________________
१३० पारस्करगृह्यसूत्रम् ।
[द्वादशी __पक्षादिषु स्थालीपाकळ श्रपयित्वा दर्शपूर्णमासदेवताभ्यो हुत्वा जुहोति ब्रह्मणे प्रजापतये विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यामिति ॥१॥ विश्वेभ्यो देवेभ्यो बलिहरणं भूतगृह्येभ्य आकाशाय च ॥ २ ॥ वैश्वदेवस्याग्नौ जुहोत्यग्नये स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३ ॥ बाह्यतः स्त्रीबलिर्छ हरति नमः स्त्रियै नमः पुर्हन्से वयसेऽवयसे नमः शुक्लाय कृष्णदन्ताय पापीनां पतये । नमः ये मे प्रजामुपलोभयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यो नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददत्विति ॥ ४ ॥ शेषमद्भिः प्रप्लाव्य ततो ब्राह्मणभोजनम् ॥ ५ ॥ १२ ॥
(कर्कः)-पक्षादिषु..... "वीभ्यामिति' । पक्षादिष्विति बहुवचनोपदेशात्सर्वपक्षादिषु क्रिया स्थालीपाकअपयित्वेत्युच्यते तद्भूतोपादानं माभूदिति तेनैव स्थालीपार्कन दर्शपूर्णमासदेवताभ्यो विनिष्कृष्य दर्शे दर्शदेवताभ्यो हुत्वा पौर्णमासे पौर्णमासदेवताभ्यो हुत्वा जुहोति ब्रह्मणे प्रजापतये इत्येवमादिभ्यः । 'विश्वेभ्यो' 'शाय च । स्थालीपाकादेव द्रव्यान्तरानुपदेशात् , बलिहरणे च नमस्कारः । वैश्वदे....''ष्टकृते स्वाहेति । वैश्वदेवस्येत्यवयवलक्षणा षष्ठी । वैश्वदेवं च केचित् पृथक् चरुं कुर्वन्ति यथा पौष्णस्य जुहोतीति पौष्णं, तत्पुनरयुक्तं वैश्वदेवशब्देन विश्वेदेवादेवता अस्येति सर्वार्थः पाकोऽभिधीयते ततो जुहोतीत्युक्तं भवति । यत्तु पौष्णवदिति नहि पौष्णशब्द. वाच्योऽन्यः कचिचरुर्भवति तेनास्य पृथक्रिया । वैश्वदेवस्तु पुनः पाको विद्यत एवेति तथाच वक्ष्यति 'वैश्वदेवादन्नात्पर्युक्ष्य स्वाहाकारैर्जुहुयात्' इति । अग्नौ जुहोतीति किमर्थमिदमुक्तम् ? अग्नावेव हि होमो नान्यत्रेति तेनाग्निग्रहणं बलिकांतो माभूदिति । अग्नये स्विष्टकृते स्वाहेति प्रयोगप्रदर्शनार्थ, प्राजापत्यथं स्विष्टकृच्चेति प्रदेशान्तरेऽभिहितं तेनेह प्रयोग उपदर्यते । अपि च स्थालीपाकेन दर्शपौर्णमासदेवतादीनां होमविधानस्यावसरविधित्सया । तत्कथम् ? प्राड्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविरिति प्रदेशान्तरे उक्तम् । तेन प्राड्महाव्याहृतिहोमादाज्यभागोत्तरकालं चाक्सरोऽवगम्यत इति । बाह्यतः स्त्रीबलिर्छ हरति नमः स्त्रियै नमः पुठसेवयसेऽवयस इत्येवमादिपुथड्मन्त्रवाक्यैः । एतचागन्तुकत्वात्प्राशनान्ते भवति । 'शेपम..."भोजनम् । शेपं च स्थालीपाकशेषम् ॥ * ॥ १२॥*॥
(जयरामः)-'पक्षादिष्विति' बहुवचनोपदेशात्सर्वपक्षादिपु क्रिया। 'अपयित्वेति । तद्भूतोपादानं माभूदिति । तेनैव स्थालीपाकेन दर्शपूर्णमासदेवताभ्यो विनिष्कृष्य दशे दर्शदेवताभ्यः पौर्णमासे च पौर्णमासदेवताभ्यो हुत्वा जुहोति । ब्रह्मणे इत्येवमादिभ्यश्चतुभ्यो विश्वेभ्यो देवेभ्य इति द्रव्यान्तरानुपदेशास्थालीपाकादेव विश्वदेवादिभ्यो वलित्रयमग्नेरुदक् प्राक्संस्थम् । वैश्वदेवस्येत्यवयवलक्षणा पष्टी। वैश्वदेवं च केचित्पृथक् चरुंकुर्वन्ति यथा पौष्णस्य जुहोतीति पौष्णं, तदसत् वैश्वदेवशब्देन विश्वेदेवा देवता अस्येति सर्वार्थः पाकोऽभिधीयते, अतस्ततो जुहोतीत्युक्तम् । यत्तु पौष्णवदिति नहि पौष्णशब्दवाच्योऽन्यत्र कचिचभवति तेनास्य पृथक्रिया । वैश्वदेवस्तु पुनः पाको