________________
१२७
कण्डिका ]
प्रथमकाण्डम् ।
दिनाऽष्टदलानि कुर्यात् । तत्र मध्ये गायत्र्या भुवनेश्वरीमावाहयामीति यथाशक्तिसुवर्णनिर्मितां भुवनेश्वरीप्रतिमामग्न्युत्तारणपूर्वकं स्थापयेत् । तद्दक्षिणकुम्भोपरि वस्त्रे इन्द्राणीमासुइति इन्द्राणीमावाहयामीति तथैव सौवर्णीमिन्द्राणीप्रतिमां स्थाप्योत्तरकशोपरि इन्द्रत्वाइति इन्द्रमावाहयामीति सौवर्णीमिन्द्रप्रतिमां स्थापयेत् । तत उक्तमन्त्रैरुक्तक्रमेण देवत्रयस्य काण्डानुसमयेन पोडशो - पचारपूजां कुर्यात् । ततो मध्यमकुम्भे आचार्योऽष्टसहस्रमष्टशतं वा गायत्रीं जत्वा श्रीसूक्तं जपेत्, हिरण्यवर्णामिति पञ्चदशच श्रीसूक्तम् । तत एको ऋत्विक् दक्षिणकुम्भे रुद्रसूक्तानि जपेत्, कद्रुद्रायेति नवर्चम्, इमारुद्रायेत्येकादशर्चम्, आते पितरिति पञ्चदशर्चम्, इमा रुद्राय स्थिरधन्वन इति चतस्रः, आवोराजानं तमुष्टिहि १ भुवनस्य पितरं १ त्र्यम्बकं १| अथान्यऋत्विगुत्तरकुम्भे एकादशावृत्तिभी रुद्रं जपेत् । रुद्रं जत्वा शन्नइन्द्राग्नीति सूक्तं पञ्चदशर्च जपेत् । ततः कुम्भपश्चिमदेशे स्थण्डिलेऽग्निं प्रणीय तदीशान्यां वेद्यादौ नवग्रहादीस्तत्तन्मन्त्रैरावाह्य पोडशोपचारैः सम्पूज्य तदीशान्यां प्राग्वत् कुम्भं संस्थाप्य तत्र वरुणमावाह्याग्निसमीपमेत्य ब्रह्मोपवेशनाद्याज्यभागान्ते 'विशेष:---प्रणीताप्रणयने पयसः प्रणयनम् आसादने आज्यानन्तरं ग्रहसमिधः तिला: दूर्वाः तिलमिश्रगोधूमाः तण्डुलाः । चरोः पयसि श्रपणम् । आज्यभागान्ते यजमानो दक्षिणतः उपविश्य होमार्थं च पार्थ च वरदृत्विजो बहून् आचार्यो द्विजैः सहेति चोक्तेराचार्यर्त्विजां होमावगमात्तेषां चास्वत्वेन त्यागायोगात्तैश्च क्रियमाणे होमे यजमानेन प्रत्याहुतित्यागस्याशक्यत्वात्तदानीमेवाङ्गप्रधान - होमदेवता उद्दिश्य एताभ्य इदं नममेति त्यजेत् । तत आचार्यः सऋत्विक् नवग्रहेभ्योऽष्टशताष्टाविंशत्यष्टान्यतमसंख्याका घृताक्ता अर्कादिसमिधस्तिलाज्याहुतीच हुत्वाऽधिदेवता प्रत्यधिदेवता विनायकादिपञ्चलो कपालेभ्यस्तन्न्यूनसंख्यया जुहुयात् । एभ्यस्तु पालाश्यः समिधः । ग्रहाणां यदाऽष्टौ तदाऽन्येभ्यश्च तत्र इति संप्रदायः । ततो भुवनेश्वर्यै गायत्र्या दधिमधुघृताक्ताभिस्तिसृभिर्दूर्वाभिरेकाहुतिरित्येवमष्टसहस्रमष्टशतं वा दुर्वाहुतीर्धृताक्ततिलमिश्र गोधूमाहुतीः पायसाहुतीघृताहुतीश्च जुहुयात् । एवमिन्द्राणीन्द्रयोः प्रागुक्तमन्त्राभ्यां क्रमेण हविश्चतुष्टयं प्रत्येकमष्टशतसङ्ख्यं, भुवनेश्वर्या अष्टसहस्रपक्षे जुहुयात् । तस्या अष्टशतपक्षे तु तयोरष्टाविंशतिरिति संप्रदायः । अन्ये तु गायत्र्यैव तु होतव्यं हविरत्र चतुष्टयम् । ततः स्विष्टकृतं हुत्वेति शौनकेनेन्द्राणीन्द्रयोर्होमानभिधानात्तयोर्होमो नास्तीत्याहुः । ततः स्विष्टकृदादिप्रणीताविमोकान्तं कृत्वा इन्द्रादिदिक्पालेभ्यो नवग्रहेभ्यो भुवनेश्वरीन्द्राणीन्द्रेभ्यः क्षेत्रपालाय च सदीपान्माषभक्तवलीस्तत्तन्मन्त्रैर्दत्त्वा पूर्णाहुति समुद्रादूर्मिरिति तृचेन जुहुयात् । ततो भुवनेश्वर्यादिकलशोदकं ग्रहकलशोदकं च पात्रान्तरे गृहीत्वा तेन तत्स्थपञ्चपल्लवैः सकुशदूर्वैर्धृतनववस्त्रं यजमानं धृतनववस्त्रकञ्चुकीं च तद्वामस्थाम् ऋतुमती सऋत्विगुदङ्मुख आचार्योऽभिषिचेदेतैर्मन्त्रैः । ते च - आपोहिष्टेति नवभि:, यएकइद्विदयत इत्येकया, त्रिभिष्टं देवेति सप्तर्चेन, उभयं शृणवञ्चनेत्येकया, स्वस्तिदाविश इति च, त्र्यम्बकमिति, जातवेदस इत्येकया समुद्रज्येष्ठा इति चतसृभिः, त्रायन्तामिति तिसृभिः इमाआपइति तिसृभि देवस्यत्वेति त्रिभिः, तमीशानं जगत इत्येकया त्वमग्नेरुद्र इत्यापस्तम्वशाखागतेनैकेन, तमुष्ट्रहीति मन्त्रेण, भुवनस्य पितरमिति च, यातेरुद्रेति यज्जायत इति पण्मन्त्रैः, इन्दत्वावृषभं वयमिति पञ्चमन्त्रैः, ततः सुरास्त्वामभिषिञ्चन्त्विति नवभिः पौराणै - र्मन्त्रैरभिषिभ्वेत् । ततः कलशोदकेनान्येन चोदकेन सुस्नातौ दम्पती शुक्लवासोगन्धमाल्यादिधृत्वोपविशेतां । तत्र पत्नी दक्षिणतः । ततो यजमानोऽग्निं संपूज्य विभूतिं घृत्वाऽऽचार्यादीन् गन्धपुष्पवत्रा - लंकारादिभिर्यथाशक्तिपूजयित्वाऽऽचार्याय धेनुं दक्षिणां दद्यात् । दक्षिणात्वेन चास्या न दक्षिणान्तरमनवस्थाप्रसङ्गात् । ततो ब्रह्मणे यथाशक्ति दक्षिणां दत्त्वा रुद्रजापिने सदक्षिणमनाहं दक्षिणां दद्यात् । अथ धेनुन्यायेनादक्षिणत्वे प्राप्ते सदक्षिणमनङ्ग्राहं प्रदद्यादुद्रजापिने इति प्रतिप्रसवकरणा