________________
कण्डिका] प्रथमकाण्डम् ।
१२९ सूर्यग्रहे तु चन्द्रस्थाने सूर्यमुद्दिश्योक्तसंख्ययाऽसमिदाज्यचरुतिलैहोमः । तिमृणां दुर्वाणामेकैकाहुतिः। समिधश्च त्रिमध्वक्ताः कार्याः । तत: स्विष्टकृदादिपूर्णाहुत्यन्तं प्राग्वत् । तत आचार्य एकस्मिन् कलशे जलपूर्णे पञ्चगव्यानि पञ्चरत्नानि वटाश्वत्थोदुम्बराम्रविल्वानां त्वचः पञ्चपल्लयान्सवौंपधिकल्कं दूर्वाः कुशॉश्च निक्षिप्य सऋत्विक् दम्पती पूर्ववभिषिञ्चेदतैर्मन्त्रैः । आपोहिष्ठेति, इमं मे गड़े इति, तत्वायामीति, अन्येऽपि समुद्रज्येष्ठा इत्यादयः, सुरास्त्वामित्यादयः पौराणाश्च । ततः स्नानदक्षिणादानप्रतिमाप्रतिपादनादि पूर्ववत् । यदा तु पूर्वशान्तिसमुच्चयस्तदा कालैक्याकक्यादाग्नेयादिवत्तन्त्रप्रयोगः । तत्र यजमानो देशकालौ स्मृत्वा मम पत्न्याः प्रथमरजोदर्शनेऽमुकदुष्टमासतिथ्याद्यमुकग्रहणसूचितेत्यादि संकल्प्यविपूजान्तं विदध्यात् । तत आचार्यों भुवनेश्वर्यादिपूजातः प्राक् पश्चाद्वा तत उदीच्यां चन्द्रादीन् संपूज्य यथोपक्रम होमाभिपेको कुर्यादिति विशेषः । अन्यत्समानम् । इति ग्रहणे रजोदर्शने शान्तिः । इति प्रथमकाण्डे एकादशी कण्डिका ।। ११॥
(विश्व०)-'चतुर्थ्या..."धाय' चतुर्थी रात्रौ रात्रपरभागे, यद्वा चतुर्थीतिथिसंवन्धिरात्र्यपरभागे । यत्तु चतुर्थी तिथौ भविष्यद्राव्यपरभाग इति । तस्य राज्यंशस्य पञ्चमतिथिसंवन्धित्वात् । तथाच पञ्चमीकर्मत्वापत्त्या चतुर्थीकमेंतिनामव्याकोपः । विरात्रे निवृत्ते चतुर्थीकर्मेति शाङ्घायनविरोधाच । गृहस्याभ्यन्तरतोऽग्निमुपलिन उद्धतावोक्षिते समाधाय ' दक्षिण ....'वेश्य' उपवेश्येत्युक्तत्वात्प्रत्यक्षब्रह्मण उपवेशनम् । अपरे तु उदपात्रप्रतिष्ठापनावसरविधित्सया ब्रह्माणमुपवेश्येत्युक्तम् तेन स्मार्तकर्मसु सर्वत्र प्रत्यक्षब्रह्मोपवेशनमाहुः । ' उत्तरतर्जुहोति । । स्थालीपाकर अपयित्वेत्यनेन परिभाषाप्रज्ञप्तिः । पात्रासादने विशतिसंख्याकाः समिधः । चरुग्रहणे प्रजापतये जुटं गृहामि । ग्रहणं प्राजापत्येन तीर्थन । चतुथै तूष्णीम् । प्रोक्षणे प्रजापतये त्वा जुष्टं प्रोक्षामि । अन्यत्प्रकृतिवत् । आज्यभागानन्तरम् अग्ने प्रायश्चित्त इत्यादिपञ्चमन्त्रैः पञ्चाज्याहुतयः, आन्यभागाविष्ठेत्याज्याहुत्यवसरविधित्सयोक्तत्वात् । आज्याहुतिकरणाथै स्मृतिकरणान्मन्त्रानाह ' अग्नेप्रायश्चित्ते "नाशय स्वाहा । इदमग्नये । 'चायोप्राय "नाशयस्वाहा' इदं वायवे । 'सूर्यप्राशयस्वाहा ' इदं सूर्याय । 'चन्द्रप्राशयस्ताहा' इदं चन्द्रमसे । 'गन्धर्वप्रा "नाशयस्वाहा । इदं गन्धर्वाय । इतिशब्द आज्याहुतिमन्त्रसमाप्तिद्योतकः । 'स्थालीपा "पतये स्वाहेति । स्थालीपाकस्य होमः । प्रजापतये स्वाहा इदं प्रजापतये । 'हुत्वा हुत्वै "मूर्धनि वरः अभिपिश्चति । उदपात्रोदकेन । असावित्यत्र प्रथमान्तवधूनामग्रहणम् । अथैनार. "त्वचमिति । चतुर्भिर्मन्त्रैः प्रतिमन्त्रं वध्वा प्राशनं कारयतीत्यर्थः । ततो महाव्याहृत्यादिस्विष्टकृदन्तं । चरोरुपहतत्वादाज्येन स्विष्टकृन् । संस्रवप्राशनादि ब्राह्मणभोजनान्तम् । इति चतुर्थीकर्म । एवं निष्पन्ने भार्यात्वे तस्याः पुरुपान्तरकर्तृकोपहासनिपेधमाह । ' तस्मादे"भवति । एवंवित् श्रोत्रियस्यस्त्रियं नोपहरोदितिज्ञानवान् . परः श्रेष्ठो भवतीत्यर्थः । अभिगमनमाह ' तामुदुह्य यथतुं प्रवेशनम् । एवं तामुद्बाह्य यथर्नु ऋतुसमयमनतिक्रम्य प्रवेशनम् अभिगमनं कुर्यात् ॥ ॥' यथा कामी 'वचनात् । अत्रापि निपिद्धवर्जम् ॥ ॥' अथास्यै 'शतमिति' अथाभिगमनानन्तरमस्याः खियाः दक्षिणांसमधि हृदयमालमते यत्ते सुसीम इतिमन्त्रेण । एवमत ऊर्ध्वम् । अतः परमृतावनृतौ वा बियं गच्छेत् तदा हृदयालम्भान्तं कुर्यादित्यर्थः । प्रमादादिवामैथुने वहिःसंध्योपासनं प्रायश्चित्तम् । तदुक्तं स्कांद काशीखण्डे--उपासिता वहिः संध्या दिवामैथुनपातकम् । शमयेदनृतोक्ताद्यं मधुगन्वजमेव चेति ॥ इति गर्भाधानम् ॥ एकादशी कण्डिका ॥ ११ ॥