________________
hosar ]
प्रथमकाण्डम् |
११३
हेति पूर्वामाहुति पत्नी जुहोति, उत्तरां यजमानः । इदं मित्रावरुणाभ्यामश्विभ्यामिन्द्राय सूर्याय च इति नित्यहोमविधिः ॥
( गदाधरः ) - आवसथ्येऽग्नौ होममाह 'उपय'' "चरणम्' उपयमनकुशादानादि औपासनस्यावसथ्यस्याग्नेः परिचरणं, व्याख्यास्यत इति सूत्रशेपः । प्रभृतिग्रहणेन उपयमनान् कुशानादाय समिधोऽभ्याधाय पर्युक्ष्य जुहुयादेतावल्लभ्यते । होमश्चात्रोपदिष्टः होमेऽपि च सति परिचरणग्रहणादितिकर्तव्यता न भवति । हस्तेनैवात्र होमः इतिकर्तव्यतान्युदासात् । कथमितिकर्तव्यतान्युदास इति चेत् — उपयमनप्रभृतीत्युक्तत्वात् । पर्युक्षणं च मणिकोदकेन । होमकालनियममाह 'अस्तमितानुदितयो:' अस्तमितञ्चानुदितश्चास्तमितानुदितौ तयोः तत्कर्म कर्तव्यमिति शेषः । आवसथ्याधानानन्तरमस्तमिते च सूर्ये अनुदिते च सर्वदा होमः कार्यः न सकृत्, येनैवं सूत्रकार आह 'ततोऽस्तमितेऽस्तमितेऽग्निं परिचर्य दव्यपघात सक्तून् सर्पेभ्यो वलिं हरेत्' इति वलिहरणविधिपरे वाक्ये होमस्य नित्यत्वं ज्ञापयति । अस्तमितलक्षणं कात्यायनेनोक्तम्- ' यावत्सम्यङ् न भाव्यन्ते नभस्यृक्षाणि सर्वतः । लोहितत्वं च नोपैति तावत्सायं तु हूयते । अनुदितस्तु द्विविधः मनुदितः समयाघ्युपितश्च । तथाच मनुः -- उदि तेऽनुदिते चैव समयाध्युषिते तथेति । तत्रानुदितः स्पष्टतार कोपलक्षितः, ततः परमुद्यात्प्राकू समयाध्युपितः, संपूर्णादित्यमण्डलदर्शनोपलक्षित उदितः । तत्रास्माकं सूत्रेऽनुदित एव परिचरणमुक्तम् । मनुवचने उदितग्रहणं शाखान्तरगृह्याभिप्रायेण । मुख्यकाले यदा होमो न भवति तदा गौणकालेऽपि कार्यः । तथा च मण्डनः - मुख्यकाले यदावश्यं कर्म कर्तु न शक्यते । गौणकालेऽपि कर्तव्यं गौणोऽप्यत्रेदृशो भवेत् । गौणकालपरिमाणमपि तेनैवोक्तम् - आसायमाहुते: कालात्कालोऽस्ति प्रातराहुतेः । प्रातराहुतिकालात्प्राकू काल: स्यात्सायमाहुतेरिति । मुख्यकालातिक्रमे प्रायश्चित्तपूर्वकं गौणकालेऽनुष्ठानं गौणकालातिक्रमे तु लोप एव प्रायश्चित्तद्वयमात्रम् । एकमविज्ञातम्, संध्योपासनहानौ च नित्यस्नानं विलोप्य च । होमं च नैत्यकं शुद्धयेत् सावित्र्यष्टसहस्रकृदिति प्रजापत्युक्तं द्वितीयम् । होमे कर्तारः स्वयं स्वस्यासंभवे पत्न्यादयः । प्रयोगरत्ने स्मृतौ — पत्नी कुमारी पुत्रो वा शिष्यो वाऽपि यथाक्रमम् । पूर्वपूर्वस्य चाभावे विदध्यादुत्तरोत्तरः । स्मृत्यर्थसारेऽपि यजमानः प्रधानं स्यात्पत्त्री पुत्रश्च कन्यका । ऋत्विक शिष्यो गुरुभ्रीता भागिनेयः सुतापतिः । एतैरेव हुतं यच तद्भुतं स्वयमेव तु । पवी कन्या च जुहुयाद्विना पर्युक्षणक्रियामिति । अत्र वचनात्पत्न्यादीनां मन्त्रपाठेऽधिकारः, केवलं पर्युक्षणेऽनधिकारः । अग्निहोत्रे तु नवा कन्या न युवती नाल्पविद्यो न वालिशः । होमे स्यादग्निहोत्रस्य नातों नासंस्कृतस्तथा ' इति वचनात्पत्न्यादीनामनधिकारः । त्यागे विशेषः संनिधौ यजमानः स्यादुद्देशत्यागकारकः । असंनिधौ तु पत्नी स्यादुद्देशत्यागकारिका । असंनिधौ तु पत्न्याः स्यादध्वर्युस्तदनुज्ञया । उन्मादे प्रसवे च कुर्वीतानुज्ञया विना । मण्डन. त्यागं तु सर्वथा कुर्यात्तत्राप्यन्यतरस्तयोः । उभावप्यसमर्थौ चेन्नियुक्तः कञ्चन त्यजेत् । ' दध्ना तण्डुलैरक्षतैर्वा ' गव्येन दना वा त्रीहितण्डुलैर्वा अक्षतैर्यवैर्वा जुहुयादि - "त्यर्थः । तेषामभावे शाखान्तरगृह्यपरिशिष्टोक्तानि द्रव्याणि श्राह्माणि । तत्र प्रयोगरत्ने - पयो दधि सर्पिर्यवागूरोदनं तण्डुलाः सोमस्तैलमापो त्रीहयो यवास्तिला इति होम्यानि, तण्डुला नीवारश्या - माकयावनालानां, ब्रीहिशालियवगोधूमप्रियङ्गवः स्वरूपेणापि होम्याः, तिलाः स्वरूपेणैव । शतं चतुःशष्टिर्वाऽऽहुतिब्रूहितुल्यानां तदर्द्धं तिलानां तदर्द्धं सर्पिस्तैलयोः । तैलं च तिलजर्तिलातसीकुसुम्भानाम् । येन प्रथमां देवतां जुहुयात्तेनैव द्वितीयां जुहुयाद्येन च सायं जुहुयात्तेनैव प्रातरिति । अत्र तेनैव प्रातरिति प्रतिनिधिवर्जम् । वृहस्पतिस्त्वाहुति परिमाणमाह — प्रस्थधान्यं चतुःषष्टे राहुतेः परिकीर्तितम् | तिलानां च तदर्द्ध तु तण्डुला ब्रीहिभिः समाः । प्रस्थश्च प्रसृतिद्वितयं मानं प्रस्थं
I
।
१५