये स्वाहेत्यादि प्रयोगदर्शनार्थं सर्वत्र तस्यैकदेशस्योद्धृत्यासादितप्रोक्षितस्य अग्नये प्रजापतये विश्वेभ्यो देवेभ्यो हुत्वा स्थालीपाकाद्वैश्वदेवाच अग्नये स्त्रिष्टकृते जुहोति ततः शेषसमाप्तिं विधाय । ' बाह्यतः ऽवयसे नमः' इत्यादिभिर्मन्त्रै। बाह्यतः शालायाः प्राङ्गणे
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy