________________
कण्डिका] प्रथमकाण्डम् ।
११५ द्धतौ-अभातुरोऽप्रवासी च निश्चिन्तो निरुपद्रवः । पक्षहोमं तु यः कुर्यात्स चरेत्पतितव्रतम् । इति होमविधिः॥
(विश्व०)-उपयम'.."चरणं' उपयमनान्कुशानादायेत्यारभ्य ! समिधश्चात्र तिस्रः प्रकरणात् । उपासन आवसथ्याग्निः । प्रभृतिग्रहणात्यागुक्तपरिभाषाव्यवछेदः अस्तमितानुदितयोः। तत्र प्रथमप्रयोगे मातृश्राद्धम् । द्रव्यमाह-दना तंडुलैरक्षतैर्वा । कर्तव्यतामाह-'अग्नये स्वाहा, प्रजापतये स्वाहेति सायं परिमाणं तु दक्षिणहस्तकनिष्ठाशून्यस्याङ्गुलित्रयस्य द्विपर्वापूरणपर्याप्तम् । त्यागस्तु स्वाहाकाररहितो मन्त्र एवेदंपूर्वकः । एवं प्रातहोंमेऽपि । एवं सायंहोममुक्त्वा प्रातहोममाह 'सूर्याय स्वाहा, प्रजापतये स्वाहेति प्रात: । दन्ना होमपक्षे त्रुवं प्रतप्य पाणिना संमृड्यासर्वहोमं कृत्वा संस्रवं पात्रान्तरे प्रक्षिप्य शेष प्राश्नीयादित्याहुः । 'पुमांसौ मित्रावरुणौ पुमाश्सावश्विनावुभौ । पुमानिन्द्रश्च सूर्यश्च पुमा संवर्ततां मयि पुनः स्वाहेति पूर्वी पत्नी गर्भकामा जुहोति ! उत्तरां यजमान एव । इदं मित्रावरुणाभ्यामिति त्यागः । स्वयहोमाशक्तौ तु-यजमानः प्रधानं स्यात्पनी पुत्रश्च कन्यका। ऋत्विक शिष्यो गुरुर्धाता भागिनेयश्च विट्पतिः । एतैरेव हुतं यत्तु तद्भुतं स्वयमेव तु । पत्नी कन्या च जुहुयाद्विना पर्युक्षणक्रियामिति ॥ ॥ नवमी कण्डिका ॥९॥
राज्ञोऽक्षभेदे नद्धविमोक्षे यानविपर्यासेऽन्यस्यां वा व्यापत्तौ स्त्रियाश्चीद्वहने तमेवाग्निमुपसमाधायाज्य संस्कृत्येहरतिरिति जुहोति नानामन्त्राभ्याम् ॥ १ ॥ अन्यद्यानमुपकल्प्य तत्रोपवेशयेद्राजान स्त्रियं वा प्रतिक्षत्र इति यज्ञान्तेनात्वाहार्षमिति चैतया ॥ २॥ धुयौं दक्षिणा ॥ ३ ॥ प्रायः श्चित्तिः ॥ ४॥ ततो ब्राह्मणभोजनम् ॥ ५॥ ॥१०॥ ॥७॥
(कर्कः)-राज्ञोऽक्ष....."मन्त्राभ्याम् । राज्ञो रथाक्षभेदे नद्धस्य वा रथस्य विमोक्षे यानस्य विपर्यासे अन्यस्यां वा कस्यांचियापदि स्त्रियाश्चोद्वहने । उद्वहनं च पितृगृहातगृहं प्रति प्रथमं नयनम् । अत्र चैतेष्वपि निमित्तेपु नैमित्तिकमिदमुच्यते । तमेवाग्निमुपसमाधायेति । राज्ञः सेनाग्निः स्त्रियाश्चैव विवाहाग्निः आज्यं संस्कृत्येति ग्रहणमाघारादिभ्योऽपि पूर्वकालत्वज्ञापनार्थम् इह रतिरिति नानामन्त्राभ्यां जुहोति । नानाग्रहणाच द्वे आहुती तत आधारादि । 'अन्यद्या''यज्ञान्तेन ' परादिना पूर्वान्ताभावाद्यज्ञान्तग्रहणम् । 'आत्वाहार्षमिति चैतया' ऋचोपवेशयेत् । 'धुयाँ दक्षिणा प्रायश्चित्तिः । धुर्यावनवाही दक्षिणा । प्रायश्चित्तिरिति संज्ञाऽस्य । 'ततो ब्राह्मणभोजनम् । ॥ १० ॥ * ॥ ॥ * ॥ ॥ॐ॥
(जयरामः)-राज्ञो रथाक्षस्य भेदे भने नद्धस्य रथस्य विमोक्षे वा आकस्मिके यानस्य विपर्यासे वा अधोभावापत्तौ अन्यस्यां वा कस्याश्चिद्वयापदि उद्वहने पितृगृहानर्तृगृहं प्रति प्रथमगमने खिया वध्वाः चकाराद्रथाक्षभेदादिनिमित्ते नैमित्तिकमिदमुच्यते । तमेवेति राज्ञः सेनाग्निं लियाश्च वैवाहिकाग्निम् । आज्यं संस्कृत्येति ग्रहणं इह रतिरित्याहुत्योराधारादिभ्योऽपि पूर्वकालत्वज्ञापनार्थम् । नानामन्त्राभ्यामिति ग्रहणादिह रतिरिति उपसृजमिति चेत्याहुतिद्वये मन्त्रभेदः । तत आघारादि प्राजापत्यन्तं प्रतिक्षत्र इति । अत्र परादिना पूर्वान्तत्वाभावाद्यज्ञान्तेनग्रहणम् । ततः प्रतिक्षने प्रति. तिष्ठामीत्यादि प्रतितिष्ठामि यज्ञे इत्यनेन मन्त्रेण । तत्र प्रजापतिरतिशकरी विश्वेदेवा आरोहणे । आत्वाहार्षमिति चैतया ऋचा पुरोहितो राजानं वरश्च वधूम् । आत्वाहार्षमिति ध्रुवोऽनुष्टुप् अग्नि