________________
१२६
पारस्करगृह्यसूत्रम् ।
[ एकादशी
ताम्रजम् । भुवनेश्वरीं न्यसेत्तत्र इन्द्राणीं च पुरन्दरम्। जपेद्गायत्रीं मध्यमे श्रीसूक्तं च जपेत्ततः । स्पृशन्वै दक्षिणं कुम्भमृत्विगेको जपेदथ । चत्वारि रुद्रसूक्तानि चतुर्मन्त्रोत्तराणि च । संस्पृशन्तुत्तरं कुम्भं श्रीरुद्रं रुद्रसङ्ख्यया । शन्नइन्द्राभिसूक्तं च तत्रैव संस्पृशन् जपेत् । कुम्भस्य पश्चिमे देशे शान्तिहोमं समाचरेत् । दूर्वाभिस्तिलगोधूमैः पायसेन घृतेन च । तिसृभिश्चैव दूर्वाभिरेका वाऽप्याहुतिर्भवेत् । अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा । गायत्र्यैव तु होतव्यं हविरत्र चतुष्टयम् । ततः स्विष्टकृतं हुत्वा समुद्रादूर्मिसूक्ततः । संततामाज्यधारां तां पूर्णाहुतिमथाचरेत् । अथाभिषेकं कुर्वीत प्रतिकुम्भस्थितोदकैः । आपोहिष्टेतिनवभिः सूक्तेन च ततः परम् । 'इन्द्रो अङ्गे' तृचेनैव पावमानैः क्रमेण तु । उभयं शृणवश्चन स्वस्तिदाविश एकया । त्रैयंबकेन मन्त्रेण जातवेदस एकया । समुद्रज्येष्ठा इत्यादि त्रायन्तां च त्रिभिः क्रमात् । इमा आपस्तृचेनैव देवस्यत्वेति मन्त्रतः । मन्त्रेणाथ तमीशानं त्वमग्ने रुद्र इत्यथ । तमुष्टृहीतिमन्त्रेण भुवनस्य पितरं यथा । याते रुद्रेति मन्त्रेण शिवसंकल्पमन्त्रतः । इन्द्रत्वावृपभं पञ्चमन्त्रैश्चैवाभिषेचयेत् । धेनुं पयस्विनीं दद्यादाचार्याय च भूषणै । सदक्षिणमनङ्घाहं प्रदद्याद्रुद्रजापिने । महाशान्ति प्रजप्याथ ब्राह्मणान् भोजयेत्ततः । नारदः -- तत्र शान्ति प्रकुर्वीत घृतदूर्वा तिलाक्षतैः । प्रत्येकाष्टशतं चैव गायत्र्या जुहुयात्ततः । स्वर्णगोभूतिलान्दद्यात्सर्वदोपापनुत्तये ॥ ॥ अथ प्रयोगस्तत्रैवं विनायकं संप्रपूज्य ग्रहांश्चैव विधानतः । कर्मणां फलमाप्नोतीति याज्ञवल्क्येन कर्मफलसिद्धावविघ्नार्थत्वेन ग्रहयज्ञस्यावश्यकत्वोक्तेरिह च शौनकेन 'आर्तवानां तु नारीणा शान्ति वक्ष्यामि शौनकः ' इत्युपक्रम्य ग्रहातिथ्यपुरःसरमितिप्रकारेणोक्तेरावश्यकत्वादेकदेशकालकर्तृकाणां च विशेषवचनाभावे तन्त्रेण कर्तव्यत्वाद् ग्रहमख पूर्वकस्तन्त्रेण शान्तिप्रयोग उच्यते । रजोदर्शनानन्तरं पचमादिदिने चन्द्रताराद्यानुकूल्ये शुचिदेशे सुस्नातया पत्न्या युतः पतिः प्राङ्मुख उपविश्य प्राणानायम्य देशकालौ संकीर्त्य मम पत्न्याः प्रथमरजोदर्शनेऽमुकदुष्टमासा दिसूचित सकलारिष्टनिरासद्वारा श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां शौनकोक्तां शान्ति करिष्ये इति संकल्प्य गणेशपूजनपुण्याहवाचनगौर्यादिषोडशमातृकापूजनब्राहृयादि - सप्तमातृकापूजननान्दीश्राद्धानि कृत्वा शान्तं दान्तं कुटुम्बिनं मन्त्रतन्त्रज्ञमाचार्य ब्रह्माणं च जपहोमार्थमष्टौ पट् चतुरो वा ऋत्विजोऽपि वृत्वा गन्धादिना पूजयेत् । नत आचार्यो गृहेशानदेशे शुचौ महीद्यौरिति भूमिस्पृष्ट्वा तदक्षिणोत्तरतश्च तथैव मन्त्रावृत्या भूमिं स्पृष्ट्वा ओषधयः समवदन्त इति द्रोणप्रमाणत्रीहिभिर्मध्ये तदक्षिणोत्तरतश्च पृष्ठदेशे मन्त्रावृत्त्या राशित्रयं कृत्वा तेनैव क्रमेण राशित्रये नवमकालकमभग्नं कुम्भत्रयम् आजिव्रकलशमितिमन्त्रावृत्या स्थापयेत् । एवं सर्वत्र मन्त्रावृत्तिः । ततः प्रवआपइति नवर्चेन कलशेपूदकपूरणम् । गन्धद्वारामिति त्रिष्वपि गन्धं प्रक्षिप्य या ओपधीरिति सर्वैपथः, ओपधयः समिति यवान् क्षिपेत् । ततो मध्यकुम्भे यवत्रीहितिलमा पकडुज्यामाकमुद्गान् क्षिप्त्वा गायत्र्यौदुम्बरकुशदूर्वा रक्तोत्पलचम्पकवित्वविष्णुक्रान्तातुलसीवर्हिपशङ्खपुष्पीः शतावर्यश्वगन्धानिर्गुण्डीरक्तपीतसर्पपापामार्गपलाशपनसजीवकप्रिय डुगोधूमव्रीह्यश्वत्थदधिदुग्धघृतपद्मपत्रनीलोत्पलसितरक्तपीतकुरण्टकगुञ्जावचाभद्रकाख्यानि द्वात्रिंशदौपधानि सर्वाणि यथासंभवं वा क्षिपेत् । ततस्त्रिपु कलशेषु काण्डात्काण्डादिति दूर्वाः, अश्वत्थेव इति पञ्चपल्लवान्, गजाश्वस्थानरथ्यावल्मीकसङ्गमहृदगोष्टस्थानमृदः स्योनापृथिवीति क्षिवा, याः फलिनीरिति पूगीफलानि, सहि(रण्य) रत्नानीति कनककुलिशनीलपद्मरागमौक्तिकानि पञ्चरत्नानि, हिरण्यरूप इति हिरण्यं च क्षिपेत् । युवासुवासा इति सूत्रेण वाससा च कलशकण्ठान् वेष्टयित्वा गन्धाक्षतपुष्पमालादिभिः कलशान् भूपयेत । तत. कलशत्रयोपरि तेनैव क्रमेण सौवर्ण राजतं कांस्यमयं ताम्रमयं वैणवं मृन्मयं वा यवादिपूरितं पात्रत्रयं पूर्णादवति निधाय, तदुपरि श्वेतं वस्त्रत्रयं न्यस्य तत्र चन्दना -