________________
कण्डिका ] प्रथमकाण्डम् ।
११७ पूर्वान्त इतिन्यायाभावात्तेषां वाक्यमित्यनेन च प्रतिक्षत्रे प्रतितिष्ठामीत्येतदन्तमन्त्रप्राप्तौ यज्ञान्तप्रहणं वाक्यसमुच्चयविधानार्थम् , आत्वाहार्पमिति ऋक्त्वात्संपूर्णायाः पाठः । तेषां वाक्यमित्यत्र तच्छब्देन यजुषां परामर्शात् ततश्च यत्र अप्रतीकग्रहणं तत्र संपूर्णायाः पाठस्त्वन्नो अग्ने इत्यादौ । 'धुयौँ दक्षिणा प्रायश्चित्तिः' अत्र धुर्यावनड्डाहौ दक्षिणा भवतीति शेपः । दक्षिणान्तरस्य निवृत्तिः दृष्टार्थत्वात् । प्रायश्चित्तिरिति चास्य कर्मणः संज्ञा । 'ततो ब्राह्मणभोजनम् । ततः कर्मान्ते ब्राह्मणस्यैकस्य भोजनं कार्यम् कारयितव्यम् । इति दशमीकण्डिका ॥ १०॥ * ॥
___ 'अथात्र पदार्थक्रमः ॥ तत्र निमित्ते जाते पञ्चभूसंस्कारपूर्वकमग्नेः स्थापनं, राजा सेनाग्नेः स्थापनं कुर्याद्वरश्च वैवाहिकाग्नेः स्थापनं कुर्यात् । ततो ब्रह्मोपवेशनादिपर्युक्षणान्तं कृत्वा इह रविरिति प्रथमामाहुतिं जुहोति उपसृजन धरुणमित्यादिदीधरत्स्वाहेत्यन्तेन मन्त्रेण द्वितीयामाहुतिं जुहोति इदमग्नये न ममेति द्वयोस्त्यागौ । तत आधारादिप्रणीताविमोकान्तं कृत्वा धुर्यावनवाही दत्त्वा अन्यद्यानमानीय तत्र राजानं प्रतिक्षत्रे प्रतितिष्ठामि आवाहार्षमितिमन्त्राभ्यामुपविशस्वेत्यध्येषणपूर्वकमुपवेशयेत्, वधूमेताभ्यामेव मन्त्राभ्यामुपविशयेत् ततोब्राह्मणभोजनम् इति पदार्थक्रमः ॥ १०॥
(विश्व०)-राज्ञोऽक्षभेदे' अक्षस्य भेदोऽक्षभेदः तस्मिन्नित्यर्थः । 'नद्धविमोक्षे नद्धस्य वद्धस्य विमोक्षे वा आकस्मिकेत्यर्थः । यानविपर्यासे' यानस्य विपर्यासः अधोभावाद्यापत्तिस्तस्मिनित्यर्थः । अन्यस्यां वा व्यापत्तौ । अन्यस्यां वा कस्यांचिद्विपत्तौ । 'स्त्रियायोगहने, खियाः वध्वाः उद्वहने पितृगृहाहर्तृगृहं प्रति गमने प्रथमे इत्यर्थः । नैमित्तिकैकत्वसूचनार्थश्वकारः । 'तमेवाग्निमुपसमाधायाज्य संस्कृत्येह रतिरिति जुहोति नाना मन्त्राभ्यां । तमेव राज्ञः सेनाग्नि स्त्रिया वैवाहिकमग्निमुपलिप्त उद्धतावोक्षिते समाधाय आज्यं पूर्णाहुतिवत्संस्कृत्येह रतिरिति जुहोति । संस्कारोत्तरकालं होमविधानादाधारादिना न व्यवधानम् । स्वाहाकारान्ताभ्यां संहितापठिताभ्यां मंत्राभ्यां नाना आहुतयो होतव्याः। तान्याहुतयः पट् । वृपोत्सर्गे पट्जुहोतीति सूत्रात् । इदमनय इति सर्वासु त्यागः । तत आधारादिचतुर्दशाहुती त्या संस्रवं प्राश्य पवित्राभ्यां मार्जनं कृत्वा ब्रह्मणे दक्षिणां दद्यात् ॥ ॥' अन्यद्यानमुपकल्प्प तत्रोपवेशयेद्राजान स्त्रियं वा प्रतिक्षत्र इति यज्ञान्तेन । प्रतिक्षत्र इत्यत्र परादिना पूर्वान्तत्वाभावाद्यज्ञान्तेनेत्युक्तम् । तथाच प्रतितिष्ठामि यज्ञ इत्यन्तो मन्त्रः । पुरोहितो राजानं स्त्रियं वधू वर इति । ' आत्वाहार्पमिति चैतया । उपवेशयेदिति समुच्चयार्थश्वकारः । आत्वाहापमित्यनयापि ऋचा कल्पिते यानान्तरे स्त्रियं राजानं चोपवेशयेदित्यर्थः । 'धुयौँ दक्षिणा' धुर्यों बलीवौं अस्य कर्मणो दक्षिणा । 'प्रायश्चित्तिः । इति कर्मनामधेयम् ॥ ॥ ततो ब्राह्मणभोजनम् । बर्हिोमादिब्राह्मणभोजनान्तमित्यर्थः ॥ इति दशमी कण्डिका ।। १०॥
चतुर्थ्यामपररात्रेऽभ्यन्तरतोऽमिमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योतरत उदपात्रं प्रतिष्ठाप्य स्थालीपाकठ श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति ॥ १॥ अमे प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणरत्वा नाथकाम उपधावामि याऽस्यै पतिनी तनूस्तामस्यै नाशय स्वाहा । वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै प्रजानी तनूस्तामस्यै नाशय स्वाहा । सूर्यप्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणरत्वा नाथकाम उपधावामि याऽस्यै पशुन्नी