________________
कण्डिका] प्रथमकाण्डम् ।
१२३ गर्भाधानादिविहितकर्मयोग्येत्यर्थः । ज्योतिःशास्त्रे-पित्र्यं पौष्णं नैत्रतं चापि धिष्ण्यं त्यक्त्वेति । पित्र्यं मघा पौष्णं रेवती नैर्ऋतं मूलम् । अत्र समासु पुत्रो विपमासु कन्येति ज्ञेयम् । हेमाद्री शङ्खः-युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिपु । तत्राप्युत्तरोत्तराः प्रशस्ताः । तदाहापस्तम्बः-तत्राप्युत्तरोत्तराः प्रशस्ता इति । व्यासः-रात्रौ चतुथ्यों पुत्रः स्यादल्पायुर्धनवर्जितः । पञ्चम्यां पुत्रिणी नारी पष्ठयां पुत्रस्तु मध्यमः । सप्तम्यामप्रजा योपिदष्टम्यामीश्वरः पुमान् । नवम्यां सुभगा नारी दशम्यां प्रवरः सुतः । एकादश्यामधर्मा स्त्री द्वादश्यां पुरुषोत्तमः । त्रयोदश्यां सुता पापा वर्णसंकरकारिणी । धर्मज्ञश्च कृतज्ञश्च आत्मवेदी दृढव्रतः । प्रजायते चतुर्दश्यां पञ्चदव्यां पतिव्रता । आश्रयः सर्वभूतानां षोडश्यां जायते पुमान् । तच्चैकस्यां रात्रौ सकृदेवकार्य ‘सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् । इतियाज्ञवल्क्योक्तेः । इदं चत्तौं गमनमन्यकाले प्रतिवन्धादिनाऽसंभवे श्राद्धैकादश्यादावपि कार्य-ब्रह्मचार्येव पर्वण्याद्याश्चतस्रश्च वर्जयेदिति याज्ञवल्क्योक्तेः । व्याख्यातं चेदं मिताक्षरायाम । यत्र श्राद्धादौ ब्रह्मचर्य विहितं तत्राप्यतो गच्छतो न ब्रह्मचर्यस्खलनदोष इति । स्त्रीणां वहुत्वे ऋतौ यौगपद्ये च गमनक्रममाह देवलः-योगपद्ये तु तीर्थानां विप्रादिक्रमशो ब्रजेत् । रक्षणार्थमपुत्राणां ग्रहणक्रमशोऽपि वेति । तीर्थमृतुः । विप्रादिक्रमो वर्णक्रमः ग्रहणक्रमो विवाहक्रमः । अगमने दोषमाह पराशरः-नरतौ स्नातां तु यो भायाँ संनिधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशय इति । अस्यापवादमाह मदनरत्ने-व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु । ऋतुकालेऽपि नारीणां भ्रूणहत्या प्रमुच्यते । वृद्धां वन्ध्यामसत्तां मृतापत्यामपुष्पिणीम् । कन्यां च वहुपुत्रां च वर्जयन्मुच्यते भयात् । ऋतौ स्नानमाहापस्तम्बः-ऋतौ तु गर्भशङ्कित्वात्स्नानं मैथुनिनः स्मृतम् । अनृतौ तु यदा गच्छेच्छौचं मूत्रपुरीषवत् । स्त्रीणां तु न स्नानम् 'उभावप्यशुची स्यातां दम्पती शयनं गतौ । शयनादुत्थिता नारी शुचिः स्याद्शुचिः पुमान् इति वृद्धशातातपवचनात् । अत्र प्रसंगाद्रजस्वलोपयोगि किचिन्निरूप्यते। तत्र स्मृत्यर्थसारे-दिवा रजःस्रावे तदिनमशुचित्वं स्यात् । रात्रौ रजःस्रावे सति अर्द्धरात्रादर्वाक्चेत्पूर्वदिनमित्येकः पक्षः रात्रि त्रिधाविभज्य पूर्वभागद्वये चेत्पूर्वदिनमित्यन्यः पक्षः । उदयात्पूर्व चेत्पूर्वदिनमित्यपरः पक्षः । एषां पक्षाणां देशाचारतो व्यवस्था । अविज्ञाते रजःस्रावे तु दिनेषु जातेपु रजःस्रावादिकमशुचित्वं स्यात् (?) । ज्ञानात्पूर्व च रजस्वलास्पृष्टं दुष्टमेव । रजस्वला त्रिरात्रमशुचिः स्यात् चतुर्थेऽहनि स्नाता शुद्धा भवति भर्तुः स्पृश्या दैवे पित्र्ये च कार्ये रजोनिवृत्तौ शुचिः । रजस्वला चतुर्थेऽहनि मृत्तिकादिभिः शौचं कृत्वा क्षत्रियादिखी च पादपादन्यूनमृत्तिकाभिर्विधवा द्विगुणमृत्तिकाभिः शौचं कृत्वा दन्तधावनपूर्वकं सङ्गवे सचैल स्नायात् । रजस्वलायाः स्नातायाः पुनरपि रजोदृष्टौ अष्टादशदिनादागशुचित्वं नास्ति । अष्टादशे दिने रजोदृष्टावेकरात्रमशुचित्वम् , नवदशदिने द्विरात्रम्, विंशतिदिने त्रिरात्रमेव । प्रायो विंशतिदिनादूर्ध्व रजःस्राविणीनामेवं भवति । विंशतिदिनादर्वाक् प्रायशो रजोदर्शनवतीनामष्टादशदिनेऽपि त्रिरात्रमशुचित्वम् । त्रयोदशदिनादूर्व प्रायो रजःस्राविणीनामेकादशदिनादागशुचित्वं नास्ति । एकादशदिने रजोदृष्टौ एकदिनमशुचित्रम्, द्वादशदिने द्विरात्रम्, त्रयोदशदिने त्रिरात्रमेव । प्रयोगपारिजातेऽप्येवम् । रोगजे तु तत्रैवोक्तम्-रोगेण यद्रजः स्त्रीणामन्वहं हि प्रवर्तते । नाशुचिस्तु भवेत्तेन यस्माद्वैकारिकं मतमिति । तत्रापि स्वकाले अशुचिरेव । तदुक्तम् । रोगजे वर्तमानेऽपि काले निर्याति कालजम् । तस्मादप्यप्रमत्ता स्यादन्यथा संकरो भवेत् । रजस्वलाया रजस्वलास्पर्शे अकामतः स्नानं, कामतः उपवासः पञ्चगव्याशनं च । असवर्णासु तु ब्राह्मण्याः क्षत्रियादिस्पर्शे क्रमेण कृच्छ्रार्द्धपादोनकृच्छ्रकृच्छ्राः । क्षत्रियादीनां तु कृच्छ्रपाद एव । क्षत्रियादीनां हीनवर्णस्पर्शे त्रिरात्रमुपवास: एतच्च कामतः । अकामतस्तु प्राकशुद्धेरनशनम् । अकामतश्चा