________________
प्रथमकाण्डम्।
१२५ कण्डिका शेषं वधू प्राशयति सकृत् । अत्र समाचाराद्वरोऽपि कन्याहस्तेन भोजनं करोति ।। इति पदार्थक्रमः ॥ अथ गर्गमते विशेष:-ब्रह्मोपवेशनाद्याज्यभागान्तं पूर्ववत् । प्रत्यक्षब्रह्मण उपवेशनम् । ग्रहणे प्रजापतये जुष्टं गृहामि । आज्यभागान्ते पञ्चाहुतयस्ततः स्थालीपाकेन प्रजापतये स्वाहेति । मूर्द्धन्यभिपेकः । ततः स्थालीपाकं प्राशयति प्राणैस्ते इति चतुर्भिः प्रतिमन्त्रम् । महाव्याहृत्यादिस्विष्टकृदन्तम् । आज्येन स्विष्टकृदिति गर्गपद्धतौ । प्राशनादिपूर्णपात्रदानान्तम् इतिगर्गमते क्रमः ॥ ॥ अथ गर्भाधाने पदार्थक्रमः । प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकश्राद्धम् । सङ्कल्पः देशकालौ स्मृत्वा अस्या मम भार्यायाः प्रतिगर्भ संस्कारातिशयद्वाराऽस्यां जनिष्यमाणसर्वगर्भाणां वीजगर्भसमुद्भवैनोनिवर्हणद्वारा च श्रीपरमेश्वरप्रीत्यर्थ गर्भाधानाख्यं कर्माहं करिष्य इति । ततो रात्रावभिगमनं ब्रह्मसूत्रं मूत्रपुरीपवद्धार्यम् । स्नानम् । ततो दक्षिणांसमधि हृदयमालभते यत्ते सुसीम इति । न कश्चिदत्र विशेपो गर्गमते॥ इति गर्भाधाने क्रमः ॥ अथ प्रथमे रजोदर्शने विशेषः-तत्र प्रथमे रजोदर्शने मासादौ दुष्टे सति गर्भाधानस्य शान्तिपूर्वकं कर्तव्यत्वाच्छान्तिकं वक्तुं दुष्टमासाधुच्यते--प्रथमे रजसि चैत्रज्येष्ठाषाढभाद्रपदकार्तिकपौषा अशुभाः । आश्विनो मध्यमः । शेषाः शुभाः । कचिद्वैशाखफाल्गुनपूर्वाद्धयोरधमत्वमुक्तम् । तिथिषु प्रतिपचतुर्थीषष्ठयष्टमीद्वादशीचतुर्दशीपौर्णमास्यमावास्या अशुभाः शेषाः शुभाः । कचित्सप्तम्येकादश्यावशुभे अष्टमीद्वादश्यौ शुभे इत्युक्तम् ॥ वारेपु रविभौममन्दवारा अशुभाः । अन्ये तु शुभाः । कैश्चित्सोमोऽप्यशुभ उक्तः । नक्षत्रेषु भरण्या पुष्याश्लेषापूर्वाज्येष्ठामूलपूर्वाषाढापूर्वाभाद्रपदारेवत्योऽशुभाः, चित्राविशाखाश्रवणाश्विनीमघाखातयो मध्यमाः, अन्यानि शुभानि । कैश्चित्तु कृत्तिकापुनर्वस्वनुराधारेवत्योऽप्यशुभा उक्ताः । एवं च तासां मध्यमत्वम् एवमन्यत्रापि । योगेषु व्याघातस्याद्या नव नाड्यो गण्डातिगण्डयोः षट्पट् शूलस्य पञ्चदश परिघपूर्वार्द्धं वैधृतिव्यतीपाताश्चेत्यशुभाः । वज्रं मध्यमम् । अन्ये शुभाः । करणानि विष्टिं विना सर्वाणि शुभानि । अह्नि त्रेधाविभक्ते आद्यो भागः शुभः द्वितीयो मध्यमः तृतीयो दुष्टः ॥ एवं रात्रौ । सूर्योदयास्तमयावप्यशुभौ । रविसंक्रमादधो नाडीचतुष्टयमूर्वं चान्त्यं शुभम् । सङ्घान्त्यादिदग्धदिनेष्वशुभम् । रविचन्द्रोपरागयोरण्यशुभम् । सन्थ्योपप्लवशावाशौचेपु भर्तुरात्मनश्च चतुर्थाष्टमद्वादशस्थे चन्द्रे जीर्णरक्तनीलमलिनकष्णवस्त्रेषु परिहितेपु न शुभम् ॥ संमार्जनीकाप्ठतृणाग्निशूर्पतुपशुष्काक्षतलोहपाषाणशस्त्रादिधारिण्या एतैर्युक्ते देशे चाशुभम् । देहलीद्वाररथ्यादिपितृमातृगृहेष्वशुभम् । उर्व स्थिताया निद्रितायाश्चाशुभम् । शय्यादौ शुभम् । पित्रादिसखिस्वभर्तृभिईष्टमशुभम् । शय्यादौ शुभमित्यादि ज्ञेयम् । दुष्टमासादौ प्रथमरजोदर्शने ताम्बूलभक्षणादिमङ्गलाचारान्न कुर्यात् । द्वितीये तु शुभे तत्र कुर्यादिति । प्रथमे दुष्टरजोदर्शने द्वितीयं प्रतीक्ष्य तस्मिन्नप्यशुमे वक्ष्यमाणां विस्तरेण शान्ति कुर्यादिति केचित् । प्रथम एव यथाशक्ति शान्ति चरेदित्यपरे । अत्रैकस्मिन्नप्यशुभे वक्ष्यमाणा शान्तिः कार्या ।। द्वित्राद्यशुभसन्निपाते तु तत्सूचितवह्वशुभनिरासाथै वक्ष्यमाणाहुतिसंख्यादिविवृद्धथा कार्या। यथाशक्तीत्यादि ज्ञेयम् । इति शुभाशुभविचारः । अथ शान्तिरुच्यते । प्रयोगपारिजाते शौनकःपञ्चमेऽह्नि चतुर्थे वा ग्रहातिथ्यपुरःसरम् । द्रोणप्रमाणधान्येन ब्रीहिराशिवयं भवेत् । कुम्भनयं न्यसेद्राशौ तन्तुवस्त्रादिवेष्टितम् । सूक्तेनाथ नवर्चेन प्रसुवआप इत्यथ । आचार्यः प्रवरस्तद्वदायच्या च ततः क्रमात् । मध्यकुम्भे क्षिपेद्धान्यमौषधानि च हेम च । उदुम्वरः कुशा दूर्वा राजीवं चंपविल्वकाः । विष्णुकान्ताऽथ तुलसी बर्हिषः शङ्खपुष्पिका । शतावर्यश्वगन्धा च निर्गुण्डी सर्षपद्वयम् । अपामार्गः पलाशश्च पनसो जीवकस्तथा । प्रियङ्गवश्व गोधूमा ब्रीयोऽश्वत्थ एव च । क्षीरं दधि च सर्पिश्च पद्मपत्रं तथोत्पलम् । कुरण्टकत्रयं गुजा वचाभद्रकमुस्तकाः। द्वात्रिंशदौषधानीह यथासंभवमाहरेत् । मृत्तिकाचौपधादीनि तन्मन्त्रेण क्षिपेत्रमात् । कुम्भोपरि न्यसेत्पात्रं कांस्यमृद्धे.