________________
११४
पारस्करगृह्यसूत्रम् ।
[ दशमी
मानचतुष्टयमिति । बौधायनस्तु - त्रीहीणां यवानां वा शतमाहुतिरिष्यते । अगस्त्यः -- द्रवद्रव्यस्य मानं स्याद्धारा गोकर्णदीर्घिका । सिद्धान्तशेखरे - अन्नं ग्राससमं प्रोक्तं लाजा मुष्टिमिता मता इति । दधिपक्षे तण्डुलपक्षे च शेषप्राशनम् अक्षतपक्षे त्वभावः, अनदनीयत्वादिति भर्तृयज्ञ: । 'अग्नये "प्रातः ? तत्र सायंकाले अग्नये स्वाहेति पूर्वामाहुतिं जुहोति । प्रजापतये स्वाहेत्युत्तरां च जुहोति । प्रातःकाले सूर्याय स्वाहेत्यनेन मन्त्रेण पूर्वामाहुतिं हुत्वा प्रजापतये स्वाहेत्युत्तरां च जुहुयात् । 'पुमा.....र्भकामा ' यदि गर्भकामा पत्नी भवति तदा सायंप्रातः पूर्वामाहुति पत्न्येव पुमासौ मित्रावरुणावित्यनेन मन्त्रेण जुहोति उत्तरामाहुतिं तु यजमान एव जुहोति । सर्वत्र होमे प्रतिमन्त्रं नोङ्कारः । नोड्कुर्याद्धोममन्त्राणां पृथगादिषु कुत्रचित् । अन्येषां चाविकृष्टानां कालेनाचमनादिनेति वचनात् । विकृष्टानामनन्तरितानां कालेनाचमनादिनावेति हरिहरः । मन्त्रार्थः -- एतेषां देवानामेतौ युग्मौ मम आहुत्या मद्दत्तया परितुष्टौ सन्तौ मयि विषये पुंमांसं पुंलक्षणं गर्भं संवतम् उत्पादयेतामिति ॥ इति नवमी कण्डिका ॥ ९ ॥ ॥ *॥
1
अथ पदार्थक्रमः -- तत्रावसथ्याघानोत्तरकालं तस्मिन्नेवाहनि भोजनात्प्राक् यजमानो होमारम्भनिमित्तं मातृपूजनपूर्वकं नान्दीश्राद्धं कुर्यात् । ततः कृतसंध्यावन्दनोऽग्नेरुत्तरत उपविश्य प्राणानायम्य देशकालौ संकीर्त्याग्निरूपपरमेश्वरप्रीत्यर्थम् औपासनहोमं करिष्य इति संकल्प्य । वैकल्पिकं द्रव्यमवधार्योपयमनकुशानादाय सव्ये कृत्वा दक्षिणेन हस्तेन तिस्रः समिषोऽभ्याधाय मणिकोदकेन पर्युदय प्रदीप्तेऽसौ शतसंख्यान् प्रस्थस्य चतुःषष्टितमभागमितान्वा तण्डुलानादायाङ्गुल्युत्तर - पार्श्वेन समिन्मूलतो द्व्यङ्गुलप्रदेशे अग्नये स्वाहेति जुहोति । इदमग्नये न ममेति त्यागं विधाय प्रक्षिपेत् । संस्रवरक्षणम् । पुनस्तण्डुलानादाय प्रजापतये स्वाहेत्युपांशुक्त्वा ॐ प्रजापतये न ममेति त्यागं विधाय प्रक्षिपेत् । संस्रवरक्षणम् । पत्नी पुमासावित्यनेन मन्त्रेण गर्भकामचेत्पूर्वामाहुति जुहोति । इदं मित्रावरुणाभ्यामश्विभ्यामिन्द्राय सूर्याय न ममेति त्यागो यजमानस्य । संस्रवप्राशनम् । पत्नीकर्तृकहोमशेषस्य पत्न्येव प्राशनं करोति । अत्र समास्त्वेत्युपस्थानमिति जयरामभाष्ये । इति सायंहोम: । अथ प्रातहोंमे विशेषः -- उदद्यात्पूर्वे सायंद्रव्येणैव सूर्याय स्वाहेति पूर्वाहुतिः, प्रजापतये स्वाहेत्युत्तराहुति: । यथादैवतं त्यागौ । गर्भकामा चेदत्रापि पुमासाविति होमः । अत्र विभ्राढित्यनुवाकेनोपस्थानमिति जयरामभाष्ये । इति प्रातहोंमे विशेषः । अन्यत्सर्वे सायंहोभवत् । एवमुपयमनकुशादानादि प्रत्यहमोपासनस्य परिचरणम् । अथापत्काले कर्तव्यो होमद्वयसमास - प्रयोगः -- तत्र पूर्ववत्सायंकालीनाहुतिद्वयं हुत्वा किचित्कालं निमील्य पुनः कुशादानादिपर्युक्षणान्तं कृत्वा वः कर्तव्यप्रातर राहुतिद्वयमपकृष्य जुहुयादिति प्रयोगरत्ने । हरिहर मिश्रैस्तु त न्त्रेण होमो लिखितः । स चैवं-पर्युक्षणान्तं कृत्वाऽप्रये स्वाहेति हुत्वा तथैव सूर्याय स्वाहेति हुत्वा आहुतिद्वयपर्याप्तं होमद्रव्यमादाय प्रजापतये स्वाहेति सकृज्जुहुयाद् । अथ गुर्वादि पक्षहोमः -- तत्र प्रतिपदि सायंकाले उपयमनादानादिपर्युक्षणान्तं कृत्वा आहुतिप्रमाणेन तण्डुलान्मात्रद्वये प्रतिपात्रं चतुर्दशवारं गृहीत्वा होमकाले प्रथमपात्रस्थाननये स्वाहेति जुहुयात् । ततो द्वितीयपात्रस्थान्प्रजापतये स्वाहेति जुहोति । एवं द्वितीयायां प्रातः पर्युक्षणान्तं कृत्वा पूर्ववत्पात्रद्वये तण्डुलान्कृत्वा सूर्याय स्वाहेति प्रथमपात्रस्थान हुत्वा प्रजापतये स्वाहेति द्वितीयपात्रस्थांस्तण्डुलान् जुहुयात् । पक्षमध्ये वा आपत्तावागामिचतुर्दशीसायंकाली नहो मान्तान् शेप - होमान सायं समस्येत् । पर्वप्रातर्होमान्ताश्च प्रातः शेषहोमान् समस्येत् । सर्वथा पर्वसायहोमः प्रतिपत्प्रातहोंमञ्च पृथगेव होतव्यौ । तत्र पूर्ववदग्निमभिरक्षेत् । अन्तरापन्निवृत्तौ तु तदारभ्य पूर्ववत्सायंप्रातमान् यथाकालं कुर्यादिति प्रयोगरत्ने । अनापदि पक्षहोमे प्रायश्चित्तमुक्तं देवयाज्ञिकप