________________
प्रथमकाण्डम् । कण्डिका ]
११९ (जयरामः )-अथ विवाहशेषः कथ्यते-चतुथ्यों चतुर्थेऽहनि अपररात्रेऽभ्यन्तरतोऽग्निमुपसमाधायेति ग्रहणस्य विवाहशेषत्वाद्वहि:शालायां माभूदित्यभ्यन्तरग्रहणम् । पूर्वाहव्युदासाथै चाऽपररात्रस्य । ब्रह्माणमुपवेश्येति चोदपात्रावसरविधित्सया । 'स्थालीपाकळ अपयित्वेति' तद्भूतोपादानं माभूदिति । आज्यभागाविष्टेत्याज्याहुत्यवसरविवित्सयोक्तम् । अग्नेप्रायश्चित्तेत्येवमादिपञ्चभिर्मन्त्रैः पञ्चाज्याहुतीर्जुहोति वरः। अथ मन्त्रार्थः । तत्र सर्वेषां परमेष्ठी त्रिष्टुप् लिङ्गोक्ता घृतहोमे० । हे अग्ने हे प्रायश्चित्ते सर्वदोषापकरण यतस्त्वं देवानामिन्द्रादीनां मध्ये प्रायश्चित्तिः दोषापाकर्ताऽसि अहं च ब्राह्मण ब्रह्मण्यः वैदिको वा भूत्वा त्वाम् उपधावामि आराधयामि । किंभूतोऽहम् ? नाथकामः आशीष्काम: ऐश्वर्यकामो वा प्रार्थयानो वा । उपधावनप्रयोजनमाह अस्यै अस्याः वध्वाः पतिनी तनूः तन्वा अवयवस्ताम् अस्यै इमामुपकर्तुं नाशय अपनय तुभ्यं स्वाहा सुहुतमस्तु । समुदायवाचकोऽपि तनूशब्दोऽत्रावयववाचको ज्ञेयः । तेन यदस्याः पतिनाशकमङ्गलक्षणं तदपाकृत्य स्वॉ विधेहीत्येतावानेव वाक्यार्थः । एवमुपर्यपि व्याख्येयम् । तनूविशेषणं देवता च भिद्यते । तद्यथा । हे वायो पवन प्रजानी अपत्यनाशिनी । एवमुत्तरत्रापि । स्थालीपाकस्येत्यवयवलक्षणा षष्ठी । हुत्वा हुत्वेति सर्वाहुत्यन्ते माभूदित्येतदर्थम् । ततः संस्रवजलेनैनां वधू मूर्द्धन्यभिषिञ्चति वरो' या ते पतिनी' इति मन्त्रेण । मूर्द्धाभिषेकश्व सर्वान्ते भवत्यागन्तुकत्वात् । अथ मन्त्रार्थः । तत्र प्रजापतित्रिष्टुप् वधूरभिषेके० । असाविति कन्यानामादेशः । हे असौ कन्ये या ते तव पत्यादिघातिनी पञ्चधा दुष्टा तनूः अत एव निन्दिता ततोऽनेनाभिषेचनेन एनां तनूं जारनीम् उपपत्यादिदोषधाविनी करोमि । सा वं मया पत्या भर्ना सह जीर्य निर्दुश्वृद्धत्वं गच्छ । अथैनां वधूं स्थालीपाकशेषं वरः प्राशयति सकृत् प्राणैस्त इति मन्त्रेण । अस्याः । तत्र प्रजापतिर्यजुर्वधूः प्राशने० । हे कन्ये, मम प्राणादिभिस्ते तव प्राणादीन्संदधामि संयोजयामि तस्मादिति हि यस्मात् अस्या एतेन प्राशनाख्यसंस्कारेण भर्ना सहैक्यं वृत्तं तस्माच्छ्रो. त्रियस्य दारेण उपहासमभिगमनं नेच्छेत् । सचैवंवित् एवं कुर्वन्परोभवति पराभवं गच्छति । यद्वा एवंचित् श्रोत्रियः परः शत्रुर्भवति । उत अप्यर्थे । निन्दार्थवादोऽयम् । तामिति साऽनेन प्रकारेणोढा भवति । तामुदुह्य एवमृदा च यथतु ऋतावृतौ प्रवेशनमभिगमनं कुर्यात् । यथाकामीवेति याथाकाम्यं वा स्त्रियाः काममनतिक्रम्यासिगमो भवति न रतावृतावेव । तत् कुतः 'काम "मेति । प्रजापतिना हीन्द्रेण वरो दत्तः स्त्रीणां ताभिश्च वृतः । कामम् इच्छया आविजनितोः विजननकालादासम्भवामेति वचनात्पुंसा सङ्गता गर्भानुपघातेन भवामेति । अतो विकल्पः। तथा च स्मरणम्-ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जमिति । अथेति हृदयालम्भश्चाभिगमनोत्तरकालीनः । प्राक्कालीन इत्यपरे अप्रयतत्वात् । नैतत् । यतो गर्भसंभावनायां तदुपयुज्यते । प्रयतत्वं च शौचादिनाऽपि स्यादेव । यथाऽऽह याज्ञवल्क्यः-ऋतौ तु गर्भशकित्वात्स्नानं मैथुनिनः स्मृतम् । अनृतौ तु सदा गच्छञ्छौचं मूत्रपुरीपवदिति । तत्र मन्त्रः यत्ते सुसीम इति । अस्यार्थः, तत्र प्रजापतिरनुष्टुप् वधूहृदयालम्भने । हे सुसीमे शोभनसीमन्तिनि यत्ते तव हृदयं मनः दिवि स्वर्गे वर्तमाने चन्द्रमसि श्रितं तदधीनतया स्थितं चन्द्राधिष्ठितत्वात्तदहं वेद जानीयां तच्च मां विन्द्यात् जानातु । एवं परस्परानुगुणितहृदया अपत्यादिसहिता वयं शरदः शतमित्यायुक्तार्थम् । एवमत ऊर्ध्वम्' ऋतावृतौ एवमेवाभिगमनाख्यं कर्म कुर्यात् ॥ ११॥ ॥*॥
(हरिहरः)-'चतुर्थ्याम'.."र्जुहोति' चतुर्थी तिथौ विवाहतिथिमारभ्य अपररात्रे रात्रेः पश्चिमे यामे अभ्यन्तरतः गृहस्य मध्ये अग्निं वैवाहिकमुपसमाधाय पञ्चभूसंस्कारान्कृत्वा अग्नि स्थापयित्वा दक्षिणतो ब्रह्मासनमास्तीय तत्र पूर्ववद्ब्रह्माणमुपवेश्य उत्तरत उदपात्रं प्रतिष्ठाप्य प्रणी