________________
१२२
[ एकादशी
श्रपयित्येत्युच्यते | आज्यभागाविष्ठेतिग्रहणमाज्याहुतिकालविधानार्थम् । मन्त्रार्थः - हे अग्ने हे प्रायचित्ते सर्वोपापाकरण यतस्त्वं देवानामिन्द्रादीनां मध्ये प्रायश्चित्तिः दोपापाकर्ताऽसि अहं च ब्राह्मणः ब्रह्मण्यः वैदिको वा भूत्वोपधावामि आराधयामि । किंभूतोऽहं नाथ उपयाच्ञायाम् आशीष्कामः ऐश्वर्यकामो वा प्रार्थयानो वा । उपधावन प्रयोजनमाह या अस्यै पष्टार्थे चतुर्थी अस्या वध्याः पतिनी तनूस्तन्या अवयवस्ताम् अस्यै इमामुपकर्तु नाशय अपनय तुभ्यं स्वाहा सुहुतमस्तु समुदायवाचकोऽपि तनूशब्दोऽत्रावयववाचको ज्ञेयः । तेन यदस्याः पतिनाशकमङ्गलक्षणं हस्तरेखादि सामुट्रिकलक्षणोक्तं तदपाकृत्य शोभनमङ्गं विधेहीति वाक्यार्थः । एवमुपर्यपि व्याख्येयम् । तनूविशेषणं देवता च भिद्यते । तद्यथा हे वायो पवन प्रजान्नी अपत्यनाशिनी एवमुत्तरत्रापि योज्यम् । 'स्थाली ....स्वा. हेति' । आज्याहुत्यनन्तरं स्थालीपाकस्य चरोः प्रजापतये स्वाहेति मन्त्रेणोपांशुपठितेनैका माहुति जुहोति स्थालीपाकस्येत्यवयवलक्षणा पष्टी । 'हुत्वा हुत्वै सहासाविति । एतासां पण्णामाहुतीनामेकैकामा हुति हुत्वा उत्तरतः प्रतिष्ठापिते उदपात्रे संस्रवान् समवनीय स्रुवलग्नाज्यचर्ववयवान् प्रक्षिष्य ततस्तस्मात्संस्त्रवमिश्रमुदकं गृहीत्वा एनां वधूं मूर्द्धनि मस्तके अभिविश्वति या ते पतिनीति मन्त्रेण । पण्णामाहुतीनामत्र संस्रवभक्षणलोपः । इतरासां तु भवत्येव हुत्वा हुत्वेति ग्रहणं सर्वाहुत्यन्ते संस्त्रवनिनयनं माभूदित्येतदर्थम् । मूर्द्धाभिषेकञ्चागन्तुकत्वादक्षिणादानान्ते भवति । असौस्थाने आमन्त्रणविभक्तियुक्तं वथ्या नामग्रहणं कार्यम् । मन्त्रार्थः --- हे असौ कन्ये या ते तवापत्यादिघातिनी पञ्चधा दुष्टा तनूः अत एव निन्दिता ततोऽनेनाभिषेचनेन एनां तनूं जारनीं उपपत्यादिदोषघातिनी करोमि । सा त्वं मया पत्या भर्त्रा सह जीर्य निर्दुष्टवृद्धत्वं गच्छ । 'अथैनां त्वचमिति ' अथाभिषेकानन्तरमेनां वधूं स्थालीपाकं चरुं वर प्राशयेत्प्राणैस्ते प्राणानिति मन्त्रेण । वधूसंस्कारोऽयं न तु द्रव्यप्रतिपत्तिः, अतो द्रव्यस्य नागदोपादावन्यद्रव्येण प्रादानं कार्यम् । तदुक्तं कारिकायां 'वधूसंस्कार एवायं प्रतिपत्तिरियं न तु । अतो द्रव्यविनाशादौ द्रव्येणान्येन तद्भवेत् । पद्रव्यविनाशादौ लुप्यन्ते प्रतिपत्तयः । ' अत्र स्त्रिया सह वरोऽपि समाचाराद्भोजनं करोति । स्त्रिया सह भोजनेऽपि न दोष इत्याह हेमाद्रौ प्रायश्चित्तकाण्डे गालवः --- एकयानसमारोह एकपात्रे च भोजनम् । विवाहे पथि यात्रायां कृत्वा विप्रो न दोषभाक् । अन्यथा दोपमाप्नोति पश्चाचान्द्रायणं चरेत् । मिताक्षरायामप्येवम् । मन्त्रार्थः -- हे कन्ये मम प्राणादिभिस्ते तव प्राणादीन्संदधामि संयोजयामि । ' तस्मादेत्परो भवति हि यस्मादस्या एतेन प्राशनाख्यसंस्कारेण भर्त्रा सहैक्यं वृत्तं तस्माच्छ्रोत्रियस्य द्वारेण उपहासमभिगमनं नेच्छेत् । स चैवंविदेवंकुर्वन्परोभवति पराभवं गच्छति । यद्वा एवंविच्छ्रोत्रियस्य परः शत्रुर्भवति उत अप्यर्थे निन्दार्थवादोऽयम् । परदाराभिगमनमतो न कार्यम् । समाप्तं चतुर्थीकर्म । स्वभार्याऽभिगमनमाह 'तामुदुह्य यथर्तु प्रवेशनम् ' तां वधूं पूर्वोक्तविधिना उदा विवाहयित्वा यथर्तु ऋतावृतौ प्रवेशनमभिगमनं कुर्यादित्यर्थः । याज्ञवल्क्यः --- पोडशर्तुर्निशाः स्त्रीणां तासु युग्मासु संविशेत् । ब्रह्मचार्येव पर्वण्याद्याश्चतस्रश्च वर्जयेत् । स्त्रीणां पोडशनिशा ऋतुः गर्भाधानयोग्यः कालः तत्रोक्तविधिना गच्छन् ब्रह्मचार्येव । चतुर्दश्यष्टमी चैत्र अमावास्या च पूर्णिमा । चत्वार्येतानि पर्वाणि रविसंक्रान्तिरेव च । मनुः - अमावास्याऽष्टमी चैव पौर्णमासी चतुर्दशी | ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः । तथा तासामाद्याश्चतस्रस्तु निन्दितैकादशी तथा । त्रयोदशी च शेपाः स्युः प्रशस्ता दश रात्रयः । ऋतोरेकादशीत्रयोदश्यौ न पक्षस्य | हारीतस्तु - शुद्धा भर्तुश्वतुर्थेऽह्नि स्नानेन स्त्री रजस्वला । दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्धयतीति । ततश्चतुर्थ्या स्त्रीगमनस्य विहितप्रतिपिद्धत्वाद्विकल्पः । स च व्यवस्थितः रजोनिवृत्तौ चतुर्थ्याविधिः, तदनिवृत्तौ प्रतिषेधः । मनुः --- रजस्युपरते साधी स्नानेन स्त्री रजस्त्रलेति । साध्वी
पारस्करगृह्यसूत्रम् ।