________________
११८ पारस्करगृह्यसूत्रम् ।
[ एकादशी तनूस्तामस्यै नाशय स्वाहा । चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै गृहन्नी तनूस्तामस्यै नाशय स्वाहा । गन्धर्व प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै यशोघ्नी तनूस्तामस्यै नाशय स्वाहेति ॥ २ ॥ स्थालीपाकस्य जुहोति प्रजापतये स्वाहेति ॥ ३॥ हुत्वा हुत्वैतासामाहुतीनामुदपात्रे सठस्रवान्त्समवनीय तत एनां मूर्धन्यभिषिञ्चति । याते पतिनी प्रजानी पशुन्नी गृहन्नी यशोनी निन्दिता तनूर्जारनी तत एनां करोमि सा जीर्य त्वं मया सहासाविति ॥ ४॥ अथैनाठ स्थालीपाकं प्राशयति प्राणैस्ते प्राणान्त्संदधाम्यस्थिभिरस्थीनि मार्छसैर्माठ-सानि त्वचा त्वचमिति ॥ ५ ॥ तस्मादेवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवं वित्परो भवति ॥६॥ तामुदुह्य यथर्तुं प्रवेशनम् ॥ ७ ॥ यथाकामी वा काममाविजनितोः संभवामेति वचनात् ॥ ८॥ अथास्यै दक्षिणाईन्समधिहदयमालभते । यत्ते सुसीमे हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शत शृणुयाम शरदः शतमिति ॥९॥ एवमत ऊर्ध्वम्॥१०॥११॥
(कर्कः)-'चतुर्थ्या..."प्रायश्चित्ते' इति । विवाहशेषोऽयमुच्यते । चतुर्थेऽहन्यपररात्रे गृहाभ्यन्तरतोऽग्निमुपसमाधाय विवाहशेषत्वाहिशालायां माभूदित्यभ्यन्तरग्रहणं, पूर्वाहव्युदासाथै चापररात्रस्य, ब्रह्माणमुपवेश्येति चोदपात्रावसरविधित्सया । स्थालीपार्क अपयित्वेत्युच्यते तद्भूतोपादानं माभूदिति । आज्यभागाविष्वेत्येतदाज्याहुत्यवसरविधित्त्सयोक्तम् । अग्नेप्रायश्चित्त इत्येवमादिपञ्चाज्याहुतीर्तुत्वा 'स्थाली..."स्वाहेति' अनेन मन्त्रेण स्थालीपाकस्येत्यवयवलक्षणा षष्ठी। 'हुत्वा... पतिनी' इत्यनेन मन्त्रेण । असाविति च नामधेयग्रहणम् । सर्वाहुत्यन्ते माभूदिति हुत्वा हुत्वेत्युक्तम् । सूर्द्धाभिषेकञ्चागन्तुकत्वात्सर्वान्ते भवति । अथैनाई..."धामि' इत्यनेन मन्त्रेण । एनामिति वधूम् । 'तस्मा""""""भवति' यस्मादस्या ऐक्यं संवृत्तं तस्माच्छ्रोत्रियदारेण नोपहास एष्टव्यः । उपहासशब्देन चाभिगमोऽभिधीयते । स चैवंवित् एवं कुर्वन् परोभवति पराभवति । निन्दार्थवादोऽयम् । 'तामुदुह्य यथतु प्रवेशनम् । साऽनेन प्रकारेण ऊढा भवति । तामूदा च यतु ऋतावृतौ प्रवेशनमभिगमनं कुर्यात् । 'यथा कामी...'वचनात् ' यथाकामं वा भवत्यभिगमो न ऋतावृतावेव।कुत एतत् ? प्रजापतिना हि वरो दत्तः स्त्रीणां ताभिश्च वृतः काममाविजनितोः इच्छया आविजनितोः आविजननकालात् पुंसा सह संभवामेति । एवं च सति विकल्प एवायम् । तथाच स्मरणम्-ऋतौ भार्यामुपेयात्सर्वत्र वा प्रतिषिद्धवर्जमिति । 'अथास्यै...""सुसीम' इत्यनेन मन्त्रेण हृदयालम्भश्चाभिगमोत्तरकालीनः । प्राकालीन इत्यपरे अप्रयतत्वादिति । 'एवमत अर्ध्वम् । ऋतावृतावेव कर्म कर्तव्यम् ॥ ११॥ ॥ * ॥